संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ८९

पातालखण्डः - अध्यायः ८९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
एवं संबोधितो विप्रो देवशर्मा द्विजोत्तमः
पुनः प्राह प्रियां भार्यां सहितां ज्ञानवादिनीम् ॥१॥
सत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम्
तथा हि वंशमिच्छंति साधवः सत्यपंडिताः ॥२॥
यथा पुत्रस्य चिंता मे न धनस्य तथा प्रिये
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम् ॥३॥
सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम्
सुपुत्रेण महाभाग पितामाता प्रजीवतः ॥४॥
एकः पुत्रो वरः कांत बहुभिर्निर्गुणैस्तु किम्
एकस्तारयते वंशमन्ये संतापकारकाः ॥५॥
पूर्वमेव मया प्रोक्तमन्ये संबंधभागिनः
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् ॥६॥
सुगर्भः प्राप्यते पुण्यैर्दुर्मृत्युः पातकैस्तथा
सुखानां निचयं कांत सत्यमेव वदाम्यहम् ॥७॥
ब्रह्मचर्येण सत्येन तपसा नित्यवर्तनैः
दानेन नियमैश्चापि क्षमा शौचेन वल्लभ ॥८॥
अहिंसया च शक्त्या वाऽस्तेयेनापि प्रवर्तते
एतैर्दशभिरंगैश्च धर्ममेवं प्रसूयते ॥९॥
संपूर्णो जायते धर्म अंगैर्गर्भो यथोदरे
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा ॥१०॥
तस्य धर्मः प्रसन्नात्मा पुण्य सौख्यं प्रयच्छति
यंयं चिंतयते प्राज्ञस्तंतं प्राप्नोति दुर्लभम् ॥११॥
देवशर्म्मोवाच-
सर्वं देवि समाख्यातं धर्माख्यं ज्ञानमुत्तमम्
कथं पुत्रमहं विंद्यां वैष्णवं गुणसंयुतम् ॥१२॥
वद त्वं मे महाभागे यदि जानासि सुव्रते
धर्ममार्गस्त्वया सर्व्वः पितुः प्राप्तः पुरानघे ॥१३॥
ममैतद्विदितं कांते भवती ब्रह्मवादिनी
च्यवनस्य प्रसादेन विष्णोस्तुष्टस्य ते पुरा ॥१४॥
सुमनोवाच-
वसिष्ठं गच्छ धर्मज्ञ तं प्रार्थय महामुनिम्
तस्मात्प्राप्स्यसि तं पुत्रं धर्मज्ञं धर्मवत्सलम् ॥१५॥
एवमुक्ते तया वाक्ये देवशर्मा द्विजोत्तमः
करिष्ये तव कल्याणि मतमेवं न संशयः ॥१६॥
एवमुक्त्वा जगामासौ देवशर्मा द्विजोत्तमः
वसिष्ठं सर्ववेत्तारं दीप्यंतं तपतां वरम् ॥१७॥
गंगातीरे स्थितं पुण्यमासनस्थं द्विजोत्तमम्
तेजोज्वालासमाकीर्णं द्वितीयमिव भास्करम् ॥१८॥
राजमानं महात्मानं ब्रह्मसिंहं द्विजोत्तमम्
भक्त्या प्रणम्य स मुनिं दंडवत्तं पुनःपुनः ॥१९॥
तमुवाच महातेजा ब्रह्मसूनुरकल्मषम्
उपविशासने पुण्ये सुखेन सुमहामते ॥२०॥
नारद उवाच-
उपविष्टः स योगींद्र पुनः प्राह तपोधनम्
गृहे पुरुष ते वत्स दारभृत्येषु सर्वदा ॥२१॥
क्षेममस्ति महाभाग पुण्यकर्मसु चाग्निषु
निरामयोऽसि चांगेषु धर्मं पालयसे सदा ॥२२॥
एवमुक्त्वा महाप्राज्ञः पुनः प्राह महीसुरम्
किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम ॥२३॥
नारद उवाच-
एवं संभाष्य तं विप्रं विरराम शुभं वचः
ततो विप्रो महाभागो वसिष्ठं मुनिपुंगवम् ॥२४॥
स होवाच महात्मानं वसिष्ठं तपतां वरम्
भगवञ्छ्रूयतां वाक्यं विच्छेदय द्विजोत्तम ॥२५॥
दारिद्र्यं केन भावेन पुत्रसौख्यं कथं नहि
एतन्मे संशयं तात कस्मात्पापाद्वदस्व मे ॥२६॥
महामोहेन संमुग्धः प्रियया बोधितो द्विज
तयाहं प्रेषितस्तात तव पार्श्वं समागतः ॥२७॥
तत्सर्वं हि समाचक्ष्व सर्वसंदेहनाशकम्
मुक्तिदाता भव स्वत्वं ममसंसारबंधनात् ॥२८॥
वसिष्ठ उवाच-
पुत्रा मित्रास्तथा भ्राता अन्ये स्वजनबांधवाः
पंचभेदास्तु संबंधाः पुरुषस्य भवंति ते ॥२९॥
तेते सुमनसा प्रोक्ताः पूर्वमेव तवाग्रतः
ऋणसंबंधिनः सर्वे ते कुपुत्रा द्विजोत्तम ॥३०॥
पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम्
पुण्यप्रसक्तो यस्यात्मा सत्यधर्मरतः सदा ॥३१॥
शुद्धिमाञ्ज्ञानसंपन्नस्तपस्वी वाग्विदां वरः
सर्वकर्मसुसंवीतो वेदाध्ययनतत्परः ॥३२॥
सर्वशास्त्रप्रवेदी च देवब्राह्मणपूजकः
याज्ञिकः सर्वयज्ञानां दाता त्यागी प्रियंवदः ॥३३॥
विष्णुध्यानपरो नित्यं शांतोदांतः सुहृत्सदा
पितृमातृपरो नित्यं सर्वस्वजनवत्सलः ॥३४॥
कुलस्य तारको विद्वान्स्वकुलं परिपोषकः
एवंगुणैस्तु संयुक्तः सुपुत्रः सुखदायकः ॥३५॥
अन्ये संबंधयुक्ताश्च शोकसंतापकारकाः
उदासीनेन किं कार्यं फलहीनेन तेऽनघ ॥३६॥
आयांति यांति ते सर्वे दुःखं दत्वा सुदारुणम्
पुत्ररूपेण ते सर्वे संसारे द्विजसत्तम ॥३७॥
पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम्
तत्सर्वं हि प्रवक्ष्यामि श्रूयतामद्भुतं पुनः ॥३८॥
भवाञ्छूद्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा
कृषिकर्त्ता ज्ञानहीनो महालोभेन संयुतः ॥३९॥
एकभार्यः सदा द्वेषी बहुपुत्रो ह्यदत्तवान्
धर्मं नैव विजानासि सत्यं च परिनिष्ठितम् ॥४०॥
दानं नैव त्वया दत्तं शास्त्रं नैव परिश्रुतम्
कृतं नैव त्वया तीर्थं न च यात्रा महामते ॥४१॥
एवं कृतस्त्वया विप्र कृषिमार्गः पुनःपुनः
पशूनां पालनं पूर्वंग च्छंश्चैव द्विजोत्तम ॥४२॥
महिषीणां तथाश्वीनां पालनं च पुनःपुनः
एवं पूर्वं कृतं कर्म त्वयैव च द्विजोत्तम ॥४३॥
विपुलं तु धनं तद्वल्लोभेन परिसंचितम्
तस्य व्ययस्तु पुण्येन न कृतस्तु त्वया कदा ॥४४॥
पात्रे दानं न दत्तं हि दृष्ट्वा वा दुर्बलं च तत्
कृषिं कृत्वा न दत्तं तु भवता धनमेव हि ॥४५॥
गोमयं हि त्विदं सर्वं पशूनां संचयं च वै
विक्रयित्वा धनं विप्र संचितं विपुलं त्वया ॥४६॥
तक्रं घृतं तथा क्षीरं विक्रीतं सततं दधि
दुष्कालश्चिंतितो विप्र मोहितो विष्णुमायया ॥४७॥
कृत्वा महार्घमेवैतद्धनं ब्राह्मणसत्तम
निर्दयेन त्वया दानं न दत्तं तु तदा किल ॥४८॥
देवानां पूजनं विप्र भवता न कृतं सदा
पर्वाणि प्राप्य विप्रेभ्यो द्रव्यं नैव समर्पितम् ॥४९॥
श्राद्धकालं च संप्राप्य श्रद्धया न कृतं त्वया
भार्या वदति ते साध्वी दिनमध्ये समागते ॥५०॥
श्वशुरश्राद्धकालश्च श्वश्र्वाश्चैव महामते
तच्छ्रुत्वा तद्वचस्तेषां गृहं त्यक्त्वा पलायसे ॥५१॥
धर्ममार्गो न दृष्टो हि श्रुतो नैव कदा त्वया
लोभो मातापिता भ्राता लोभः स्वजनबांधवाः ॥५२॥
पालितो लोभ एवैकस्त्यक्त्वा धर्मं सदैव हि
तस्माद्दुःखी भवाञ्जातो दारिद्रेणाति पीडितः ॥५३॥
दिनेदिने महातृष्णा हृदये ते प्रवर्त्तते
यदायदा गृहे द्रव्यं वृद्धिमायाति ते सदा ॥५४॥
तृष्णया दह्यमानस्तु तदा त्वं वह्निरूपया
रात्रौ वा त्वं प्रसुप्तस्तु लोभं चिंतयसेऽधिकम् ॥५५॥
दिनं प्राप्य महामोहैर्व्यापितो हि सदैव हि
सहस्रं लक्षतः कोटिः कदावार्बुदमेव च ॥५६॥
भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे
एवं सहस्रलक्षं च कोटिरर्बुदमेव च ॥५७॥
खर्वो निखर्वः संजातस्तृष्णा नैव प्रगच्छति
एवं कालं परित्यज्य वृद्धिमायाति सर्वदा ॥५८॥
नैव दत्तं हुतं विप्र भुक्तं नैव कदा त्वया
निश्चितं भूमिमध्ये तत्क्षिप्तं पुत्रानजानते ॥५९॥
अन्यमेवमुपायं तु द्रव्यागमनकारणात्
कुरुषे सर्वदा विप्र लोकान्पृच्छसि बुद्धिमान् ॥६०॥
खनित्रमंजनं वादं धातुवादमतःपरम्
पृच्छमानो भ्रमस्येकस्तृष्णया परिमोहितः ॥६१॥
सर्वांश्चिंतयसे नित्यं कल्पान्सिद्धि प्रदायकान्
प्रवेशं चित्रवर्णानां चिंतामणिं च पृच्छसि ॥६२॥
तृष्णानलेनदग्धोसि सुखं नैव प्रगच्छसि
तृष्णानलप्रदीप्तोसि हाहाभूतोऽप्रचेतनः ॥६३॥
एवंभूतोसि विप्रेंद्र गतस्त्वं कालवश्यताम्
दारपुत्रेषु तद्द्रव्यं पृच्छमानेषु वै त्वया ॥६४॥
कथितं नैव तद्दत्तं प्राणांस्त्यक्त्वा गतो यमम्
एवं सर्वंम याख्यातं वृत्तांतं तव पूर्वकम् ॥६५॥
अनेन कर्मणा विप्र निर्धनोसि दरिद्रवान्
संसारे यस्य सत्पुत्रा भक्तिमंतः सदैव हि ॥६६॥
सुशीला ज्ञानसंपन्नाः सत्यधर्मरताः सदा
संभवंति गृहे तस्य यस्य विष्णुः प्रसीदति ॥६७॥
धनं धान्यं कलत्रं तु पुत्रपौत्रमनंतकम्
सभुंक्ते मर्त्यलोके वै यस्य विष्णुः प्रसन्नवान् ॥६८॥
विना विष्णोः प्रसादेन दाराः पुत्रा भवंति न
सुजन्म च कुले विप्र तद्विष्णोः परमं पदम् ॥६९॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये देवशर्मोपाख्याने एकोननवतितमोऽध्यायः ॥८९॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP