संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः २९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ब्रह्मोवाच॥
दाक्षायणी गता तत्र तत्र यज्ञो महाप्रभः॥
सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः ॥१॥
स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम्॥
ददर्श सुप्रभं चारु सुरर्षिगण संयुतम् ॥२॥
द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात्॥
नन्दिनोऽभ्यंतरं शीघ्रमेकैवागच्छदध्वरम् ॥३॥
आगतां च सतीं दृष्ट्वाऽसिक्नी माता यशस्विनी॥
अकरोदादरं तस्या भगिन्यश्च यथोचितम् ॥४॥
नाकरोदादरं दक्षो दृष्ट्वा तामपि किंचन॥
नान्योपि तद्भयात्तत्र शिवमायाविमोहितः ॥५॥
अथ सा मातरं देवी पितरं च सती मुने॥
अनमद्विस्मितात्यंतं सर्वलोक पराभवात् ॥६॥
भागानपश्यद्देवानां हर्यादीनां तदध्वरे॥
न शंभुभागमकरोत् क्रोधं दुर्विषहं सती ॥७॥
सत्युवाच॥
तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम्॥
क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता ॥८॥
सत्युवाच॥
अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः॥
येन पूतमिदं विश्वं समग्रं सचराचरम् ॥९॥
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः॥
यज्ञकर्ता च यश्शंभुस्तं विना च कथं मखः ॥१०॥
यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो॥
विना तेन कृतं सर्वमपवित्रं भविष्यति ॥११॥
द्रव्यमंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम्॥
शंभुना हि विना तेन कथं यज्ञः प्रवर्तितः ॥१२॥
किं शिवं सुरसामान्यं मत्याकार्षीरनादरम्॥
भ्रष्टबुद्धिर्भवानद्य जातोसि जनकाधम ॥१३॥
विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम्॥
प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम् ॥१४॥
एते कथं समायाता विष्णुब्रह्मादयस्सुराः॥
तव यज्ञे विना शंभुं स्वप्रभुं मुनयस्तथा ॥१५॥
 ॥ब्रह्मोवाच॥
इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति॥
पृथक्पृथगवोचत्सा भर्त्सयंती भवात्मिका ॥१६॥
सत्युवाच॥
हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः॥
सगुणं निर्गुणं चापि श्रुतयो यं वदंति ह ॥१७॥
यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः॥
अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे ॥१८॥
तदपि ज्ञानमायातं न ते चेतसि दुर्मते॥
भागार्थी दक्षयज्ञेस्मिन् शिवं स्वस्वामिनं विना ॥१९॥
पुरा पंचमुखो भूत्वा गर्वितोऽसि सदाशिवम्॥
कृतश्चतुर्मुखस्तेन विस्मृतोसि तदद्भुतम् ॥२०॥
इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम्॥
भस्मी कृतः पविस्ते हि हरेण क्रूरकर्मणा ॥२१॥
हे सुराः किन्न जानीथ महादेवस्य विक्रमम्॥
अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह ॥२२॥
भिक्षाटनं च कृतवान् पुरा दारुवने विभुः॥
शप्तो यद्भिक्षुको रुद्रो भवद्भिर्मुनिभिस्तदा ॥२३॥
शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम्॥
तल्लिंगेनाखिलं दग्धं भुवनं सचराचरम् ॥२४॥
सर्वे मूढाश्च संजाता विष्णुब्रह्मादयस्सुराः॥
मुनयोऽन्ये विना शंभुमागता यदिहाध्वरे ॥२५॥
सर्वे वेदाश्च संभूताः सांगाश्शास्त्राणि वाग्यतः॥
योसौ वेदांतगश्शम्भुः कैश्चिज्ज्ञातुं न पार्यते ॥२६॥
 ॥ब्रह्मोवाच॥
इत्यनेकविधा वाणीरगदज्जगदम्बिका॥
कोपान्विता सती तत्र हृदयेन विदूयता ॥२७॥
विष्ण्वादयोखिला देवा मुनयो ये च तद्वचः॥
मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः ॥२८॥
अथ दक्षस्समाकर्ण्य स्वपुत्र्यास्तादृशं वचः॥
विलोक्य क्रूरदृष्ट्या तां सतीं कुद्धोऽब्रवीद्वचः ॥२९॥
दक्ष उवाच॥
तव किं बहुनोक्तेन कार्यं नास्तीह सांप्रतम्॥
गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता ॥३०॥
अमंगलस्तु ते भर्ता शिवोसौ गम्यते बुधैः॥
अकुलीको वेदबाह्यो भूतप्रेतपिशाचराट् ॥३१॥
तस्मान्नाह्वारितो रुद्रो यज्ञार्थं सुकुवेषभृत्॥
देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता ॥३२॥
विधिना प्रेरितेन त्वं दत्ता मंदेन पापिना॥
रुद्रायाविदितार्थाय चोद्धताय दुरात्मने ॥३३॥
तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते॥
यद्यागतासि यज्ञेस्मिन् दायं गृह्णीष्व चात्मना ॥३४॥
ब्रह्मोवाच॥
दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपू जिता॥
निंदायुक्तं स्वपितरं दृष्ट्वासीद्रुषिता भृशम् ॥३५॥
अर्चितयत्तदा सेति कथं यास्यामि शंकरम्॥
शंकरं द्रष्टुकामाहं पृष्टा वक्ष्ये किमुत्तरम् ॥३६॥
अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम्॥
निश्श्वसंती रुषाविष्टा सा सती त्रिजगत्प्रसूः ॥३७॥
सत्युवाच॥
यो निंदति महादेवं निंद्यमानं शृणोति वा॥
तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥३८॥
तस्मात्त्यक्ष्याम्यहं देवं प्रवेक्ष्यामि हुताशनम्॥
किं जीवितेन मे तात शृण्वंत्यानादरं प्रभोः ॥३९॥
यदि शक्तस्स्वयं शंभोर्निंदकस्य विशेषतः॥
छिंद्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः ॥४०॥
यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै॥
कर्णौ धीमान् ततश्शुद्ध्येद्वदंतीदं बुधान्वरान् ॥४१॥
ब्रह्मोवाच॥
इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा॥
अस्मरच्छांकरं वाक्यं दूयमानेन चेतसा ॥४२॥
ततस्संकुद्ध्य सा दक्षं निश्शंकं प्राह तानपि॥
सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम् ॥४३॥
सत्युवाच॥
तात त्वं निंदकश्शंभोः पश्चात्तापं गमिष्यसि॥
इह भुक्त्वा महादुःखमंते यास्यसि यातनाम् ॥४४॥
यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः॥
तस्मिन्नवैरे शर्वेस्मिन् त्वां विना कः प्रतीपकः ॥४५॥
महद्विनिंदा नाश्चर्यं सर्वदाऽसत्सु सेर्ष्यकम्॥
महदंघ्रिरजो ध्वस्ततमस्सु सैव शोभना ॥४६॥
शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम्॥
सकृत्प्रसंगात्सकलमघमाशु विहंति तत् ॥४७॥
पवित्रकीर्तितमलं भवान् द्वेष्टि शिवेतरः॥
अलंघ्यशासनं शंभुमहो सर्वेश्वरं खलः ॥४८॥
यत्पादपद्मं महतां मनोऽलिसुनिषेवितम्॥
सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात् ॥४९॥
यद्वर्षत्यर्थिनश्शीघ्रं लोकस्य शिवआदरात्॥
भवान् द्रुह्यति मूर्खत्वात्तस्मै चाशेषबंधवे ॥५०॥
किंवा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः॥
ब्रह्मादयस्तं मुनयस्सनकाद्यास्तथापरे ॥५१॥
अवकीर्य जटाभूतैश्श्मशाने स कपालधृक्॥
तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः ॥५२॥
ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमाराद्॥
निर्माल्यं मुनयो देवास्स शिवः परमेश्वरः ॥५३॥
प्रवृत्तं च निवृत्तं च द्विविधं कर्मचोदि तम्॥
वेदे विविच्य वृत्तं च तद्विचार्यं मनीषिभिः ॥५४॥
विरोधियौगपद्यैककर्तृके च तथा द्वयम्॥
परब्रह्मणि शंभो तु कर्मर्च्छंति न किंचन ॥५५॥
मा वः पदव्यस्स्म पितर्या अस्मदास्थितास्सदा॥
यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम् ॥५६॥
नोऽव्यक्तलिंगस्सततमवधूतसुसेवितः॥
अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक् ॥५७॥
किंबहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः ॥
त्वदुद्भवेन देहेन न मे किंचित्प्रयोजनम् ॥५८॥
तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः॥
परित्याज्यो विशेषेण तत्संबंधो विपश्चिता ॥५९॥
गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः॥
दाक्षायणीति सहसाहं भवामि सुदुर्मनाः ॥६०॥
तस्मात्त्वदंगजं देहं कुणपं गर्हितं सदा॥
व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा ॥६१॥
हे सुरा मुनयस्सर्वे यूयं शृणुत मद्वचः॥
सर्वथानुचितं कर्म युष्माकं दुष्टचेतसाम् ॥६२॥
सर्वे यूयं विमूढा हि शिवनिंदाः कलिप्रियाः॥
प्राप्स्यंति दण्डं नियतमखिलं च हराद्ध्रुवम् ॥६३॥
 ॥ब्रह्मोवाच॥
दक्षमुक्त्वाध्वरे तांश्च व्यरमत्सा सती तदा॥
अनूद्य चेतसा शम्भुमस्मरत्प्राणवल्लभम् ॥६४॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP