पातालखण्डः - अध्यायः ८
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
वात्स्यायनमुनिश्रेष्ठ कथा पापप्रणाशिनी
ब्रह्मण्यदेवदेवस्य सर्वधर्मैकरक्षितुः ॥१॥
राजानं मूर्च्छितं दृष्ट्वा कुंभजन्मा तपोनिधिः
शनैःशनैः करेणाशु पस्पर्शाश्रु जगाद च ॥२॥
भो रामाश्वसिहि क्षिप्रं किमर्थमवसीदसि
भवान्दैत्यकुलच्छेत्ता महाविष्णुः सनातनः ॥३॥
भूतं भव्यं भवच्चैव जगत्स्थास्नु चरिष्णु च
त्वदृते नास्ति संचारी किमर्थमिह मूर्च्छितः ॥४॥
श्रुत्वा वाक्यं महाराजः कुंभजन्मसमीरितम्
उत्तस्थौ विगलन्नेत्र बाष्पपूरितसन्मुखः ॥५॥
उवाच दीनदीनं च विस्पष्टाक्षरविस्तरम्
त्रपाभर नमन्मूर्तिर्ब्रह्मद्रोहपराङ्मुखः ॥६॥
श्रीराम उवाच
अहो मे पश्यता ज्ञानं विमूढस्य दुरात्मनः
यद्ब्राह्मणकुले रूढं हतवान्कामलोलुपः ॥७॥
महिलार्थे त्वहं विप्रं वेदशास्त्रविवेकवान्
हतवान्वाडवकुलं बुद्धिहीनोति दुर्मतिः ॥८॥
इक्ष्वाकूणां कुले जातु ब्राह्मणो न दुरुक्तिभाक्
ईदृशं कुर्वता कर्म मयैतत्सुकलंकितम् ॥९॥
ये ब्राह्मणास्तु पूजार्हा दानसम्मानभोजनैः
ते मया निहता विप्राः शरसंघातसंहितैः ॥१०॥
काँल्लोकान्नु गमिष्यामि कुंभीपाकोऽपि दुःसहः
न तादृशं तीर्थमस्ति यन्मां पावयितुं क्षमम् ॥११॥
न यज्ञो न तपो दानं न वा चैव व्रतादिकम्
यत्तु वै ब्राह्मणद्रोग्धुर्ममपावनतारकम् ॥१२॥
यैः कोपितं ब्रह्मकुलं नरैर्निरयगामिभिः
ते नरा बहुशो दुःखं भोक्ष्यंति निरयं गताः ॥१३॥
वेदा मूलं तु धर्माणां वर्णाश्रमविवेकिनाम्
तन्मूलं ब्राह्मणकुलं सर्ववेदैकशाखिनः ॥१४॥
मूलच्छेत्तुर्ममौद्धत्यात्को लोकोनु भविष्यति
किमद्यकरणीयं वै येन मे हि शिवं भवेत् ॥१५॥
शेष उवाच
विलपंतं भृशं रामं राजेंद्रं रघुपुंगवम्
मायामनुष्यवपुषं कुंभजन्माब्रवीद्वचः ॥१६॥
अगस्त्य उवाच
मा विषादं महाधीर कुरु राजन्महामते
न ते ब्राह्मणहत्या स्याद्दुष्टानां नाशमिच्छतः ॥१७॥
त्वं पुराणः पुमान्साक्षादीश्वरः प्रकृतेः परः
कर्ता हर्ताऽविता साक्षी निर्गुणः स्वेच्छया गुणी ॥१८॥
सुरापो ब्रह्महत्याकृत्स्वर्णस्तेयी महाघकृत्
सर्वे त्वन्नामवादेन पूताः शीघ्रं भवंति हि ॥१९॥
इयं देवी जनकजा महाविद्या महामते
यस्याः स्मरणमात्रेण मुक्ता यास्यंति सद्गतिम् ॥२०॥
रावणोऽपि न वै दैत्यो वैकुंठे तव सेवकः
ऋषीणां शापतोऽवाप्तो दैत्यत्वं दनुजांतक ॥२१॥
तस्यानुग्रहकर्ता त्वं न तु हंता द्विजन्मनः
एवं संचिंत्य मा भूयो निजं शोचितुमर्हसि ॥२२॥
इति श्रुत्वा ततो वाक्यं रामः परपुरंजयः
उवाच मधुरं वाक्यं गद्गदस्वरभाषितम् ॥२३॥
श्रीराम उवाच
पातकं द्विविधं प्रोक्तं ज्ञाताज्ञातविभेदतः
ज्ञातं यद्बुद्धिपूर्वं हि अज्ञातं तद्विवर्जितम् ॥२४॥
बुद्धिपूर्वं कृतं कर्म भोगेनैव विनश्यति
नश्येदनुशयादन्यदिदं शास्त्रविनिश्चितम् ॥२५॥
कुर्वतो बुद्धिपूर्वं मे ब्रह्महत्यां सुनिंदिताम्
न मे दुःखापनोदाय साधुवादः सुसंमतः ॥२६॥
प्रब्रूहि तादृशं मह्यं यादृशं पापदाहकम्
व्रतं दानं मखं किंचित्तीर्थमाराधनं महत् ॥२७॥
येन मे विमला कीर्तिर्लोकान्वै पावयिष्यति
पापाचाराप्तकालुष्यान्ब्रह्महत्याहतप्रभान् ॥२८॥
शेष उवाच
इत्युक्तवंतं तं रामं जगाद स तपोनिधिः
सुरासुरनमन्मौलि मणिनीराजितांघ्रिकम् ॥२९॥
शृणु राम महावीर लोकानुग्रहकारक
विप्रहत्यापनोदाय तव यद्वचनं ब्रुवे ॥३०॥
सर्वं स पापं तरति योऽश्वमेधं यजेत वै
तस्मात्त्वं यज विश्वात्मन्वाजिमेधेन शोभिना ॥३१॥
सप्ततंतुर्महीभर्त्रा त्वया साध्यो मनीषिणा
महासमृद्धियुक्तेन महाबलसुशालिना ॥३२॥
स वाजिमेधो विप्राणां हत्यायाः पापनोदनः
कृतवान्यं महाराजो दिलीपस्तव पूर्वजः ॥३३॥
शतक्रतुः शतं कृत्वा क्रतूनां पुरुषर्षभः
पदमापामरावत्यां देवदैत्यसुसेवितम् ॥३४॥
मनुश्च सगरो राजा मरुत्तो नहुषात्मजः
एते ते पूर्वजाः सर्वे यज्ञं कृत्वा पदं गताः ॥३५॥
तस्मात्त्वं कुरु राजेंद्र समर्थोऽसि समंततः
भ्रातरो लोकपालाभा वर्तंते तव भावुकाः ॥३६॥
इत्युक्तमाकर्ण्य मुनेः स भाग्यवान् रघूत्तमो ब्राह्मणघातभीतः
पप्रच्छ यागे सुमतिं चिकीर्षन्विधिं पुरावित्परिगीयमानः ॥३७॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघनाथस्यागस्त्योपदेशोनामाष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : November 03, 2020
TOP