संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|सतीखण्डः|

सतीखण्डः - अध्यायः २०

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच॥
ब्रह्मन् विधे महाभाग शिवभक्तवर प्रभो॥
श्रावितं चरितं शंभोरद्भुतं मंगलायनम् ॥१॥
ततः किमभवत्तात कथ्यतां शशिमौलिनः
सत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् ॥२॥
॥ब्रह्मोवाच॥
निवृत्ते शंकरे चास्मद्वधाद्भक्तानुकंपिनि॥
अभवन्निर्भयास्सर्वे सुखिनस्तु प्रसन्नकाः ॥३॥
नतस्कंधास्सांजलयः प्रणेमुर्निखिलाश्च ते॥
तुष्टुवुश्शंकरं भक्त्या चक्रुर्जयरवं मुदा ॥४॥
तस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने॥
अस्तवं शंकरं भक्त्या विविधैश्च शुभस्तवैः ॥५॥
ततस्तुष्टमनाश्शंभुर्बहुलीलाकरः प्रभुः॥
मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा ॥६॥
॥रुद्र उवाच॥
ब्रह्मन् तात प्रसन्नोहं निर्भयस्त्वं भवाधुना॥
स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ॥७॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचश्शम्भोर्बहुलीलाकृतः प्रभोः॥
स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम् ॥८॥
यावदेवमहं स्वं कं स्पृशामि निजपाणिना॥
तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम् ॥९॥
ततो लज्जापरीतांगस्स्थितश्चाहमधोमुखः॥
इन्द्राद्यैरमरैस्सर्वैस्सुदृष्टस्सर्वतस्स्थितैः ॥१०॥
अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम्॥
प्रवोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥११॥
अस्य पापस्य शुध्यर्थं प्रायश्चित्तं वद प्रभो॥
निग्रहं च तथान्यायं येन पापं प्रयातु मे ॥१२॥
इत्युक्तस्तु मया शंभुरुवाच प्रणतं हि तम्॥
सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ॥१३॥
शंभुरुवाच॥
अनेनैव स्वरूपेण मदधिष्ठितकेन हि॥
तपः कुरु प्रसन्नात्मा मदाराधनतत्परः ॥१४॥
ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ॥
साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ॥१५॥
मनुष्याणामिदं कृत्यं यस्माद्वीर्य्यं त्वयाऽधुना॥
तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ॥१६॥
यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति॥
किमेतद्ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ॥१७॥
ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः॥
परदारकृतात्त्यागान्मुक्तिं सद्यस्स यास्यति ॥१८॥
यथा यथा जनश्चैतत्कृत्यन्ते कीर्तयिष्यति॥
तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥१९॥
एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम्॥
जनहास्यकरं लोके तव गर्हाकरं परम् ॥२०॥
एतच्च तव वीर्य्यं हि पतितं वेदिमध्यगम्॥
कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ॥२१॥
चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव॥
तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयंकराः ॥२२॥
एतस्मिन्नंतरे तत्र देवर्षीणां पुरो द्रुतम्॥
तद्रेतसस्समभवंस्तन्मिताश्च बलाहका ॥२३॥
संवर्तकस्तथावर्त्तः पुष्करो द्रोण एव च॥
एते चतुर्विधास्तात महामेघा लयंकराः ॥२४॥
गर्जंतश्चाथ मुचंतस्तोयानीषच्छिवेच्छया॥
फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ॥२५॥
तैस्तु संछादिते व्योम्नि सुगर्जद्भिश्च शंकरः॥
प्रशान्दाक्षायणी देवी भृशं शांतोऽभवद्द्रुतम् ॥२६॥
अथ चाहं वीतभयश्शंकरस्या ज्ञया तदा॥
शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ॥२७॥
पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः॥
सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ॥२८॥
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च॥
पठत्सु विप्रवर्येषु वादान् भक्त्यान्वितेषु च ॥२९॥
रंभादिषु पुरंध्रीषु नृत्यमानासु सादरम्॥
महोत्सवो महानासीद्देवपत्नीषु नारद ॥३०॥
अथ कर्मवितानेशः प्रसन्नः परमेश्वरः॥
प्राह मां प्रांजलिं प्रीत्या लौकिकीं गतिमाश्रितः ॥३१॥
ईश्वर उवाच॥
हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत्॥
प्रसन्नोस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ॥३२॥
याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा॥
ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥३३॥
 ॥ब्रह्मोवाच॥
इत्याकर्ण्य वचस्सोहं शंकरस्य कृतांजलिः॥
मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ॥३४॥
 ॥ब्रह्मोवाच॥
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि॥
तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ॥३५॥
अनेनैव तु रूपेण वेद्यामस्यां महेश्वर॥
त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥३६॥
येनास्य संनिधौ कृत्वा स्वाश्रमं शशि शेखर॥
तपः कुर्या विनाशाय स्वपापस्यास्य शंकर ॥३७॥
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते॥
सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ॥३८॥
तदैव तस्य पापानि प्रयांतु हर संक्षयम्॥
वर्द्धते विपुलं पुण्यं रोगा नश्यंतु सर्वशः ॥३९॥
या नारी दुर्भगा वंध्या काणा रूपविवर्जिता॥
सापि त्वद्दर्शनादेव निर्दोषा संभवेद्ध्रुवम् ॥४०॥
ब्रह्मोवाच॥
इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम्॥
तथाऽस्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ॥४१॥
शिव उवाच॥
हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः॥
स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ॥४२॥
 ॥ब्रह्मोवाच॥
इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः॥
उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ॥४३॥
ततो दक्षं समामंत्र्य शंकरः परमेश्वरः॥
पत्न्या सत्या गंतुमना अभूत्स्वजनवत्सलः ॥४४॥
एतस्मिन्नंतरे दक्षो विनयावनतस्सुधीः॥
सांजलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ॥४५॥
विष्ण्वादयस्सुरास्सर्वे मुनयश्च गणास्तदा॥
नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ॥४६॥
आरोप्य वृषभे शंभुस्सतीं दक्षाज्ञया मुदा॥
जगाम हिमवत्प्रस्थं वृषभस्थस्स्वयं प्रभुः ॥४७॥
अथ सा शंकराभ्यासे सुदती चारुहासिनी॥
विरेजे वृषभस्था वै चन्द्रांते कालिका यथा ॥४८॥
विष्ण्वादयस्सुरास्सर्वे मरीच्याद्यास्तथर्षयः॥
दक्षोपि मोहितश्चासीत्तथान्ये निश्चला जनाः ॥४९॥
केचिद्वाद्यान्वादयन्तो गायंतस्सुस्वरं परे॥
शिवं शिवयशश्शुद्धमनुजग्मुः शिवं मुदा ॥५०॥
मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना॥
वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ॥५१॥
विसृष्टा अपि विष्ण्वाद्याश्शम्भुना पुनरेव ते॥
अनुजग्मुश्शिवं भक्त्या सुराः परमया मुदा ॥५२॥
तैस्सर्वैस्सगणैश्शंभुस्सत्यः च स्वस्त्रिया युतः॥
प्राप स्वं धाम संहृष्टो हिमवद्गिरि शोभितम् ॥५३॥
तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा॥
मुदा विसर्जयामास बहु सम्मान्य सादरम् ॥५४॥
शंभुमाभाष्य ते सर्वे विष्ण्वाद्या मुदितानना॥
स्वंस्वं धाम ययुर्नत्वा स्तुत्वा च मुनयस्सुराः ॥५५॥
शिवोपि मुदितोत्यर्थं स्वपत्न्या दक्षकन्यया॥
हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ॥५६॥
ततस्स शंकरस्सत्या सगणस्सूतिकृन्मुने॥
प्राप स्वं धाम संहृष्टः कैलाशं पर्वतोत्तमम् ॥५७॥
एतद्वस्सर्वमाख्यातं यथा तस्य पुराऽभवत्॥
विवाहो वृषयानस्य मनुस्वायंभुवान्तक ॥५८॥
विवाहसमये यज्ञे प्रारंभे वा शृणोति यः॥
एतदाख्यानमव्यग्रस्संपूज्य वृषभध्वजम् ॥५९॥
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत्॥
शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ॥६०॥
कन्या च सुखसौभण्यशीलाचारगुणान्विता॥
साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ॥६१॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सती विवाहवर्णनं नाम विंशोऽध्यायः ॥२०॥

N/A

References : N/A
Last Updated : October 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP