संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ०९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे॥
चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ॥१॥
गत्वा तत्र महावीरो मन्मथो मोहकारकः॥
स्वप्रभावं ततानाशु मोहयामास प्राणिनः ॥२॥
वसंतोपि प्रभावं स्वं चकार हरमोहनम्॥
सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ॥३॥
विविधान्कृतवान्यत्नान् रत्या सह मनोभवः॥
जीवास्सर्वे वशं यातास्सगणेशश्शिवो न हि ॥४॥
समधोर्मदनस्यासन्प्रयासा निप्फला मुने॥
जगाम स मम स्थानं निवृत्त्य विमदस्तदा ॥५॥
कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा॥
उवाच मदनो मां चोदासीनो विमदो मुने ॥६॥
काम उवाच॥
ब्रह्मन् शंभुर्मोहनीयो न वै योगपरायणः॥
न शक्तिर्मम नान्यस्य तस्य शंभोर्हि मोहने ॥७॥
समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः॥
रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे ॥८॥
शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने॥
प्रयासा विविधास्तात गदतस्तान्मुने मम ॥९॥
यदा समाधिमाश्रित्य स्थितश्शंभुर्नियंत्रितः॥
तदा सुगंधिवातेन शीतलेनातिवेगिना ॥१०॥
उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा॥
प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ॥११॥
स्वसायकांस्तथा पंच समादाय शरासनम्॥
तस्याभितो भ्रमंतस्तु मोहयंस्तद्ग णानहम् ॥१२॥
मम प्रवेशमात्रेण सुवश्यास्सर्वजंतवः॥
अभवद्विकृतो नैव शंकरस्सगणः प्रभुः ॥१३॥
यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः॥
तत्रागतस्तदैवाहं सरतिस्समधुर्विधे ॥१४॥
यदा मेरुं गतो रुद्रो यदा वा नागकेशरम्॥
कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा ॥१५॥
यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन॥
तदा तस्य पुरश्चक्रयुगं रचितवानहम् ॥१६॥
तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः॥
नानाभावानकार्षीच्च दांपत्यक्रममुत्तमम् ॥१७॥
नीलकंठं महादेवं सगणं तत्पुरःस्थिताः॥
अकार्षुमोहितं भावं मृगाश्च पक्षिणस्तथा ॥१८॥
मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम्॥
विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ॥१९॥
नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः॥
सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ॥२०॥
 मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने॥
तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ॥२१॥
चंपकान्केशरान्वालान्कारणान्पाटलांस्तथा॥
नागकेशरपुन्नागान्किंशुकान्केतकान्करान् ॥२२॥
मागंधिमल्लिकापर्णभरान्कुरवकांस्तथा॥
उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥२३॥
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः॥
यत्नात्सुगंधीन्यकरोदतीव गिरिशाश्रमे ॥२४॥
लतास्सर्वास्सुमनसो दधुरंकुरसंचयान्॥
वृक्षांकं चिरभावेन वेष्टयंति स्म तत्र च ॥२५॥
तान्वृक्षांश्च सुपुष्पौघान् तैः सुगंधिसमीरणैः॥
दृष्ट्वा कामवशं याता मुनयोपि परे किमु ॥२६॥
एवं सत्यपि शंभोर्न दृष्टं मोहस्य कारणम्॥
भावमात्रमकार्षीन्नो कोपो मय्यपि शंकरः ॥२७॥
इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम्॥
विमुखोहं शंभुमोहान्नियतं ते वदाम्यहम् ॥२८॥
तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे॥
शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ॥२९॥
ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम्॥
शृंगिणं वीक्ष्य कस्स्थातुं ब्रह्मन् शक्नोति तत्पुरः ॥३०॥
 ॥ब्रह्मोवाच॥
मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः॥
विवक्षुरपि नावोचं चिंताविष्टोऽभवं तदा ॥३१॥
मोहनेहं समर्थो न हरस्येति मनोभवः॥
वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ॥३२॥
निश्श्वासमारुता मे हि नाना रूपमहाबलः॥
जाता गता लोलजिह्वा लोलाश्चातिभयंकराः ॥३३॥
अवादयंत ते सर्वे नानावाद्यानसंख्यकान्॥
पटहादिगणास्तांस्तान् विकरालान्महारवान् ॥३४॥
अथ ते मम निश्श्वाससंभवाश्च महागणाः॥
मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ॥३५॥
तेषां तु वदतां' तत्र मारयच्छेदयेति माम्॥
वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ॥३६॥
मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान्॥
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥३७॥
काम उवाच॥
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक॥
उत्पन्नाः क इमे वीरा विकराला भयंकराः ॥३८॥
किं कर्मैते करिष्यंति कुत्र स्थास्यंति वा विधे॥

किन्नामधेया एते तद्वद तत्र नियोजय ॥३९॥
नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च॥
मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ॥४०॥
ब्रह्मोवाच॥
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः॥
तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ॥४१॥
ब्रह्मोवाच॥
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः॥
मुहुर्मुहुरतोमीषां नाम मारेति जायताम् ॥४२॥
सदैव विघ्नं जंतूनां करिष्यन्ति गणा इमे॥
विना निजार्चनं काम नाना कामरतात्मनाम् ॥४३॥
तवानुगमने कर्म मुख्यमेषां मनोभव॥
सहायिनो भविष्यंति सदा तव न संशयः ॥४४॥
यत्रयत्र भवान् याता स्वकर्मार्थं यदा यदा॥
गंता स तत्रतत्रैते सहायार्थं तदातदा ॥४५॥
चित्तभ्रांतिं करिष्यंति त्वदस्त्रवशवर्तिनाम्॥
ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यंति सर्वथा ॥४६॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचो मे हि सरतिस्समहानुगः॥
किंचित्प्रसन्नवदनो बभूव मुनिसत्तम ॥४७॥
श्रुत्वा तेपि गणास्सर्वे मदनं मां च सर्वतः॥
परिवार्य्य यथाकामं तस्थुस्तत्र निजाकृतिम् ॥४८॥
अथ ब्रह्मा स्मरं प्रीत्याऽगदन्मे कुरु शासनम्॥
एभिस्सहैव गच्छ त्वं पुनश्च हरमोहने ॥४९॥
मन आधाय यवाद्धि कुरु मारगणैस्सह॥
मोहो भवेद्यथा शंभोर्दारग्रहणहेतवे ॥५०॥
इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः॥
देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ॥५१॥
काम उवाच॥
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः॥
तन्मोहो नाभवत्तात न भविष्यति नाधुना ॥५२॥
तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि॥
गमिष्यामि पुनस्तत्र सदारोहं त्वदाज्ञया ॥५३॥
मनो निश्चितमेतद्धि तन्मोहो न भविष्यति॥
भस्म कुर्यान्न मे देहमिति शंकास्ति मे विधे ॥५४॥
इत्युक्त्वा समधुः कामस्सरतिस्सभयस्तदा॥
ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर ॥५५॥
पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा॥
बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ॥५६॥
उपायं स चकाराति तत्र मारगणोऽपि च॥
मोहोभवन्न वै शंभोरपि कश्चित्परात्मनः ॥५७॥
निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा॥
आसीन्मारगणोऽगर्वोऽहर्षो मेपि पुरस्थितः ॥५८॥
कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः॥
स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ॥५९॥
कृतं पूर्वादधिकतः कर्म तन्मोहने विधे॥
नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः ॥६०॥
न दग्धा मे तनुश्चैव तत्र तेन दयालुना॥
कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः ॥६१॥
चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज॥
परोपायं कुरु तदा विगर्व इति मे मतिः ॥६२॥
ब्रह्मोवाच॥
इत्युक्त्वा सपरीवारो ययौ कामस्स्वमाश्रमम्॥
प्रणम्य मां स्मरन् शंभुं गर्वदं दीनवत्सलम् ॥६३॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखंडे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनो नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP