संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ४३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः॥
तथान्यैश्च महादेवः प्रसन्नस्संबभूव ह ॥१॥
अथ शंभुः कृपा दृष्ट्या सर्वान् ऋषिसुरादिकान्॥
ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥२॥
महादेव उवाच॥
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोस्मि प्रजापते॥
भक्ताधीनः सदाहं वै स्वतंत्रोप्यखिलेश्वरः ॥३॥
चतुर्विधा भजंते मां जनाः सुकृतिनस्सदा॥
उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते ॥४॥
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः॥
पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥५॥
तत्र ज्ञानी प्रियतर ममरूपञ्च स स्मृतः॥
तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम् ॥६॥
ज्ञानगम्योहमात्मज्ञो वेदांतश्रुतिपारगैः॥
विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥७॥
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित्॥
न शक्नुवंति मां प्राप्तुं मूढाः कर्मवशा नरा ॥८॥
केवलं कर्म्मणा त्वं स्म संसारं तर्तुमिच्छसि॥
अत एवाभवं रुष्टो यज्ञविध्वंसकारकः॥९॥
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम्॥
बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥१०॥
अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते॥
वच्मि गुह्यं धर्महेतोः सगुणत्वेप्यहं तव ॥११॥
अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम्॥
आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥१२॥
आत्ममायां समाविश्य सोहं गुणमयीं मुने॥
सृजन्रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ॥१३॥
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले॥
अज्ञः पश्यति भेदेन भूतानि ब्रह्मचेश्वरम् ॥१४॥
शिरः करादिस्वांगेषु कुरुते न यथा पुमान्॥
पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥१५॥
सर्वभूतात्मनामेकभावनां यो न पश्यति॥
त्रिसुराणां भिदां दक्ष स शांतिमधिगच्छति ॥१६॥
यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः॥
नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥१७॥
मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः॥
स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥१८॥
विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी॥
विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥१९॥
इत्युक्त्वा शंकरस्स्वामी सर्वेषां परमेश्वरः॥
सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ॥२०॥
हरिभक्तो हि मां निन्देत्तथा शैवोभवे द्यदि॥
तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥२१॥
 ॥ब्रह्मोवाच॥
इत्याकर्ण्य महेशस्य वचनं सुखकारकम्॥
जहृषुस्सकलास्तत्र सुरमुन्यादयो मुने ॥२२॥
दक्षोभवन्महाप्रीत्या शिवभक्तिरतस्तदा॥
सकुटुम्बस्सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥२३॥
यथा येन कृता शंभोः संस्तुतिः परमात्मनः॥
तथा तस्मै वरो दत्तश्शंभुना तुष्टचेतसा ॥२४॥
ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः॥
यज्ञं चकार संपूर्णं शिवानुग्रहतो मुने ॥२५॥
ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः॥
दानं ददौ द्विजेभ्यश्च प्राप्तः शंभोरनुग्रहः ॥२६॥
अथो देवस्य सुमहत्तत्कर्म विधिपूर्वकम्॥
दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ॥२७॥
एवं दक्षमखः पूर्णोभवत्तत्र मुनीश्वरः॥
शंकरस्य प्रसादेन परब्रह्मस्वरूपिणः ॥२८॥
अथ देवर्षयस्सर्वे शंसंतश्शांकरं यशः॥
स्वधामानि ययुस्तु ष्टाः परेपि सुखतस्तदा ॥२९॥
अहं विष्णुश्च सुप्रीतावपि स्वंस्वं परं मुदा॥
गायन्तौ सुयशश्शंभोः सर्वमंगलदं सदा ॥३०॥
दक्ष संमानितः प्रीत्या महादेवोपि सद्गतिः॥
कैलासं स ययौ शैलं सुप्रीतस्सगणो निजम् ॥३१॥
आगत्य स्वगिरिं शंभुस्सस्मार स्वप्रियां सतीम्॥
गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ॥३२॥
कालं निनाय विज्ञानी बहु तच्चरितं वदन्॥
लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ॥३३॥
नानीतिकारकः स्वामी परब्रह्म सतां गतिः॥
तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ॥३४॥
अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन॥
केपरे मुनयो देवा मनुषाद्याश्च योगिनः ॥३५॥
महिमा शांकरोनंतो दुर्विज्ञेयो मनीषिभिः॥
भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम् ॥३६॥
एकोपि न विकारो हि शिवस्य परमात्मनः॥
संदर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम् ॥३७॥
यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने॥
लभते सद्गतिं दिब्यामिहापि सुखमुत्तमम् ॥३८॥
इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः॥
जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ॥३९॥
पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा॥
गौरी भूत्वार्द्धवामांगी लीलाश्चक्रेद्भुताश्शिवा ॥४०॥
इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम्॥
भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ॥४१॥
इदमाख्यानमनघं पवित्रं परपावनम्॥
स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ॥४२॥
य इदं शृणुयाद्भक्त्या श्रावयेद्भक्तिमान्नरान्॥
सर्वकर्मा लभेत्तात परत्र परमां गतिम् ॥४३॥
यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम्॥
सोपि भुक्त्वाखिलान् भोगानंते मोक्षमवाप्नुयात् ॥४४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षय ज्ञानुसंधानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥श्रीः॥
समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥२॥
॥श्रीसांबसदाशिवार्पणमस्तु॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP