संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः १५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
अथैकदा पितुः पार्श्वे तिष्ठंतीं तां सतीमहम्॥
त्वया सह मुनेद्राक्षं सारभूतां त्रिलोकके ॥१॥
पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती॥
प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ॥२॥
प्रणामांते सतीं वीक्ष्य दक्षदत्तशुभासने॥
स्थितोहं नारद त्वं च विनतामहमागदम् ॥३॥
त्वामेव यः कामयते यन्तु कामयसे सति॥
तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥४॥
यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति॥
जायां स ते पतिर्भूयादनन्यसदृशश्शुभे ॥५॥
इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः॥
विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ॥६॥
दक्षोभवच्च सुप्रीतः तदाकर्ण्य गतज्वरः॥
आददे तनयां स्वां तां मत्वा हि परमेश्वरीम् ॥७॥
इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला॥
जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ॥८॥
बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ॥९॥
अतीव तपसांगेन सर्वांगेषु मनोहरा॥९॥
दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नांतर्वयस्थिताम्॥
चिंतयामास भर्गाय कथं दास्य इमां सुताम् ॥१०॥
अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम्॥
पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागमत् ॥११॥
पप्रच्छाज्ञां तपोहेतोश्शंकरस्य विनीतधीः॥
मातुश्शिवाथ वैरिण्यास्सा सखी परमेश्वरी ॥१२॥
ततस्सती महेशानं पतिं प्राप्तुं दृढव्रता॥
सा तमाराधयामास गृहे मातुरनुज्ञया ॥१३॥
आश्विने मासि नन्दायां तिथावानर्च भक्तितः॥
गुडौदनैस्सलवणैर्हरं नत्वा निनाय तम् ॥१४॥
कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि॥
समाकीर्णैस्समाराध्य सस्मार परमेश्वरम् ॥१५॥
मार्गशीर्षेऽसिताष्टम्यां सतिलैस्सयवौदनैः॥
पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ॥१६॥
पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि॥
अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ॥१७॥
माघे तु पौर्णमास्यां स कृत्वा जागरणं निशि॥
आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम् ॥१८॥
तपस्यसितभूतायां कृत्वा जागरणं निशि॥
विशेषतस्समानर्च शैलूषैस्सर्वयामसु ॥१९॥
चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैश्शिवम्॥
अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम् ॥२०॥
राधशुक्लतृतीयायां तिलाहारयवौदनैः॥
पूजयित्वा सती रुद्रं नव्यैर्मासं निनाय तम् ॥२१॥
ज्येष्ठस्य पूर्णिमायां वै रात्रै संपूज्य शंकरम्॥
वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ॥२२॥
आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा ॥
बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तया ॥२३॥
श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम्॥
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥२४॥
भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः॥
संपूज्य च चतुर्दश्यां चकार जलभो जनम् ॥२५॥
नानाविधैः फलैः पुष्पैस्सस्यैस्तत्कालसंभवैः॥
चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ॥२६॥
सर्वमासे सर्वदिने शिवार्चनरता सती॥
दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः ॥२७॥
इत्थं नंदाव्रतं कृत्स्नं समाप्य सुसमाहिता॥
दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः ॥२८॥
एतस्मिन्नंतरे देवा मुनयश्चाखिला मुने॥
विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ॥२९॥
दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा॥
शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ॥३०॥
चक्रुः सर्वे सुरास्सत्ये मुदा सांजलयो नतिम्॥
मुनयश्च नतस्कंधा विष्ण्वाद्याः प्रीतमानसाः ॥३१॥
अथ सर्वे सुप्रसन्ना विष्ण्वाद्याश्च सुरर्षयः॥
प्रशशंसुस्तपस्तस्यास्सत्यास्तस्मात्सविस्मयाः ॥३२॥
ततः प्रणम्य तां देवीं पुनस्ते मुनयस्सुराः॥
जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ॥३३॥
सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः॥
वासुदेवोपि भगवाञ्जगामाथ हरांतिकम् ॥३४॥
गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य सुसंभ्रमाः॥
तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ॥३५॥
देवा ऊचुः॥
नमो भगवते तुभ्यं यत एतच्चराचरम्॥
पुरुषाय महेशाय परेशाय महात्मने ॥३६॥
आदिबीजाय सर्वेषां चिद्रूपाय पराय च॥
ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥३७॥
य इदं प्रतिपंच्येदं येनेदं विचकास्ति हि॥
यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ॥३८॥
योस्मात्परस्माच्च परो निर्विकारी महाप्रभुः॥
ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयंभुवम् ॥३९॥
अविद्धदृक् परः साक्षी सर्वात्मा ऽनेकरूपधृक्॥
आत्मभूतः परब्रह्म तपंतं शरणं गताः ॥४०॥
न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम्॥
कः पुनर्जंतुरपरो ज्ञातुमर्हति वेदितुम् ॥४१॥
दिदृक्षवो यस्य पदं मुक्तसंगास्सुसाधवः॥
चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥४२॥
त्वज्जन्मादिविकारा नो विद्यंते केपि दुःखदा॥
तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥४३॥
तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे॥
नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥४४॥
अरूपायोरुरूपाय परायानंतशक्तये॥
त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥४५॥
नम आत्मप्रदीपाय निर्वाणसुखसंपदे॥
ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥४६॥
नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः॥
पुरुषाय परेशाय नमस्ते सर्वदाय च ॥४७॥
क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे ॥४८॥
सर्वाध्यक्षाय महते मूलप्रकृतये नमः॥
पुरुषाय परेशाय नमस्ते सर्वदाय च ॥४९॥
त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः॥
सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोस्तु ते ॥५०॥
त्रिलोककारणायाथापवर्गाय नमोनमः॥
अपवर्गप्रदायाशु शरणागततारिणे ॥५१॥
सर्वाम्नायागमानां चोदधये परमेष्ठिने॥
परायणाय भक्तानां गुणानां च नमोस्तु ते ॥५२॥
नमो गुणारणिच्छन्न चिदूष्माय महेश्वर॥
मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥५३॥
पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च॥
स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ॥५४॥
प्रत्यग्द्रष्ट्रैऽविकाराय परमैश्वर्य धारिणे॥
यं भजन्ति चतुर्वर्गे कामयंतीष्टसद्गतिम्॥
सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥५५॥
एकांतिनः कंचनार्थं भक्ता वांछंति यस्य न॥
केवलं चरितं ते ते गायंति परमंगलम् ॥५६॥
अक्षरं परमं ब्रह्मतमव्यक्ताकृतिं विभुम्॥
अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥५७॥
अतींद्रियमनाधारं सर्वाधारमहेतुकम्॥
अनंतमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥५८॥
हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः॥
नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥५९॥
यथार्चिषोग्नेस्सवितुर्यांति निर्यांति वासकृत्॥
गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥६०॥
न त्वं देवो ऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो॥
न स्त्री न षंढो न पुमान्सदसन्न च किंचन ॥६१॥
निषेधशेषस्सर्वं त्वं विश्वकृद्विश्व पालकः॥
विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ॥६२॥
योगरंधितकर्माणो यं प्रपश्यन्ति योगिनः॥
योगसंभाविते चित्ते योगेशं त्वां नता वयम् ॥६३॥
नमोस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय॥
नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥६४॥
कदिंद्रियाणां दुर्गेशानवाप्य परवर्त्मने॥
भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥६५॥
यच्छक्त्याहं धियात्मानं हंत वेद न मूढधी॥
तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ॥६६॥
ब्रह्मोवाच॥
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः॥
तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकंधराः ॥६७॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे नंदाव्रतविधानशिवस्तुति वर्णनं नाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP