सतीखण्डः - अध्यायः ३५
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
दक्ष उवाच॥
देवदेव हरे विष्णो दीनबंधो कृपानिधे॥
मम रक्षा विधातव्या भवता साध्वरस्य च ॥१॥
रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः॥
कृपा विधेया यज्ञस्य भंगो भवतु न प्रभो ॥२॥
॥ब्रह्मोवाच॥
इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात्॥
पपात पादयोस्तस्य भयव्याकुलमानसः ॥३॥
उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम्॥
श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ॥४॥
स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम्॥
अवदच्छिवतत्त्वज्ञो दक्षं सबोधयन्हरिः ॥५॥
हरिरुवाच॥
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः॥
सर्वथा ते हितकरं महामंत्रसुखप्रदम् ॥६॥
अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता॥
सकलाधीश्वरस्यैव शंकरस्य परात्मनः ॥७॥
ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा॥
विफलं केवलं नैव विपत्तिश्च पदेपदे ॥८॥
अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते॥
त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम् ॥९॥
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः॥
अमानितान्महेशाच्च महद्भयमुपस्थितम् ॥१०॥
अद्यापि न वयं सर्वे प्रभवः प्रभवामहे॥
भवतो दुर्नयेनैव मया सत्यमुदीर्य्यते ॥११॥
ब्रह्मोवाच॥
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत्॥
विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥१२॥
एतस्मिन्नंतरे वीरभद्रः सैन्यसमन्वितः॥
अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ॥१३॥
पृष्ठे केचित्समायाता गगने केचिदागताः॥
दिशश्च विदिशः सर्वे समावृत्य तथापरे॥ ॥१४॥
शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः॥
असंख्याः सिंहनादान्वै कुर्वंतो वीरसत्तमाः ॥१५॥
तेन नादेन महता नादितं भुवनत्रयम्॥
रजसा चावृतं व्योम तमसा चावृता दिशः ॥१६॥
सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला॥
सशैलकानना तत्र चुक्षुभुस्सकलाब्धयः ॥१७॥
एवंभूतं च तत्सैन्यं लोकक्षयकरं महत्॥
दृष्ट्वा च विस्मितास्सर्वे बभूवुरमरादयः ॥१८॥
सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः॥
दंडवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत ॥१९॥
॥दक्ष उवाच॥
भवद्बलेनैव मया यज्ञः प्रारंभितो महान्॥
सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ॥२०॥
विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः॥
धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥२१॥
तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो॥
त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः ॥२२॥
॥ब्रह्मोवाच॥
दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा॥
अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥२३॥
विष्णुरुवाच॥
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै॥
ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥२४॥
तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः॥
शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ॥२५॥
नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम्॥
तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ॥२६॥
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव॥
न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः ॥२७॥
किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते॥
समर्थं केवलं कर्म न भविष्यति सर्वदा ॥२८॥
स्वकर्मविद्धि तद्येन समर्थत्वेन जायते॥
न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना ॥२९॥
ईश्वरस्य च यो भक्त्या शांतस्तद्गतमानसः॥
कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ॥३०॥
केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः॥
निरयं ते च गच्छंति कल्पकोटिशतानि च ॥३१॥
पुनः कर्ममयैः पाशैर्वद्धा जन्मनि जन्मनि॥
निरयेषु प्रपच्यंते केवलं कर्मरूपिणः ॥३२॥
अयं रुद्रगणाधीशो वीरभद्रोऽरि मर्दनः॥
रुद्रकोपाग्निसंभूतः समायातोध्वरांगणे ॥३३॥
अयमस्मद्विनाशार्थमागतोस्ति न संशयः॥
अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ॥३४॥
प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः॥
ततः प्रशांतहृदयो भविष्यति न संशयः ॥३५॥
श्रीमहादेवशपथं समुल्लंघ्य भ्रमान्मया॥
यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ॥३६॥
शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे॥
शपथोल्लंघनादेव शिवद्रोही यतोस्म्यहम् ॥३७॥
कालत्रयेपि न यतो महेशद्रोहिणां सुखम्॥
ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ॥३८॥
सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति॥
शैवचक्रमिदं यस्मादशैवलयकारणम् ॥३९॥
विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम्॥
हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ॥४०॥
शैवं शपथमुल्लंघ्य स्थितं मां चक्रमीदृशम्॥
असंहत्यैव सहसा कृपयैव स्थिरं परम् ॥४१॥
अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम्
गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् ॥४२॥
वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात्॥
महाक्रोधसमाक्रांतो नास्मान्संरक्षयिष्यति ॥४३॥
अकांडप्रलयोऽस्माकमागतोद्य हि हा हहा॥
हा हा बत तवेदानीं नाशोस्माकमुपस्थितः ॥४४॥
शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये॥
शंकरद्रोहिणो लोके कश्शरण्यो भविष्यति ॥४५॥
तनुनाशेपि संप्राप्यास्तैश्चापि यमयातनाः॥
तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः ॥४६॥
शिवद्रोहिणमालोक्य दष्टदंतो यमः स्वयम्॥
तप्ततैलकटाहेषु पातयत्येव नान्यथा ॥४७॥
गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम्॥
तथापि न गतश्शीघ्रं दुष्टसंसर्गपापतः ॥४८॥
यदद्य क्रियतेस्माभिः पलायनमितस्तदा॥
शार्वो ना कर्षकश्शस्त्रैरस्मानाकर्षयिष्यति ॥४९॥
स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः॥
श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम् ॥५०॥
यावतश्च गणास्संति श्रीरुद्रस्य त्रिशूलिनः॥
तावतामपि सर्वेषां शक्तिरेतादृशी धुवम् ॥५१॥
श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया॥
पुरा शिरश्च चिच्छेद पंचमं ब्रह्मणो ध्रुवम् ॥५२॥
एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः॥
वीरभद्रोपि संप्राप तदैवाऽध्वरमंडपम् ॥५३॥
एवं ब्रुवति गोविन्द आगतं सैन्यसागरम्॥
वीरभद्रेण सहितं ददृशुश्च सुरादया ॥५४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पंचत्रिंशोऽध्यायः ॥३५॥
N/A
References : N/A
Last Updated : October 07, 2020
TOP