पातालखण्डः - अध्यायः ५२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
चंपकं पतितं दृष्ट्वा सुरथः क्षत्रियो बली
पुत्रदुःखपरीतांगो जगाम स्यंदने स्थितः ॥१॥
कपींद्रमाजुहावाथ सुरथः कोपसंयुतः
निःश्वासवेगं संमुंचन्महाबलसमन्वितः ॥२॥
आह्वयानं नृपं दृष्ट्वा निजं वीरः कपीश्वरः
जगाम तं महावीरो महावेगसमन्वितः ॥३॥
तमागतं हनूमंतं तृणीकुर्वं तमुद्भटान्
उवाच सुरथो राजा मेघगंभीरसुस्वरः ॥४॥
सुरथ उवाच
धन्योसि कपिवर्य त्वं महाबलपराक्रमः
येन राममहत्कृत्यं कृतं राक्षसके पुरे ॥५॥
त्वं रामचरणस्यासि सेवको भक्तिसंयुतः
त्वया वीरेण मत्पुत्रः पातितश्चंपको बली ॥६॥
इदानीं त्वां तु संबध्य गंतास्मि नगरेमम
यत्नात्तिष्ठ कपीशेशसत्यमुक्तं मया स्मृतम् ॥७॥
इति भाषितमाकर्ण्य सुरथस्य कपीश्वरः
उवाच धीरया वाण्या रणे वीरैकभूषिते ॥८॥
हनूमानुवाच
त्वं रामचरणस्मारी वयं रामस्य सेवकाः
बध्नासि चेन्मां प्रसभं मोचयिष्यति मत्प्रभुः ॥९॥
कुरु वीर भवत्स्वांतस्थितं सत्यं प्रतिश्रुतम्
रामं स्मरन्वै दुःखांतं याति वेदा वदंत्यदः ॥१०॥
शेष उवाच
इति ब्रुवंतं सुरथः प्रशस्य पवनात्मजम्
विव्याध बाणैर्बहुभिः शितैः शाणेन दारुणैः ॥११॥
तान्मुक्तानगणय्याथ बाणाञ्छोणितपातिनः
करे जग्राह कोदंडं सज्यं शरसमन्वितम् ॥१२॥
गृहीत्वा करयोश्चापं बभंज कुपितः कपिः
चीत्कुर्वंस्त्रासयन्वीरान्नखैर्दीर्णान्सृजन्भटान् ॥१३॥
तेन भग्नं धनुर्दृष्ट्वा स्वकीयं गुणसंयुतम्
अपरं धनुरादत्त महद्गुणविशोभितम् ॥१४॥
तच्चापि जगृहे रोषात्कपिश्चापं बभंज तत्
अन्यच्चापं समादत्त तद्बभंज महाबलः ॥१५॥
तस्मिंश्चापे प्रभग्नेऽपि सोऽन्यद्धनुरुपाददत्
सोपि चापं बभंजाशु महावेगसमन्वितः ॥१६॥
एवं राज्ञस्तु चापानामशीतिर्विदलीकृता
क्षणे क्षणे महारोषात्कुर्वन्नादाननेकधा ॥१७॥
तदात्यंतं प्रकुपितः शक्तिमुग्रामथाददे
शक्त्या स ताडितो वीरः पपात क्षणमुत्सुकः ॥१८॥
उत्थाय स्यंदनं राज्ञो जग्राह कुपितो भृशम्
उड्डीनस्तं गृहीत्वा तु समुद्रमतिवेगतः ॥१९॥
तमुड्डीनं समालक्ष्य सुरथः परवीरहा
ताडयामास परिघैर्हृदि मारुतिमुद्यतम् ॥२०॥
मुक्तस्तेन रथो दूराच्चूर्णीभूतोऽभवत्क्षणात्
सोऽन्यरथं समारुह्य ययौ वेगात्समीरजम् ॥२१॥
हनूमांस्तद्रथं पुच्छे संवेष्ट्य प्रधनांगणे
हयसारथिसंयुक्तं बभंज सपताकिनम् ॥२२॥
अन्यं रथं समास्थाय ययौ राजा महाबलः
बभंज तं रथं वेगान्मारुतिः कुपितांगकः ॥२३॥
भग्नं तं स्यंदनं वीक्ष्य सुरथोऽन्यसमाश्रितः
भग्नः स तेन सहसा हयसारथिसंयुतः ॥२४॥
एवमेकोनपंचाशद्रथा भग्ना हनूमता
तत्कर्म वीक्ष्य राजापि विसिस्माय ससैनिकः ॥२५॥
कुपितः प्राह कीशेंद्रं धन्योसि पवनात्मज
पराक्रमन्निदं कर्म न कर्ता न करिष्यति ॥२६॥
क्षणमेकं प्रतीक्षस्व यावत्सज्यं धनुस्त्वहम्
करोमि पवनोद्भूत रामपादाब्जषट्पद ॥२७॥
इत्युक्त्वा चापमात्तज्यं कृत्वा रोषपरिप्लुतः
अस्त्रं पाशुपतं नाम संदधे शर उल्बणे ॥२८॥
ततो भूताश्च वेतालाः पिशाचा योगिनीमुखाः
प्रादुर्बभूवुः सहसा भीषयंतः समीरजम् ॥२९॥
कपिः पाशुपतैरस्त्रैर्बद्धो लोकैरभीक्षितः
हाहेति च वदंत्येते यावत्तावत्समीरजः ॥३०॥
स्मृत्वा रामं स्वमनसा त्रोटयामास तत्क्षणात्
स मुक्तगात्रः सहसा युयुधे सुरथं नृपम् ॥३१॥
तं मुक्तगात्रं संवीक्ष्य सुरथः परमास्त्रवित्
महाबलं मन्यमानो ब्राह्ममस्त्रं समाददे ॥३२॥
मारुतिर्ब्राह्ममस्त्रं तु निजगाल हसन्बली
तन्निगीर्णं नृपो दृष्ट्वा रामं सस्मार भूमिपः ॥३३॥
स्मृत्वा दाशरथिं रामं रामास्त्रं स्वशरासने
संधाय तं जगादेदं बद्धोसि कपिपुंगव ॥३४॥
श्रुत्वा तत्प्रक्रमेद्यावत्तावद्बद्धो रणांगणे
राज्ञा रामास्त्रतो वीरो हनूमान्रामसेवकः ॥३५॥
उवाच भूपं हनुमान्किंकरोमि महीभुज
मत्स्वाम्यस्त्रेण संबद्धो नान्येन प्राकृतेन वै ॥३६॥
तन्मानयामिभूपालनयस्वस्वपुरंप्रति
मोचयिष्यति मत्स्वामी आगत्य स दयानिधिः ॥३७॥
बद्धे समीरजे क्रुद्धः पुष्कलो भूमिपं ययौ
तं पुष्कलं समायांतं विव्याध वसुभिः शरैः ॥३८॥
अनेकबाणसाहस्रैर्निजघान नृपं बली
राज्ञानेके शरास्तस्य च्छिन्नाः प्रधनमंडले ॥३९॥
एवं समरसंक्रुद्धे सुरथे पुष्कले तथा
बाणैर्व्याप्तं जगत्सर्वं स्थास्नुभूयश्चरिष्णु च ॥४०॥
तेषां रणोद्यमं वीक्ष्य मुमुहुः सुरसैनिकाः
मानवानां तु का वार्ता क्षणात्त्रासं समीयुषाम् ॥४१॥
अस्त्रप्रत्यस्त्रविगमैर्महामंत्रपरिस्तुतैः
बभूव तुमुलं युद्धं वीराणां रोमहर्षणम् ॥४२॥
तदा प्रकुपितो राजा नाराचं तु समाददे
छिन्नः स तु क्रुधा मुक्तैर्वत्सदंतैः सभारतैः ॥४३॥
छिन्ने तस्मिञ्छरे राजा कोपादन्यं समाददे
छिनत्ति यावत्स शरं तावल्लग्नो हृदि क्षतः ॥४४॥
मूर्च्छां प्राप महातेजाः पुष्कलो महदद्भुतम्
युद्धं विधाय सुमहद्राज्ञा सह महामतिः ॥४५॥
पुष्कले पतिते राजा शत्रुघ्नः शत्रुतापनः
सुरथं प्रति संक्रुद्धो जगाम स्यंदनस्थितः ॥४६॥
उवाच सुरथं भूपं रामभ्राता महाबलः
त्वया महत्कृतं कर्म यद्बद्धः पवनात्मजः ॥४७॥
पुष्कलोऽपि महावीरस्तथान्ये मम सैनिकाः
पातिताः प्रधने घोरे महाबलपराक्रमाः ॥४८॥
इदानीं तिष्ठ मद्वीरान्पातयित्वा रणांगणे
कुत्र यास्यसि भूमीश सहस्व मम सायकान् ॥४९॥
इत्थमाश्रुत्य वीरस्य भाषितं सुरथो बली
जगाद रामपादाब्जं दधच्चेतसि शोभनम् ॥५०॥
मया ते पातिताः संख्ये वीरा मारुतजोन्मुखाः
इदानीं पातयिष्यामि त्वामपि प्रधनांगणे ॥५१॥
स्मरस्व रामं यो वीरः स्वमागत्य प्ररक्षति
अन्यथा जीवितं नास्ति मत्पुरः शत्रुतापन ॥५२॥
इत्युक्त्वा बाणसाहस्रैस्तं जघान महीपतिः
शत्रुघ्नं शरसंघातपंजरे न्यदधात्परम् ॥५३॥
शत्रुघ्नः शरसंघातं मुंचंतं वह्निदैवतम्
अस्त्रं मुमोच दाहार्थं शराणां नतपर्वणाम् ॥५४॥
तदस्त्रं मुक्तमालोक्य राजा वै सुरथो महान्
वारुणास्त्रेण शमयन्विव्याध शरकोटिभिः ॥५५॥
तदा तद्योगिनीदत्तमस्त्रं धनुषि संदधे
मोहनं सर्ववीराणां निद्राप्रापकमद्भुतम् ॥५६॥
तन्मोहनं महास्त्रं स वीक्ष्य राजा हरिंस्मरन्
जगाद शत्रुघ्नमयं सर्वशस्त्रास्त्रकोविदः ॥५७॥
मोहितस्य मम श्रीमद्रामस्य स्मरणेन ह
नान्यन्मोहनमाभाति ममापि भयतापदम् ॥५८॥
इत्युक्तवति वीरे तु मुमोच स महास्त्रकम्
तेन बाणेन संछिन्नं पपात रणमंडले ॥५९॥
तन्मोहनं महास्त्रं तु निष्फलं वीक्ष्य भूमिपे
अत्यंतं विस्मयं प्राप्य बाणं धनुषि संदधे ॥६०
लवणो येन निहतो महासुरविमर्दनः
तं बाणं चाप आधत्त घोरं कान्त्यानलप्रभम् ॥६१॥
तं वीक्ष्य राजा प्रोवाच बाणोऽयमसतां हृदि
लगते रामभक्तस्य संमुखेऽपि न भात्यसौ ॥६२॥
इत्येवं भाषमाणं तु बाणेनानेन शत्रुहा
विव्याध हृदये क्षिप्रं वह्निज्वालासमप्रभम् ॥६३॥
तेन बाणेन दुःखार्तो महापीडासमन्वितः
रथोपस्थे क्षणं मूर्च्छामवाप परतापनः ॥६४॥
स क्षणात्तां व्यथां तीर्त्वा जगाद रिपुमग्रतः
सहस्वैकं प्रहारं मे कुत्र यासि ममाग्रतः ॥६५॥
एवमुक्त्वा महासंख्ये बाणमाधत्त सायके
ज्वालामालापरीतांगं स्वर्णपुंखसमन्वितम् ॥६६॥
स बाणो धनुषो मुक्तः शत्रुघ्नेन पथिस्थितः
छिन्नोऽप्यग्रफलेनाशु हृदये समपद्यत ॥६७॥
तेन बाणेन संमूर्छ्य पपात स्यंदनोपरि
ततो हाहाकृतं सैन्यं भग्नं सर्वं पराद्रवत् ॥६८॥
सुरथो जयमापेदे संग्रामे रामसेवकः
दशवीरा दशसुतैर्मूर्च्छिताः पतिताः क्वचित् ॥६९॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
सुरथविजयोनाम द्विपंचाशत्तमोऽध्यायः ॥५२॥
N/A
References : N/A
Last Updated : November 05, 2020
TOP