पातालखण्डः - अध्यायः ९५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
यातुं तमुद्यतं नत्वा मुनिं राजा ततो मुदा
विधिं पप्रच्छ संक्षिप्तं स्नानदानक्रियोचितम् ॥१॥
अंबरीष उवाच-
मुने वैशाखमासेऽस्मिन्को विधिः किं तपोऽधिकम्
किं च दानं कथं स्नानं कथं केशवपूजनम् ॥२॥
कृपया वद विप्रर्षे सर्वज्ञस्त्वं हरिप्रियः
विशेषतोऽपि पूजाया विधिं तीर्थपदे वद ॥३॥
नारद उवाच-
मेषसंक्रमणे भानोर्माधवे मासि सत्तम
महानद्यां नदीतीरे नदे सरसि निर्झरे ॥४॥
देवखातेऽथवा स्नायाद्यथाप्राप्ते जलाशये
दीर्घिका कूप वापीषु नियतात्मा हरिं स्मरन् ॥५॥
मधुमासस्य शुक्लायामेकादश्यामुपोषितः
पंचदश्यां च वा वीर मेषसंक्रमणेऽपि वा ॥६॥
वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया
मधुसूदनमभ्यर्च्य कुर्यात्सुस्नानपूर्वकम् ॥७॥
वैशाखं सकलं मासं मेषसंक्रमणे रवेः
प्रातः सनियमः स्नास्ये प्रीयतां मधुसूदनः ॥८॥
मधुहंतुः प्रसादेन ब्राह्मणानामनुग्रहात्
निर्विघ्नमस्तु मे पुण्यंवैशाखस्नानमन्वहम् ॥९॥
माधवे मेषगे भानौ मुरारे मधुसूदन
प्रातःस्नानेन मे नाथ यथोक्तफलदो भव ॥१०॥
यथा ते माधवो मासो वल्लभो मधुसूदन
प्रातःस्नानेन मे तस्मिन्फलदः पापहा भव ॥११
एवमुच्चार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः
स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः ॥१२
तीर्थं प्रकल्पयेद्धीमान्मूलमंत्रमिमं पठन्
ॐनमोनारायणायमूलमंत्र उदाहृतः ॥१३
दर्भपाणिस्तु विधिवदाचांतः प्रणतो भुवि
चतुर्हस्तसमायुक्तं चतुरस्रं समंततः ॥१४॥
प्रकल्प्यावाहयेद्गंगां मंत्रेणानेन मानवः
विष्णुपादप्रसूतासि वैष्णवी विष्णुदेवता ॥१५॥
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात्
तिस्रःकोट्योर्द्धकोटी च तीर्थानां वायुरब्रवीत् ॥१६॥
दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि
नंदिनीत्येव ते नाम वेदेषु नलिनीति च ॥१७॥
दक्षा पृथ्वी च विहगा विश्वगाथा शिवप्रिया
विद्याधरी महादेवी तथा लोकप्रसादिनी ॥१८॥
क्षेमंकरी जाह्नवी च शांता शांतिप्रदायिनी
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् ॥१९॥
भवेत्संनिहिता तत्र गंगा त्रिपथगामिनी
सप्तवाराभि जप्तेन करसंपुटयोजिते ॥२०॥
मूर्ध्नि कृत्वा जलं भूपश्चतुर्वा पंच सप्त वा
स्नानं कृत्वा मृदा तद्वदामंत्र्य तु विधानतः ॥२१॥
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥२२॥
उद्धृतासि वराहेण विष्णुना शतबाहुना
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥२३॥
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः
उत्थाय वाससी शुक्ले शुद्धे तु परिधापयेत् ॥२४॥
ततस्तु तर्प्पणं कुर्य्यात्त्रैलोक्याप्यायनाय वै
ब्रह्माणं तर्प्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतिम् ॥२५॥
देवान्यक्षांस्तथा नागान्गंधर्वाप्सरसोसुरान्
क्रूरान्सर्पान्सुपर्णांश्च तरून्वै जंतुकान्खगान् ॥२६॥
विद्याधराञ्जलधरांस्तथैवाकाशगामिनः
निराधाराश्च ये जीवाः पापकर्मरताश्च ये ॥२७॥
तेषामाप्यायनार्थाय दीयते सलिलं मया
कृतोपवीती देवेषु निवीती च भवेन्नरः ॥२८॥
मनुष्यांस्तर्प्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा
सनकः सनंदनश्चैव तृतीयश्च सनातनः ॥२९॥
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा
ते सर्वे तृप्तिमायांतु मद्दत्तेनांबुना सदा ॥३०॥
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम्
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥३१॥
देवब्रह्मऋषीन्सर्वांस्तर्पयेदक्षतोदकैः
अपसव्यं ततः कुर्यात्सव्यं जान्वाच्य भूतले ॥३२॥
अग्निष्वात्तास्तथा सौम्या हविष्मंतस्तथोष्मपाः
कव्यानलान्बर्हिषदस्तथा वै चाज्यपाः पुनः ॥३३॥
संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः
यमाय धर्मराजाय मृत्यवे चांतकाय च ॥३४॥
वैवस्वताय कालाय सर्वभूतक्षयाय च
उदुंबराय दध्नाय नीलाय परमेष्ठिने ॥३५॥
वृकोदराय चित्राय चित्रगुप्ताय वै नमः
दर्भपाणिस्तु विधिवत्पितॄन्संतर्पयेत्ततः ॥३६॥
पित्रादीन्नामगोत्रेण तथा मातामहानपि
संतर्प्य विधिना सर्वानिमं मंत्रमुदीरयेत् ॥३७॥
ये बांधवा बांधवा ये येऽन्यजन्मनि बांधवाः
ते तृप्तिमखिलां यांतु येऽस्मत्तस्तोयकांक्षिणः ॥३८॥
आचम्य विधिवत्सम्यगालिखेत्पद्ममग्रतः
साक्षतैश्च सपुष्पैश्च सलिलारुणचंदनैः ॥३९॥
अर्घं दद्यात्प्रयत्नेन सूर्य्यनामानुकीर्त्तनैः
नमस्ते विष्णुरूपाय नमस्ते ब्रह्मरूपिणे ॥४०॥
सहस्ररश्मये सूर्य नमस्ते सर्वतेजसे
नमस्ते रुद्रवपुषे नमस्ते भक्तवत्सल ॥४१॥
पद्मनाभ नमस्तेऽस्तु कुंडलांगदभूषित
नमस्ते सर्वलोकेश सुप्तानामुपबोधन ॥४२॥
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वदा
सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ॥४३॥
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते
एवं सूर्यं नमस्कृत्य सप्त कृत्वा प्रदक्षिणम् ॥४४॥
द्विजं गां कांचनं स्पृष्ट्वा पश्चाच्च स्वगृहं व्रजेत्
आश्रमस्थांस्ततः पूज्य प्रतिमां चापि पूजयेत् ॥४५॥
पूर्वं भक्त्यैव गोविंदं गृही च नियतात्मवान्
पूजयेद्भक्तितो राजन्नुभयत्र यथाविधि ॥४६॥
विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम्
सर्वं संवत्सरं यावदर्चितस्तेन माधवः ॥४७॥
माधवे मासि संप्राप्ते मेषस्थे कर्मसाक्षिणि
केशवप्रीतये कुर्यात्केशवव्रतसंचयम् ॥४८॥
दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि
जन्मकोटिसमुद्भूत पातकांतकराणि च ॥४९॥
जलान्नशर्कराधेनुतिलधेनुमुखानि च
वित्तमानेन देयानि दानानीप्सितसिद्धये ॥५०॥
वैशाखं सकलं मासं नित्यस्नायी जितेंद्रियः
जपन्हविष्यं भुंजानः सर्वपापैः प्रमुच्यते ॥५१॥
एकभुक्तमथो नक्तमयाचितमतंद्रितः
माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम् ॥५२॥
वैशाखे विधिना स्नानद्वयं नद्यादिके बहिः
हविष्यं ब्रह्मचर्यं च भूशय्या नियमस्थितिः ॥५३॥
व्रतं दानं जपो होमो मधुसूदनपूजनम्
अपि जन्मसहस्रोत्थं पापं दहति दारुणम् ॥५४॥
यथैव माधवो ध्यातो विनाशयति किल्बिषम्
तथैव माधवे स्नानं नियमेन विनिर्मितम् ॥५५॥
तीर्थे चानुदिनं स्नानं तिलैश्च पितृतर्पणम्
दानं धर्मघटादीनां मधुसूदनपूजनम् ॥५६॥
माधवे मासि कुर्वीत मधुसूदनतुष्टिदम्
तिलोदकसुवर्णान्न शर्करांबरभूषणम् ॥५७॥
पादत्राणातपत्रांबु कुंभान्दद्याद्द्विजातिषु
त्रिसंध्यं पूजयेदीशं भक्तितो मधुसूदनम् ॥५८॥
साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः
सुवर्णतिलपात्रैश्च ब्राह्मणाञ्छक्तितो बहून् ॥५९॥
तर्पयेदुदपात्रैर्यो ब्रह्महत्यां व्यपोहति
वैशाखे मासि यः स्नात्वा प्रातर्नद्यां समाहितः ॥६०॥
पूजयित्वा हरिं भक्त्या पुष्पैः कालोद्भवैः फलैः
पूजयेद्ब्राह्मणं शक्त्या पाखंडालापवर्जितः ॥६१॥
तर्पयेद्वस्त्रगोदानै रत्नाद्यैर्धनसंचयैः
अन्यद्वित्तं यथाशक्ति स्तोकं स्तोकं समाचरेत् ॥६२॥
पश्चाद्विनिःस्वः पुरुषो माधवे मासि माधवम्
पुष्पार्चनविधानेन पूजयेन्मधुसूदनम् ॥६३॥
सर्वपापविनिर्मुक्तः पितॄणां तारयेच्छतम्
सजन्मशतसाहस्रं न शोकफलभाग्भवेत् ॥६४॥
न च व्याधिभयं तस्य न दारिद्र्यं न बंधनम्
स विष्णुभक्तो जायेत धन्यो जन्मनिजन्मनि ॥६५॥
यावद्युगसहस्राणि शतमष्टोत्तरं भवेत्
तावत्स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत् ॥६६॥
भूपतेर्विविधान्भोगान्भुक्त्वा चैव यथासुखम्
माधवस्य प्रसादेन माधवे लीयते ततः ॥६७॥
शृणु राजन्प्रवक्ष्यामि समासान्माधवार्चनम्
वैदिकं तांत्रिकं वापि मिश्रकं पापनाशनम् ॥६८॥
नह्यंतोऽनंतपारस्य नांतः पूजाविधेर्नृप
अथ संक्षिप्य चोच्येत यथावदनुपूर्वशः ॥६९॥
वैदिकस्तांत्रिको मिश्रः श्रीविष्णोस्त्रिविधो मखः
त्रयाणामीप्सितेनैव विधिना हरिमर्चयेत् ॥७०॥
वैदिको मिश्रको वापि विप्रादीनां विधीयते
तांत्रिको विष्णुभक्तस्य शूद्रस्यापि प्रकीर्तितः ॥७१॥
यथा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः
यजेच्च विधिवद्विष्णुं ब्रह्मचारी समाहितः ॥७२॥
अर्चयेत्स्थंडिलेऽग्नौ वा सूर्येऽप्सु हृदि वा द्विजे
द्रव्येण भक्तियुक्तेन स्वगुरुं तदनुज्ञया ॥७३॥
पूर्वं स्नानं प्रकुर्वीत धौतदंतोंऽगशुद्धये
उभयोरपि च स्नानं मंत्रैर्मृद्ग्रहणादिना ॥७४॥
संध्योपास्त्यादिकर्माणि वेदतंत्रोदितानि वै
पूजांते कल्पयेत्सम्यक्संकल्पं कर्मपावनम् ॥७५॥
शैली दारुमयी लौही लेप्या लेख्या च सैकती
मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥७६॥
चलाचलेति द्विविधा प्रतिष्ठा जीवमंदिरम्
उद्वासा वाहनेन स्तः स्थिरायां माधवार्चने ॥७७॥
अस्थिरायां विकल्पः स्यात्स्थंडिले तु भवेद्द्वयम्
स्नापनं त्वविलेप्यायामन्यत्र परिमार्जनम् ॥७८॥
द्रव्यैः प्रसिद्धैर्देवेज्या प्रतिमादिष्वमायिनः
भक्तस्य च यथालब्धैर्भक्तिभावेन चैव हि ॥७९॥
स्नानालंकरणं श्रेष्ठमर्चायामेव भूपते
स्थंडिलेष्वपि विन्यासो वह्नावाज्यहुतं हविः ॥८०॥
सूर्ये चाभ्यर्हणं श्रेष्ठं स्थंडिले सलिलादिभिः
श्रद्धयोपहृतं श्रेष्ठं हरौ भक्तेन वार्यपि ॥८१॥
गंधो धूपः सुमनसो दीपोऽन्नाद्यं च किं पुनः
शुचिः संभृतसंभारः प्राग्दर्भैः कल्पितासनः ॥८२॥
आसीनः प्रागुदग्वक्त्रो ह्यर्चायामथ सम्मुखः
कृतन्यासः कृतन्यासां हर्यर्चां पाणिना स्पृशेत् ॥८३॥
कलशं प्रोक्षणीयं च यथावदुपसाधयेत्
तदद्भिर्देवयजनं द्रव्याण्यात्मानमेव च ॥८४॥
प्रोक्ष्य पात्राणि त्रीण्यद्भिस्तैस्तैर्द्रव्यैस्तु सादयेत्
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि दापयेत् ॥८५॥
हृतशीर्ष्णा च शिखया गायत्र्या चाभिमंत्रयेत्
पिंडे वाय्वग्निसंसिद्धे हृत्पद्मस्थां परां विभोः ॥८६॥
अण्वीं जीवकलां ध्यायेन्नादांते सिद्धिभाविताम्
तयात्मभूतया पिंडे व्याप्ते संपूज्य तन्मयः ॥८७॥
आवाह्यार्चादिषु स्थाप्य न्यस्तां गां तां प्रपूजयेत्
पाद्यार्घ्यस्नानार्हणादीनुपचारान्प्रकल्पयेत् ॥८८॥
धर्मादिभिश्च नवभिः कल्पयित्वासनं हरेः
पद्ममष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् ॥८९॥
उभाभ्यां वेदतंत्राभ्यां हरेरुभयसिद्धये
सुदर्शनं पांचजन्यं गदासीषु धनुर्हलम् ॥९०॥
मुशलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत्
नंदं सुनंदं गरुडं प्रचंडं चंडमेव च ॥९१॥
महाबलं बलं चैव कुमुदं कुमुदेक्षणम्
दुर्गां विनायकं व्यासं विष्वक्सेनं गुरून्सुरान् ॥९२॥
स्वेस्वे स्थानेष्वभिमुखान्पूजयेत्प्रोक्षणादिभिः
चंदनोशीरकर्पूर कुंकुमागुरुवासितैः ॥९३॥
सलिलै स्नापयेन्मंत्रैर्नित्यं वा विभवे सति
स्वर्णघर्मानुवाकेन महापुरुषविद्यया ॥९४॥
पौरुषेणापि सूक्तेन सामनीराजनादिभिः
वस्त्रोपवीताभरण पत्रस्रग्गंधलेपनैः ॥९५॥
अलंकुर्वीत सप्रेम विष्णुभक्तो यथोचितम्
पाद्यमाचमनीयं च गंधं सुमनसोक्षतान् ॥९६॥
गंधधूपोपहार्याणि दद्याद्वै श्रद्धयार्चकः
गुडपायससर्पींषि शष्कुल्यापूपमोदकान् ॥९७॥
पायसं दधिसर्पिश्च नैवेद्यं स विकल्पयेत्
अभ्यंगोन्मर्दनादर्श दंतधावाभिषेचनम् ॥९८॥
अन्नाद्यं नृत्यगीतानि सर्वाणि स्युरथान्वहम्
विधिना विहिते कुंडे मेखलावर्तवेदिभिः ॥९९॥
अग्निमाधाय परितः समूहेत्पाणिनोदकम्
परिस्तीर्याथ पर्युक्ष्य दत्वा इध्मं यथाविधि ॥१००॥
प्रोक्षण्यासाद्य द्रव्याणि प्रोक्षण्यैवाज्यसेचनम्
तप्तजांबूनदप्रख्यं शंखचक्रगदांबुजैः ॥१०१॥
लसच्चतुर्भुजं शांतं पद्मकिंजल्कवाससम्
स्फुरत्किरीटकटककटिसूत्रवरांगदम् ॥१०२॥
श्रीवत्सवक्षसंभ्राजत्कौस्तुभं वनमालिनम्
ध्यायन्नभ्यर्च्य दारूणि हविषा सघृतानि च ॥१०३॥
प्रास्याज्यभागावाघारौ दत्वा चाज्यप्लुतं हविः
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् ॥१०४॥
मूलमंत्रं जपेद्ब्रह्मन्स्मरन्नारायणात्मकम्
दत्वाचमनमुच्छिष्टं विष्वक्सेनाय कल्पयेत् ॥१०५॥
मुखवासं तु सुरभिं तांबूलाद्यमुपाहरेत्
उपगायन्गृणन्नित्यं कर्माण्यभिरवाक्षरैः ॥१०६॥
सत्कथां श्रावयञ्छृण्वन्मुहूर्तं क्षणिको भवेत्॥
स्तवैरुच्चावचैः स्तोत्रैः पौराणैः प्राकृतैरपि ॥१०७
स्तुत्वा प्रसीद भगवन्निति वंदेत दंडवत्
शिरस्तत्पादयोः कृत्वा बाहुभ्यां च परस्परम् ॥१०८॥
प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात्
इति शेषान्हरेर्दत्ताञ्छिरस्याधाय सादरम् ॥१०९॥
उद्वासयेच्चेदुद्वास्यं ज्योतिर्ज्योतिषि चात्मनः
अर्चादिषु पदं यत्र श्रद्धावांस्तत्र चार्चयेत् ॥११०॥
सर्वभूतेष्वात्मनि च सर्वात्मानमवस्थितम्
एवं क्रियायोगपथैः पुमान्वैदिकतांत्रिकैः ॥१११॥
अर्च्चयेच्च यतः सिद्धिं हरेर्विंदत्यभीप्सिताम्
तामर्चां संप्रतिष्ठाप्य मंदिरं कारयेद्दृढम् ॥११२॥
पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवादिकम्
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् ॥११३॥
क्षेत्रापणपुरग्रामान्दत्वा सायुज्यतामियात्
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् ॥११४॥
पूजादिना ब्रह्मलोकं त्रिभिस्तत्साम्यतामियात्
तमेव नैरपेक्षेण भक्तियोगेन विंदते ॥११५॥
भक्तियोगं स लभते एवं यः पूजयेद्धरिम् ॥११६॥
यत्कृष्णप्रणिपातधूलिधवलं तद्वर्ष्म तद्वच्छुभं
ते नेत्रे तपसार्जिते सुरुचिरे याभ्यां हरिर्दृश्यते
सा बुद्धिर्विमलेंदु शंखधवला या माधवव्यापिनी
सा जिह्वा मृदुभाषिणी नृप मुहुर्या स्तौति नारायणम् ॥११७॥
मूलमंत्रेण कर्तव्यं स्त्रीशूद्रैरपि पूजनम्
श्रद्धया स्वगुरूद्दिष्टमार्गेणान्यैश्च वैष्णवः ॥११८॥
इदं ते सर्वमाख्यातं पावनं माधवार्चनम्
विशेषान्माधवे मासि त्वमेतत्कुरु भूपते ॥११९॥
सूत उवाच-
इत्येवमाकर्ण्य वचो विचित्रं पुण्यं पवित्रं विधिनंदनस्य
प्रणम्य बद्धांजलिराह राजा सकौतुकी भागवतप्रधानः ॥१२०॥
अंबरीष उवाच-
समस्तभूमीवलयेश्वरोऽहमव्याहताज्ञो विबुधप्रसेवी
गोविंदपादांबुजदत्तचित्तः स्वचित्तसंतोषितभूमिदेवः ॥१२१॥
विख्यातराजोचितवंशरत्नं निरंतरं धर्मरुचिर्यशस्वी
सौंदर्यशौर्योदयदानशीलः सुपुत्रवानस्मि जितारिवर्गः ॥१२२॥
केनापि पुण्येन पवित्रबुद्धिर्जातोहमीदृग्गुणसंतश्रीः
इयं पुनः श्रीरिव पुण्यमूर्तिर्लब्धा कुतः कांतिमती च कांता ॥१२३॥
इदं मे सुकृतं सर्वं पुराजन्मनि चेष्टितम्
समादिश मुने सम्यक्सर्वज्ञोसि दयानिधे ॥१२४॥
नारद उवाच-
इयं रूपवती नाम वेश्यासीदन्यजन्मनि
सांप्रतं तव भार्या या सत्याचारातिसुंदरी ॥१२५॥
वेश्याधर्मेण वर्तेत यथोद्दिष्टेन भाविनी
कुर्वती किल कर्माणि शुभानि द्विजशासनात् ॥१२६॥
देवदास इति ख्यातो हेमकारो भवानभूत्
पूर्वजन्मनि वै तस्या रुचेर्भर्ता भुजंगमः ॥१२७॥
इयं भवंतं भजते रुची रूपवती पुनः
व्ययार्थमयनं धर्मं स्थिता विज्ञानमुत्तमम् ॥१२८॥
आकर्ण्य चैकदा धर्मं वैशाखस्नानसंभवम्
चक्रे धर्मवती तोये स्नानं मेषगते रवौ ॥१२९॥
दानं दत्तवती दक्षा वेश्या रूपवती सदा
ब्राह्मणाय नमस्कारं भक्त्यादरपुरःसरम् ॥१३०॥
स तया देवदासस्त्वं बोधितः स्नेहयंत्रितः
कृतवान्बुद्धितः स्नानं माधवे मासि सादरम् ॥१३१॥
तत्र त्रेतायुगस्यादौ तृतीयामाप्यनिर्मलाम्
सुवर्णकारं सोवाच देवदासं तमादरात् ॥१३२॥
वेश्योवाच-
उत्तमं कुरु सौवर्णं मधुसूदनमच्युतम्
पूजयित्वा यवैर्देवमेतैः संतर्प्य चानलम् ॥१३३॥
ब्राह्मणाय च दास्यामि ब्राह्मणानामनुज्ञया
दानमेतत्पुराणेषु कथ्यते तत्र चाक्षयम् ॥१३४॥
अक्षयेति तृतीयासौ ब्राह्मणेभ्यः श्रुतं मया
शुक्ला वैशाखमासस्य तदक्षयफलप्रदम् ॥१३५॥
अस्यां दास्यामि तं हैमं मधुसूदनमव्ययम्
नारद उवाच-
इति तस्य वचः श्रुत्वा मधुरं हेमकारकः ॥१३६॥
चक्रे सुवर्णप्रतिमामच्युतस्यापि सुंदरीम्
सत्यभावेन धर्मार्थमिति चौर्यविवर्जितः ॥१३७॥
यथोद्दिष्टस्य चंद्रस्य प्रतिमां लक्षणान्विताम्
ददौ सा च विधानेन स्नात्वा विप्राय सुंदरीम् ॥१३८॥
पूजयित्वा ततस्तस्यामक्षयायां तिथौ नृप ॥१३९॥
कालेन कियता वेश्या सा मृता धर्मनिष्ठिता
देवदासोऽपि स ततो मृतः स्वीयायुषक्षये ॥१४०॥
तेन पुण्येन भूपाल हेमकारोऽन्य जन्मनि
स त्वं प्राप्तो महीं राजन्नशेषगुणसंयुतः ॥१४१॥
सापि रूपवती वेश्या तेन धर्मेण तेऽभवत्
नाम्ना कांतिमती कांता प्रणयेन परिप्लुता ॥१४२॥
विविधा वासना वीर कर्मणां पूर्वसंभवाः
विचित्रा गतयस्तात ज्ञायंते न बुधैरपि ॥१४३॥
तमेनं माधवं मासं प्रतिकार्यं न संशयः
गोपितं तेन देवेन ब्रह्मणा माधवेन च ॥१४४॥
असाधुसंगैरनवाप्तविद्यैरसंयतैराश्रमधर्महीनैः
अभूततीर्थैरकृतव्रतैस्तैर्न लभ्यते माधवमासधर्मः ॥१४५॥
गोविंदकेशवमुकुंदहरे मुरारे लक्ष्मीनिवास मधुसूदन कृष्ण विष्णो
वाणी वरा न वदने वसतीति येषां वैशाखमासनियमो भवते न तेषाम् ॥१४६॥
ये साधुसाधु वचनानि हिताधिकानि नाकर्णयंति च हरेश्चरितामृतानि
पश्यंति ये न कमलापतिकेतनानि वैशाखमासनियमं न हि ते लभंते ॥१४७॥
शुश्रूषिता न गुरवो न वराय कन्या दत्ता समाय समये समलंकृता यैः
अध्यापिता न तनया विनयादि धर्मं वैशाखमासनियमं न हि ते लभंते ॥१४८॥
सूत उवाच-
इत्येवमादिश्य मुनिर्नरेश मामंत्र्य तं मंत्रविदग्रगण्यः
स्नातुं ययौ माधवमासि गंगामभ्यर्चितस्तेन तदा स विप्राः ॥१४९॥
विधिं स राजापि ततश्चकार वैशाखमासस्य मुनिप्रणीतम्
पत्न्यासमं पुण्यधिया तमेव संचिंतयँल्लोकपवित्रकीर्तिः ॥१५०॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये नारदांबरीष -
संवादे पंचनवतितमोऽध्यायः ॥९५॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP