पातालखण्डः - अध्यायः ७२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
ईश्वर उवाच-
तदेकाग्रमना भूत्वा शृणु देवि वरानने
आसीदुग्रतपा नाम मुनिरेको दृढव्रतः ॥१॥
साग्निको ह्यग्निभक्षश्च चचारात्यद्भुतं तपः
जजाप परमं जाप्यं मंत्रं पंचदशाक्षरम् ॥२॥
काममंत्रेण पुटितं कामं कामवरप्रदात्
कृष्णायेति पदं स्वाहा सहितं सिद्धिदं परम् ॥३॥
दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम्
पीतपट्टधरं वेणुं करेणाधरमर्पितम् ॥४॥
नवयौवनसंपन्नं कर्षंतं पाणिना प्रियाम्
एवं ध्यानपरः कल्पशतांते देहमुत्सृजन् ॥५॥
सुनंद नाम गोपस्य कन्याभूत्स महामुनिः
सुनंदेति समाख्याता या वीणां बिभ्रती करे ॥६॥
मुनिरन्यः सत्यतपा इति ख्यातो महाव्रतः
सशुष्कपत्रं भुंक्ते यः प्रजजाप परं मनुम् ॥७॥
रत्यंतं कामबीजेन पुटितं च दशाक्षरम्
स प्रदध्यौ मुनिवरश्चित्रवेषधरं हरिम् ॥८॥
धृत्वा रमाया दोर्वल्लीद्वितयं कंकणोज्ज्वलम्
नृत्यंतमुन्मदंतं च संश्लिष्यं तं मुहुर्मुहुः ॥९॥
हसंतमुच्चैरानंदतरंगं जठरांबरे
दधतं वेणुमाजानु वैजयंत्या विराजितम् ॥१०॥
स्वेदांभः कणसंसिक्त ललाटवलिताननम्
त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महामुनिः ॥११॥
दशकल्पांतरे जातो ह्ययं नंदवनादिह
सुभद्र नाम्नो गोपस्य कन्या भद्रेति विश्रुता ॥१२॥
यस्याः पृष्ठतले दिव्यं व्यजनं परिदृश्यते
हरिधामाभिधानस्तु कश्चिदासीन्महामुनिः ॥१३॥
सोऽप्यतप्यत्तपः कृच्छ्रं नित्यं पत्रैकभोजनम्
आशुसिद्धिकरं मंत्रं विंशत्यर्णं प्रजप्तवान् ॥१४॥
अनंतरं कामबीजादध्यारूढं तदेव तु
माया तत्पुरतो व्योम हंसासृग्द्युतिचंद्रकम् ॥१५॥
ततो दशाक्षरं पश्चान्नमोयुक्तं स्मरादिकम्
दध्यौ वृंदावने रम्ये माधवीमंडपे प्रभुम् ॥१६॥
उत्तानशायिनं चारुपल्लवास्तरणोपरि
कयाचिदतिकामार्त्त बल्लव्या रक्तनेत्रया ॥१७॥
वक्षोजयुगमाच्छाद्य विपुलोरः स्थलं मुहुः
संचुंब्यमानगंडांतं तृप्यमानरदच्छदम् ॥१८॥
कलयंतं प्रियां दोर्भ्यां सहासं समुदाद्भुतम्
स मुनिश्च बहून्देहां स्त्यक्त्वा कल्पत्रयांतरे ॥१९॥
सारंगनाम्नो गोपस्य कन्याभूच्छुभलक्षणा
रंगवेणीति विख्याता निपुणा चित्रकर्मणि ॥२०॥
यस्या दंतेषु दृश्यंते चित्रिताः शोणबिंदवः
ब्रह्मवादी मुनिः कश्चिज्जाबालिरिति विश्रुतः ॥२१॥
सतपः सुरतो योगी विचरन्पृथिवीमिमाम्
स एकस्मिन्महारण्ये योजनायुतविस्तृते ॥२२॥
यदृच्छयागतोऽपश्यदेकां वापीं सुशोभनाम्
सर्वतः स्फाटिकाबंधतटां स्वादुजलान्विताम् ॥२३॥
विकासिकमलामोदवायुना परिशीलिताम्
तस्याः पश्चिमदिग्भागे मूले वटमहीरुहः ॥२४॥
अपश्यत्तापसीं कांचित्कुर्वंतीं दारुणं तपः
तारुण्यवयसायुक्तां रूपेणाति मनोहराम् ॥२५॥
चंद्रांशुं सदृशाभासां सर्वावयवशोभनाम्
कृत्वा कटितटे वामपाणिं दक्षिणतस्तदा ॥२६॥
ज्ञानमुद्रां च बिभ्राणामनिमेषविलोचनाम्
त्यक्ताहारविहारां च सुनिश्चलतयास्थिताम् ॥२७॥
जिज्ञासुस्तां मुनिवरस्तस्थौ तत्र शतं समाः
तदंते तां समुत्थाप्य चलितां विनयान्मुनिः ॥२८॥
अपृच्छत्का त्वमाश्चर्यरूपे किं वा चरिष्यसि
यदि योग्यं भवेत्तर्हि कृपया वक्तुमर्हसि ॥२९॥
अथाब्रवीच्छनैर्बाला तपसातीव कर्शिता
ब्रह्मविद्याहमतुला योगींद्रैर्या विमृग्यते ॥३०॥
साहं हरिपदाम्भोजकाम्यया सुचिरं तपः
चराम्यस्मिन्वने घोरे ध्यायंती पुरुषोत्तमम् ॥३१॥
ब्रह्मानंदेन पूर्णाहं तेनानंदेन तृप्तधीः
तथापि शून्यमात्मानं मन्ये कृष्णरतिं विना ॥३२॥
इदानीमतिनिर्विण्णा देहस्यास्य विसर्ज्जनम्
कर्त्तुमिच्छामि पुण्यायां वापिकायामिहैव तु ॥३३॥
तच्छ्रुत्वा वचनं तस्या मुनिरत्यंतविस्मितः
पतित्वा चरणे तस्याः कृष्णोपासाविधिं शुभम् ॥३४॥
पप्रच्छ परमप्रीतस्त्यक्त्वाध्यात्मविरोचनम्
तयोक्तं मंत्रमाज्ञाय जगाम मानसं सरः ॥३५॥
ततोऽतिदुश्चरं चक्रे तपो विस्मयकारकम्
एकपादस्थितः सूर्यं निर्निमेषं विलोकयन् ॥३६॥
मंत्रं जजाप परमं पंचविंशतिवर्णकम्
दध्यौ परमभावेन कृष्णमानंदरूपिणम् ॥३७॥
चरंतं व्रजवीथीषु विचित्रगतिलीलया
ललितैः पादविन्यासैः क्वणयंतं च नूपुरम् ॥३८॥
चित्रकंदर्पचेष्टाभिः सस्मितापांगवीक्षितैः
संमोहनाख्यया वंश्या पंचमारुणचित्रया ॥३९॥
बिंबौष्ठपुटचुंबिन्या कलालापैर्मनोज्ञया
हरंतं व्रजरामाणां मनांसि च वपूंषि च ॥४०॥
श्लथन्नीवीभिरागत्य सहसालिंगितांगकम्
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ॥४१॥
श्यामलांगप्रभापूर्णैर्मोहयंतं जगत्त्रयम्
स एवं बहुदेवेन समुपास्य जगत्पतिम् ॥४२॥
नवकल्पांतरे जाता गोकुले दिव्यरूपिणी
कन्या प्रचंडनाम्नस्तु गोपस्याति यशस्विनः ॥४३॥
चित्रगंधेति विख्याता कुमारी च शुभानना
निजांगगंधैर्विविधैर्मोदयंती दिशो दश ॥४४॥
तामेनां पश्य कल्याणीं वृंदशो मधुपायिनीम्
अंगेषु स्वपतिं कृत्वा रसावेशसमाकुलाम् ॥४५॥
अस्याः स्तनपरिष्वंगे हारैः सर्वैर्विहन्यते
वक्षःस्थलात्प्रच्यवद्भिश्चित्रगंधादिसौरभैः ॥४६॥
अपरे मुनिवर्यास्तु सततं पूतमानसाः
वायुभक्षास्तपस्तेपुर्जपंतः परमं मनुम् ॥४७॥
स्मरः कृष्णाय कामार्ति कलादिवृत्तिशालिने
आग्नेयीसहितं कृत्वा मंत्रं पंचदशाक्षरम् ॥४८॥
दध्युर्मुनिवराः कष्णमूर्तिं दिव्यविभूषणाम्
दिव्यचित्रदुकूलेन पूर्णपीनकटिस्थलाम् ॥४९॥
मयूरपिच्छकैः कॢप्तचूडामुज्ज्वलकुंडलाम्
सव्यजंघांत आदाय दक्षिणं चरणांबुजम् ॥५०॥
भ्रमंतीं संपुटीकृत्य चारुहस्तांबुजद्वयम्
कक्षदेशविनिक्षिप्तवेणुं परिचलत्पुटीम् ॥५१॥
आनंदयंतीं गोपीनां नयनानि मनांसि च
परमाश्चर्यरूपेण प्रविष्टां रंगमंडपे ॥५२॥
प्रसूनवर्षर्गोपीभिः पूर्यमाणां च सर्वतः
अथ कल्पांतरे देहं त्यक्त्वा जाता इहाधुना ॥५३॥
यासां कर्णेषु दृश्यंते ताटंका रश्मिदीपिताः
रत्नमाल्यानि कंठेषु रत्नपुष्पाणि वेणिषु ॥५४॥
मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः
कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेदपारगौ ॥५५॥
ऊर्ध्वपादौ तपो घोरं तेपतुस्त्र्यक्षरं मनुम्
ह्रीं हंस इति कृत्वैव जपंतौ यतमानसौ ॥५६॥
ध्यायंतौ गोकुले कृष्णं बालकं दशवार्षिकम्
कंदर्पसमरूपेण तारुण्यललितेन च ॥५७॥
पश्यंतीर्व्रजबिंबोष्ठीर्मोहयंतमनारतम्
तौ कल्पांते तनूं त्यक्त्वा लब्धवंतौ जनिं व्रजे ॥५८॥
सुवीरनाम गोपस्य सुते परमशोभने
ययोर्हस्ते प्रदृश्येते सारिके शुभराविणी ॥५९॥
जटिलो जंघपूतश्च घृताशी कर्बुरेव च
चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः ॥६०॥
केवलेनैकभावेन प्रपन्ना बल्लवीपतिम्
तेपुस्ते सलिले मग्ना जपंतो मनुमेव च ॥६१॥
रमात्रयेण पुटितं स्मराद्यं तदशाक्षरम्
दध्युश्च गाढभावेन बल्लवीभिर्वने वने ॥६२॥
भ्रमंतं नृत्यगीताद्यैर्मानयंतं मनोहरम्
चंदनालिप्तसर्वांगं जपापुष्पावतंसकम् ॥६३॥
कल्हारमालयावीतं नीलपीतपटावृतम्
कल्पत्रयांते जातास्ते गोकुले शुभलक्षणाः ॥६४॥
इमास्ताः पुरतो रम्या उपविष्टा नतभ्रुवः
यासां धर्मकृतान्येव वलयानि प्रकोष्ठके ॥६५॥
विचित्राणि च रत्नाद्यैर्दिव्यमुक्ताफलादिभिः
मुनिर्दीर्घतपा नाम व्यासोऽभूत्पूर्वकल्पके ॥६६॥
तत्पुत्रः शुक इत्येव मुनिः ख्यातो वरः सुधीः
सोऽपि बालो महाप्राज्ञः सदैवानुस्मरन्पदम् ॥६७॥
विहाय पितृमात्रादि कृष्णं ध्यात्वा वनं गतः
स तत्र मानसैर्दिव्यैरुपचारैरहर्निशम् ॥६८॥
अनाहारोऽर्चयद्विष्णुं गोपरूपिणमीश्वरम्
रमया पुटितं मंत्रं जपन्नष्टादशाक्षरम् ॥६९॥
दध्यौ परमभावेन हरिं हैमतरोरधः
हैममंडपिकायां च हेमसिंहासनोपरि ॥७०॥
आसीनं हेमहस्ताग्रैर्दधानं हेमवंशिकाम्
दक्षिणेन भ्रामयंतं पाणिना हेमपंकजम् ॥७१॥
हेमवर्णेष्टप्रियया परिकॢप्तांगचित्रकम्
हसंतमतिहर्षेण पश्यंतं निजमाश्रमम् ॥७२॥
हर्षाश्रुपूर्णः पुलकाचितांगः प्रसीदनाथेति वदन्नथोच्चैः
दंडप्रणामाय पपात भूमौ संवेपमानस्त्रिजगद्विधातुः ॥७३॥
तं भक्तिकामं पतितं धरण्यामायासितोस्मीति वदंतमुच्चैः
दंडप्रणामस्य भुजौ गृहीत्वा पस्पर्श हर्षोपचितेक्षणेन ॥७४॥
उवाच च प्रियारूपं लब्धवंतं शुकं हरिः
त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममांतिके ॥७५॥
मद्रूपं चिंतयंती च प्रेमास्पदमुपागता
द्वे च मुख्यतमे गोप्यौ समानवयसी शुभे ॥७६॥
एकव्रते एकनिष्ठे एकनक्षत्रनामनी
तप्तजांबूनदप्रख्या तत्रैवान्या तडित्प्रभा ॥७७॥
एकानिद्रा यमाणाक्षी परा सौम्यायतेक्षणा
सोऽर्चयत्परया भक्त्या ते हरेः सव्यदक्षिणे ॥७८॥
स कल्पांते तनुं त्यक्त्वा गोकुलेऽभून्महात्मनः
उपनंदस्य दुहिता नीलोत्पलदलच्छविः ॥७९॥
सेयं श्रीकृष्णवनिता पीतशाटीपरिच्छदा
रक्तचोलिकया पूर्णा शातकुंभघटस्तनी ॥८०॥
दधाना रक्तसिंदूरं सर्वांगस्यावगुंठनम्
स्वर्णकुंडलविभ्राजद्गंडदेशां सुशोभनाम् ॥८१॥
स्वर्णपंकजमालाढ्या कुंकुमालिप्तसुस्तनी
यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितम् ॥८२॥
वेणुवाद्यातिनिपुणा केशवस्य निषेवणी
कृष्णेन परितुष्टेन कदाचिद्गीतकर्मणि ॥८३॥
विन्यस्ता कंबुकंठेऽस्या भाति गुंजावलि शुभा
परोक्षेपि च कृष्णस्य कांतिभिश्च स्मरार्दिता ॥८४॥
सखीभिर्वादयंतीभिर्गायंती सुस्वरं परम्
नर्त्तयेत्प्रियवेषेण वेषयित्वा वधूमिमाम् ॥८५॥
वारंवारं च गोविंदं भावेनालिंग्य चुंबति
प्रियासौ सर्वगोपीनां कृष्णस्याप्यतिवल्लभा ॥८६॥
श्वेतकेतोः सुतः कश्चिद्वेदवेदांगपारगः
सर्वमेव परित्यज्य प्रचंडं तप आस्थितः ॥८७॥
मुरारेः सेवितपदां सुधामधुरनादिनीम्
गोविंदस्य प्रियां शक्तिं ब्रह्मरुद्रादिदुर्गमाम् ॥८८॥
भजंतीमेकभावेन श्रियमेव मनोहराम्
ध्यायञ्जजाप सततं मंत्रमेकादशाक्षरम् ॥८९॥
हसितं सकलं कृत्वा बतमायेषु योजयन्
कांत्यादिभिर्हसंतीभिर्वासयंत्यभितो जगत् ॥९०॥
वसंते वसतेत्येवं मंत्रार्थं चिंतयन्सदा
सोऽपि कल्पद्वयेनैव सिद्धोऽत्र जनिमाप्तवान् ॥९१॥
सेयं बालायते पुत्री कृशांगी कुड्मलस्तनी
मुक्तावलिलसत्कंठी शुद्धकौशेयवासिनी ॥९२॥
मुक्ताच्छुरितमंजीरकंकणांगदमुद्रिका
बिभ्रती कुंडले दिव्ये अमृतस्राविणी शुभे ॥९३॥
वृत्तकस्तूरिकावेणी मध्ये सिंदूरबिंदुवत्
दधाना चित्रकं भाले सार्द्धं चंदनचित्रकैः ॥९४॥
या सैव दृश्यते शांता जपंती परमं पदम्
आसीच्चंद्रप्रभो नाम राजर्षिः प्रियदर्शनः ॥९५॥
तस्य कृष्णप्रसादेन पुत्रोऽभून्मधुराकृतिः
चित्रध्वज इति ख्यातः कौमारावधि वैष्णवः ॥९६॥
स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम्
आदेशयद्द्विजान्मंत्रं परमष्टादशाक्षरम् ॥९७॥
अभिषिच्यमानः स शिशुर्मंत्रामृतमयैर्जलैः
तत्क्षणे भूपतिं प्रेम्णा नत्वोदश्रुप्रकल्पितः ॥९८॥
तस्मिन्दिने स वै बालः शुचिवस्त्रधरः शुचिः
हारनूपुरसूत्राद्यैर्ग्रैवेयांगदकंकणैः ॥९९॥
विभूषितो हरेर्भक्तिमुपस्पृश्यामलाशयः
विष्णोरायतनं गत्वा स्थित्वैकाकी व्यचिंतयत् ॥१००॥
कथं भजामि तं भक्तं मोहनं गोपयोषिताम्
विक्रीडंतं सदा ताभिः कालिंदीपुलिने वने ॥१०१॥
इत्थमत्याकुलमतिश्चिंतयन्नेव बालकः
अथापपरमां विद्यां स्वप्नं च समवाप्यत ॥१०२॥
आसीत्कृष्णप्रतिकृतिः पुरतस्तस्य शोभना
शिलामयी स्वर्णपीठे सर्वलक्षणलक्षिता ॥१०३॥
साभूदिंदीवरश्यामा स्निग्धलावण्यशालिनी
त्रिभंगललिताकार शिखंडी पिच्छभूषणा ॥१०४॥
कूजयंती मुदा वेणुं कांचनीमधरेऽर्पिताम्
दक्षसव्यगताभ्यां च सुंदरीभ्यां निषेविताम् ॥१०५॥
वर्द्धयंतीं तयोः कामं चुंबनाश्लेषणादिभिः
दृष्ट्वा चित्रध्वजः कृष्णं तादृग्वेषविलासिनम् ॥१०६॥
अवनम्य शिरस्तस्मै पुरो लज्जितमानसः
अथोवाच हरिर्दक्षपार्श्वगां प्रेयसीं हसन् ॥१०७॥
सलज्जं परमं चैनं स्वशरीरासनागतम्
निर्मायात्मसमं दिव्यं युवतीरूपमद्भुतम् ॥१०८॥
चिंतयस्व शरीरेण ह्यभेदं मृगलोचने
अथो त्वदंगतेजोभिः स्पृष्टस्त्वद्रूपमाप्स्यति ॥१०९॥
ततः सा पद्मपत्राक्षी गत्वा चित्रध्वजांतिकम्
निजांगकैस्तदंगानामभेदं ध्यायती स्थिता ॥११०॥
अथास्यास्त्वंगतेजांसि तदंगं पर्यपूरयन्
स्तनयोर्ज्योतिषा जातौ पीनौ चारुपयोधरौ ॥१११॥
नितंबज्योतिषा जातं श्रोणिबिंबं मनोहरम्
कुंतलज्योतिषा केशपाशोऽभूत्करयोः करौ ॥११२॥
सर्वमेवं सुसंपन्नं भूषावासः स्रगादिकम्
कलासु कुशला जाता सौरभेनांतरात्मनि ॥११३॥
दीपाद्दीपमिवालोक्य सुभगां भुवि कन्यकाम्
चित्रध्वजां त्रपाभंगि स्मितशोभां मनोहराम् ॥११४॥
प्रेम्णा गृहीत्वा करयोः सा तामपहरन्मुदा
गोविंदवामपार्श्वस्थां प्रेयसीं परिरभ्य च ॥११५॥
उवाच तव दासीयं नाम चास्याश्चकार य
सेवां चास्यै वद प्रीत्या यथाभिरुचितां प्रियाम् ॥११६॥
अथ चित्रकलेत्येतन्नाम चात्ममतेन सा
चकार चाह सेवार्थं धृत्वा चापि विपंचिकाम् ॥११७॥
सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः
गुणात्मन्प्राणनाथस्य तवायं विहितो विधिः ॥११८॥
अथ चित्रकला त्वाज्ञां गृहीत्वानम्य माधवम्
तत्प्रेयस्याश्च चरणं गृहीत्वा पादयो रजः ॥११९॥
जगौ सुमधुरं गीतं तयोरानंदकारणम्
अथ प्रीत्योपगूढा सा कृष्णेनानंदमूर्तिना ॥१२०॥
यावत्सुखांबुधौ पूर्णा तावदेवाप्यबुध्यत
चित्रध्वजो महाप्रेमविह्वलः स्मरतत्परः ॥१२१॥
तमेव परमानंदं मुक्तकंठो रुरोद ह
तदारभ्य रुदन्नेव मुक्त्वा हरिविचारकम् ॥१२२॥
आभाषितोऽपि पित्राद्यैर्नैवावोचद्वचः क्वचित्
मासमात्रं गृहे स्थित्वा निशीथे कृष्णसंश्रयः ॥१२३॥
निर्गत्यारण्यमचरत्तपो वै मुनिदुष्करम्
कल्पांते देहमुत्सृज्य तपसैव महामुनिः ॥१२४॥
वीरगुप्ताभिधानस्य गोपस्य दुहिता शुभा
जाता चित्रकलेत्येव यस्याः स्कंधे मनोहरा ॥१२५॥
विपंची दृश्यते नित्यं सप्तस्वरविभूषिता
उपतिष्ठति वै वामे रत्नभृंगारमद्भुतम् ॥१२६॥
दधाना दक्षिणे हस्ते सा वै रत्नपतद्ग्रहम्
अयमासीत्पुरा सर्वं तापसैरभिवंदितः ॥१२७॥
मुनिः पुण्यश्रवा नाम काश्यपः सर्वधर्मवित्
पिता तस्याभवच्छैवः शतरुद्रीयमन्वहम् ॥१२८॥
प्रस्तुवन्देवदेवेशं विश्वेशं भक्तवत्सलम्
प्रसन्नो भगवांस्तस्य पार्वत्या सह शंकरः ॥१२९॥
चतुर्दश्यामर्द्धरात्रेः प्रत्यक्षः प्रददौ वरम्
त्वत्पुत्रो भविता कृष्णे भक्तिमान्बाल एव हि ॥१३०॥
उपनीयाष्टमे वर्षे तस्मै सिद्धमनुस्त्वयम्
उपदिशैकविंशत्या यो मया ते निगद्यते ॥१३१॥
गोपालविद्यानामायं मंत्रो वाक्सिद्धिदायकः
एतत्साधकजिह्वाग्रे लीलाचरितमद्भुतम् ॥१३२॥
अनंतमूर्तिरायाति स्वयमेव वरप्रदः
काममाया रमाकंठ सेंद्रा दामोदरोज्ज्वलाः ॥१३३॥
मध्ये दशाक्षरीं प्रोच्य पुनस्ता एव निर्दिशेत्
दशाक्षरोक्तऋष्यादिध्यानं चास्य ब्रवीम्यहम् ॥१३४॥
पूर्णामृतनिधेर्मध्ये द्वीपं ज्योतिर्मयं स्मरेत्
कालिंद्या वेष्टितं तत्र ध्यायेद्वृंदावने वने ॥१३५॥
सर्वर्तुकुसुमस्रावि द्रुमवल्लीभिरावृतम्
नटन्मत्तशिखिस्वानं गायत्कोकिलषट्पदम् ॥१३६॥
तस्य मध्ये वसत्येकः पारिजाततरुर्महान्
शाखोपशाखाविस्तारैः शतयोजनमुच्छ्रितः ॥१३७॥
तले तस्याथ विमले परितो धेनुमंडलम्
तदंतर्मंडलं गोपबालानां वेणुशृंगिणाम् ॥१३८॥
तदंतरे तु रुचिरं मंडलं व्रज सुभ्रुवाम्
नानोपायनपाणीनां मदविह्वलचेतसाम् ॥१३९॥
कृतांजलिपुटानां च मंडलं शुक्लवाससाम्
शुक्लाभरणभूषाणां प्रेमविह्वलितात्मनाम् ॥१४०॥
चिंतयेच्छ्रुतिकन्यानां गृह्णतीनां वचः प्रियम्
रत्नवेद्यां ततो ध्यायेद्दुकूलावरणं हरिम् ॥१४१॥
ऊरौ शयानं राधायाः कदलीकांडकोपरि
तद्वक्त्रं चंद्र सुस्मेरं वीक्षमाणं मनोहरम् ॥१४२॥
किंचित्कुंचितवामांघ्रिं वेणुयुक्तेन पाणिना
वामेनालिंग्य दयितां दक्षेण चिबुकं स्पृशन् ॥१४३॥
महामारकताभासं मौक्तिकच्छायमेव च
पुंडरीकविशालाक्षं पीतनिर्मलवाससम् ॥१४४॥
बर्हभारलसच्छीर्षं मुक्ताहारमनोहरम्
गंडप्रांतलसच्चारु मकराकृतिकुंडलम् ॥१४५॥
आपादतुलसीमालं कंकणांगदभूषणम्
नूपुरैर्मुद्रिकाभिश्च कांच्या च परिमंडितम् ॥१४६॥
सुकुमारतरं ध्यायेत्किशोरवयसान्वितम्
पूजा दशाक्षरोक्तैव वेदलक्षं पुरस्क्रिया ॥१४७॥
इत्युक्त्वांतर्दधे देवो देवी च गिरिजा सती
मुनिरागत्य पुत्राय तथैवोपदिदेश ह ॥१४८॥
पुण्यश्रवास्तु तन्मंत्र ग्रहणादेव केशवम्
वर्णयामास विविधैर्जित्वा सर्वान्मुनीन्स्वयम् ॥१४९॥
रूपलावण्यवैदग्ध्य सौंदर्याश्चर्यलक्षणम्
तदा हृष्टमना बालो निर्गत्य स्वगृहात्ततः ॥१५०॥
वायुभक्षस्तपस्तेपे कल्पानामयुतत्रयम्
तदंते गोकुले जाता नंदभ्रातुर्गृहे स्वयम् ॥१५१॥
लवंगा इति तन्नाम कृष्णेंगित निरीक्षणा
यस्या हस्ते प्रदृश्येत मुखमार्जनयंत्रकम् ॥१५२॥
इति ते कथिताः काश्चित्प्रधानाः कृष्णवल्लभाः ॥१५३॥
हरिविविधरसाद्यैर्युक्तमध्यायमेतद्व्रजवरतनयाभिश्चारुहासेक्षणाभिः
पठति य इह भक्त्या पाठयेद्वा मनुष्यो व्रजति भगवतः श्रीवासुदेवस्य धाम ॥१५४॥
इति श्रीपद्मपुराणे पातालखंडे श्रीकृष्णमाहात्म्ये द्विसप्ततितमोऽध्यायः ॥७२॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP