संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः ११

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच॥
ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर॥
गते विष्णौ किमभवदकार्षीत्किं विधे भवान् ॥१॥
ब्रह्मोवाच॥
विप्रनन्दनवर्य त्वं सावधानतया शृणु॥
विष्णौ गते भगवति यदकार्षमहं खलु ॥२॥
विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम्॥
स्तौमि देव जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ॥३॥
सर्वत्र व्यापिनीं नित्यां निरालंबां निराकुलाम्॥
त्रिदेवजननीं वंदे स्थूलस्थूलामरूपिणीम्॥ ॥४॥
त्वं चितिः परमानंदा परमात्मस्वरूपिणी॥
प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ॥५॥
ब्रह्मोवाच॥
एवं संस्तूयमाना सा योगनिद्रा मया मुने॥
आविर्बभूव प्रत्यक्षं देवर्षे चंडिका मम ॥६॥
स्निग्धांजनद्युतिश्चारुरूपा दिव्यचतुर्भुजा॥
सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ॥७॥
शरदिंद्वानना शुभ्रचन्द्रभाला त्रिलोचना॥
सर्वावयवरम्या च कमलांघ्रिनखद्युतिः ॥८॥
समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि॥
भक्त्या विनततुंगांशः प्रास्तवं सुप्रणम्य वै ॥९॥
ब्रह्मोवाच॥
नमो नमस्ते जगतःप्रवृत्तिनिवृतिरूपे स्थितिसर्गरूपे॥
चराचराणां भवती सुशक्तिस्सनातनी सर्वविमोहनीति ॥१०॥
या श्रीः सदा केशवमूर्तिमाला विश्वंभरा या सकलं बिभर्ति॥
या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्य ॥११॥
या योगिनां वै महिता मनोज्ञा सा त्वं न ते परमाणुसारे॥
यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता ॥१२॥
प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलंबा॥
कूटस्थमव्यक्तमनंतरूपं त्वं बिभ्रती कालमयी जगंति ॥१३॥
विकारबीजं प्रकरोपि नित्यं गुणान्विता सर्वजनेषु नूनम्॥
त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि ॥१४॥
सत्वं रजस्तामस इत्यमीषां विकारहीना समु वस्तितीर्या॥
सा त्वं गुणानां जगदेकहेतुं ब्रह्मांतरारंभसि चात्सि पासि ॥१५॥
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि॥
जगद्धिताय सततं शिवपत्नि नमोस्तु ते ॥१६॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचः सा मे काली लोक विभाविनी॥
प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ॥१७॥
देव्युवाच॥
ब्रह्मन्किमर्थं भवता स्तुताहमवधारय॥
उच्यतां यदि धृष्योसि तच्छीघ्रं पुरतो मम ॥१८॥
प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता॥
तस्मात्त्वं वांछितं ब्रूहि या करिष्यामि भाविता ॥१९॥
ब्रह्मोवाच॥
शृणु देवि महेशानि कृपां कृत्वा ममोपरि॥
मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ॥२०॥
यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा॥
शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ॥२१॥
तपश्चरति भूतेश एक एवाविकल्पकः॥
अपत्नीको निर्विकारो न द्वितीयां समीहते ॥२२॥
तं मोहय यथा चान्यां द्वितीयां सति वीक्षते॥
त्वदृते तस्य नो काचिद्भविष्यति मनोहरा ॥२३॥
तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी॥
सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव ॥२४॥
यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम्॥
आमोदयसि विश्वस्य हितायैतं तथा कुरु ॥२५॥
कांताभिलाषमात्रं मे दृष्ट्वाऽनिंदद्वृषध्वजः॥
स कथं वनितां देवी स्वेच्छया संग्रहीष्यति ॥२६॥
हरे गृहीतकांते तु कथं सृष्टिश्शुभावहा॥
आद्यंतमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ॥२७॥
इति चिंतापरो नाहं त्वदन्यं शरणं हितम्॥
कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे ॥२८॥
न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः॥
न चाप्यहं जगन्मातर्नान्यस्त्वां कोपि वै विना ॥२९॥
तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी॥
तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम् ॥३०॥
दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः॥
त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ॥३१॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचस्सा चिंतामाप शिवा तदा॥
उवाच च स्वमनसि विस्मिता जगदम्बिका ॥३२॥
देव्युवाच॥
अहो सुमहदाश्चर्यं वेदवक्तापि विश्वकृत्॥
महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ॥३३॥
विधेश्चेतसि संजातो महामोहोऽसुखावहः॥
यद्वरं निर्विकारं तं संमोहयितुमिच्छति ॥३४॥
हरमोहवरं मत्तस्समिच्छति विधिस्त्वयम्॥
को लाभोस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ॥३५॥
परब्रह्माख्यो यश्शंभुर्निर्गुणो निर्विकारवान्॥
तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ॥३६॥
स एव पूर्णरूपेण रुद्रनामाभवच्छिवः॥
भक्तोद्धारणहेतोर्हि स्वतंत्रः परमेश्वरः ॥३७॥
हरेर्विधेश्च स स्वामी शिवान्न्यूनो न कर्हिचित्॥
योगादरो ह्यमायस्थो मायेशः परतः परः ॥३८॥
मत्वा तमात्मजं ब्रह्मा सामान्यसुरसंनिभम्॥
इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ॥३९॥
न दद्यां चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति॥
किं कुर्यां येन न विभुः क्रुद्धस्स्यान्मे महेश्वरः ॥४०॥
ब्रह्मो वाच॥
विचार्य्येत्थं महेशं तं सस्मार मनसा शिवा॥
प्रापानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ॥४१॥
 ॥दुर्गोवाच॥
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत्॥
मदृते मोहयित्रीह शंकरस्य न विद्यते ॥४२॥
हरेऽगृहीतदारे तु सृष्टिनैषा सनातनी॥
भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ॥४३॥
ममापि मोहने यन्नो विद्यतेस्य महाप्रभोः॥
त्वद्वाक्याद्विगुणो मेद्य प्रयत्नोऽभूत्स निर्भरः ॥४४॥
अहं तथा यतिष्यामि यथा दारपरिग्रहम्॥
हरः करिष्यति विधे स्वयमेव विमोहितः ॥४५॥
सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी॥
भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया ॥४६॥
यथा सोपि मयैवेय वशवर्ती सदा भवेत्॥
तथा यत्नं करिष्यामि तस्यैव कृपया विधे ॥४७॥
उत्पन्ना दक्षजायायां सतीरूपेण शंकरम्॥
अहं सभाजयिष्यामि लीलया तं पितामह ॥४८॥
यथान्यजंतुरवनौ वर्तते वनितावशे॥
मद्भक्त्या स हरो वामावशवर्ती भविष्यति ॥४९॥
ब्रह्मोवाच॥
मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका॥
वीक्ष्यमाणा मया तात तत्रैवांतर्दधे ततः ॥५०॥
तस्यामंतर्हितायां तु सोहं लोकपितामहः॥
अगमं यत्र स्वसुतास्तेभ्यस्सर्वमवर्णयम् ॥५१॥
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनो नामेकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP