पातालखण्डः - अध्यायः ९२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
इति तस्य वचः श्रुत्वा नारदस्य स भूपतिः
प्रणम्य विस्मितः प्राहचिंतयन्मनसा हरिम् ॥१॥
अंबरीष उवाच-
कथमेतद्विमुह्यामः स्वल्पायासेन यन्मुने
शूद्रः पापसमाचारो लेभे ब्राह्मण्यमुत्तमम् ॥२॥
ब्राह्मण्यं दुर्ल्लभं तात सुकृतैर्विविधैरपि
कथं माधवमासस्य स्नानेनैवाप सोऽधमः ॥३॥
न यज्ञदानैर्न तपोभिरुग्रैर्न पुण्यसंज्ञैरपरैरपीश
अस्मादृशो भूपतयोऽर्थवंतो न ते लभंतेऽवनिदैवतत्वम् ॥४॥
स गाधिसूनुर्विविधं तपोऽपि चिरंविधायानिशमेव घोरम्
कृच्छ्रेण लेभे शतवर्षपूर्णैरहो कथंचिद्बहुभिः प्रयत्नैः ॥५॥
कथं स वर्णाधम एष पापः स्वधर्महीनो धनवान दाता
पुण्यादनायासकृतादमुष्मादल्पादिहावाप स रामतत्त्वम् ॥६॥
नारद उवाच-
सत्यमुक्तं त्वया राजन्ब्राह्मण्यमतिदुर्ल्लभम्
तथापि गतयः सूक्ष्मा दुर्ज्ञेया धर्मतत्त्वतः ॥७॥
विचित्राणि च कर्माणि विचित्रा भूतभावना
विचित्राणि च भूतानि विचित्राः कर्मशक्तयः ॥८॥
कदाचित्सुकृतं कर्म कूटस्थं यदवापि तम्
केनचित्कर्मणा भूप शुभेन परिवर्धते ॥९॥
फलं ददाति सुमहत्तस्मिन्नपि च जन्मनि
धर्मो गहनसूक्ष्मोऽयं नीयते न यथा तथा ॥१०॥
न तस्य फलदानस्य श्रूयते कालनिश्चयः
यत्किंचित्सुकृतं कर्मच्छन्नं पापांतरैरपि ॥११॥
तदागत्य कुतः क्वापि सुफलं च प्रयच्छति
कृतस्य नेह नाशोस्ति पुण्यस्य दुरितस्य च ॥१२॥
तथापि बहुभिः पुण्यैर्दुरितं याति दारुणम्
यदुक्तं भवता राजन्नायासाधिक्यतो भवेत् ॥१३॥
तत्फलं तत्र तत्रापि शृणु सत्यं मयोदितम्
अनायासमहायासौ यद्यल्पत्व महत्त्वयोः ॥१४॥
महाव्रतास्ततस्ते स्युः सततं कर्मकादयः
सिंहव्याघ्रादिमूत्रादौ प्रयासा बहुलास्ततः ॥१५॥
पंचगव्यप्रशस्तत्वं व्रतमध्ये ततो भवेत्
इति कर्तव्यबाहुल्यं महत्त्वं चेत्तदल्पता ॥१६॥
जलाग्न्यादिप्रवेशस्य प्रसज्येत व्रतांतरात्
इदमल्पं महत्त्वं तदिति नैव नियामकः ॥१७॥
फलं यथोदितं शास्त्रे तदेव स्यान्महोदयम्
यथाल्पनाशो महता महन्नाशस्तथाल्पतः ॥१८॥
किंत्वल्पविस्फुलिंगेन तृणनाशः प्रदृश्यते
अजामिलोऽपि भूपाल दास्याः पतिरिति स्मृतः ॥१९॥
धर्मपत्नीपरित्यागी नित्यं पापपथिस्थितः
म्रियमाणः सुताह्वानं चक्रे नारायणेति च ॥२०॥
तथा यन्नामग्रहणात्पदं लेभे सुदुर्ल्लभम्
अनिच्छयापि दहति स्पृष्टो हुतवहो यथा ॥२१॥
तथा दहति गोविंदनामव्याजादपीरितम् ॥२२॥
हत्यायुतं शपनहा सहस्रमुग्रं गुर्वंगनाकोटिनिषेवणं च
स्तेयान्यशेषाणि हरेः प्रियेण गोविंदनाम्ना निहतानि सद्यः ॥२३॥
विष्णुभक्तिमयं वीर यत्किंचित्क्रियतेऽल्पकम्
सुकृतं साधु विदुषा तदक्षयफलं भवेत् ॥२४॥
संदेहो न च कर्तव्यो माधवे मासि माधवम्
समाराध्य जनो भक्त्या तत्तद्वांछितमाप्नुयात् ॥२५॥
अपत्यं द्रविणं दारा धरा हर्म्यं हया गजाः
सुखानि स्वर्गमोक्षौ च न दूरे हरिभक्तितः ॥२६॥
एवं शास्त्रोक्तविधिना स्वल्पेनापि न संशयः
पापस्य महतोऽपि स्यात्क्षयः सम्यग्विधानतः ॥२७॥
फलाधिक्यं भवेद्विद्वन्नाधिक्याद्भावकर्मणोः
सूक्ष्मा धर्मस्य गतयो दुर्ज्ञेया विबुधैरपि ॥२८॥
प्रियो माधवमासोऽयं माधवस्य महात्मनः
एकोऽपि त्रिषु लोकेषु समग्रेप्सितदायकः ॥२९॥
पुण्येन गांगेन जलेन काले देशे बुधः स्नानपरः कथंचित्
आजन्मनो भावहतोऽपि दाता न शुध्यतीत्येव मतं ममैतत् ॥३०॥
प्रज्वाल्य वह्निं घृततैलसिक्तं प्रदक्षिणावर्तशिखं स्वकाले
प्रविश्य दग्धः किल भावदुष्टो न स्वर्गमाप्नोति फलं न चान्यत् ॥३१॥
गंगादितीर्थेषु वसंति देवा देवालये यक्षगणाश्च नित्यम्
विनाशनं यांति कृतोपवासा भावोज्झितास्तेन फलं लभंते ॥३२॥
भावं ततो हृत्कमले निधाय श्रीमाधवं माधवमासि भक्त्या
यजेत यः स्नानपरो विशुद्धः पुण्यं न शक्ता वयमस्य वक्तुम् ॥३३॥
इहार्थेऽपि पुरावृत्तमाकर्णय महीपते
विचित्रं कथयिष्यामि फलं किमपि कर्मणाम् ॥३४॥
तस्य माधवमासस्य प्रसादान्माधवस्य च
यथापि ब्राह्मणी काचित्स्वैरिण्याप शुभं फलम् ॥३५॥
दिवोदासेति विख्यातः पुरा कांतीश्वरोऽभवत्
तस्यापत्यं महारत्नं नारीणामुत्तमं सदा ॥३६॥
गुणरूपसमायुक्ता सुशीला चारुमंगला
दिव्यादेवीति विख्याता रूपेणाप्रतिमा भुवि ॥३७॥
पित्रा त्वालोकिता सा तु रूपलावण्यसंयुता
स तां दृष्ट्वा दिवोदासो दिव्यां देवीं सुतां तदा ॥३८॥
कस्मै च दीयते कन्या सुवराय महात्मने
इति चिंतापरो भूत्वा समालोक्य नरोत्तमः ॥३९॥
रूपदेशस्य राजानं सम्यग्ज्ञात्वा महीपतिः
चित्रसेनं महात्मानं समाहूय ततो नृपः ॥४०॥
कन्यां ददौ दिवोदासश्चित्रसेनाय धीमते
तस्या विवाहकालस्य संप्राप्ते समये नृप ॥४१॥
मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल
दिवोदासश्च धर्मात्मा चिंतयामास भूपतिः ॥४२॥
ब्राह्मणांश्च समाहूय पप्रच्छ नृपनंदन
अस्या विवाहकाले तु चित्रसेनो दिवं गतः ॥४३॥
अस्यास्तु कीदृशं कर्म भविष्यति ब्रुवंतु मे
ब्राह्मण उवाच-
विवाहो जायते राजन्कन्यायास्तु विधानतः ॥४४॥
पतिर्मृत्युं प्रयात्येव यो वा त्यागं करोति च
महाधिव्याधिना भीतस्त्यागं कृत्वा प्रयाति च ॥४५॥
प्रव्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते
तस्यां रजस्वलायां च अन्यः पतिर्विधीयते ॥४६॥
विवाहं तु प्रधानेन पिता कुर्यान्न संशयः
एवं राजन्समादिष्टं धर्मशास्त्रे शुभैर्जनैः ॥४७॥
विवाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः
दिवोदासश्च धर्मात्मा ब्राह्मणैस्तु प्रणोदितः ॥४८॥
विवाहार्थं महाराज मानसं कृतवान्नृप
पुनर्दत्ता प्रदानेन दिव्यादेवी नृपोत्तम ॥४९॥
पुष्पसेनाय पुण्याय तस्मै राज्ञे महात्मने
मृत्युधर्मं गतो राजा विवाहसमयेऽपि सः ॥५०॥
यदा यदा महाभागो दिव्यादेव्याश्च भूपतिः
करोति स पितोद्योगं विवाहस्यातिदुःखितः ॥५१॥
भर्तापि म्रियते काले प्राप्तलग्नस्तदा तदा
एकविंशतिभर्तारः कालेकाले मृतास्ततः ॥५२॥
ततो राजा महादुःखी संजातः ख्यातविक्रमः
समालोक्य तमाहूय मंत्रिभिः सह निश्चलः ॥५३॥
स्वयंवरे महाबुद्धिं चकार पृथिवीपतिः
अथ तेन समाहूता राजानो विविधा नृपाः ॥५४॥
स्वयंवरार्थं वै तस्या बहवो धर्मतत्पराः
तस्यास्तु रूपसंक्षुब्धा मृत्युना प्रेषिता नृपाः ॥५५॥
संग्रामं चक्रिरे मूढा मृतास्तेऽथ परस्परम्
एवं तेषां क्षयो जातः क्षत्त्रियाणां नरेश्वर ॥५६॥
दिव्यादेवी च दुःखार्ता रुरोद करुणं ततः
बालामालोक्य तां राजा रुदंतीं चातिदुःखिताम् ॥५७॥
पुरोधसं च धर्मज्ञं ज्ञानवंतं तपस्विनम्
जातूकर्णं प्रणम्यादौ विनयान्वितकंधरः ॥५८॥
दिवोदास उवाच-
कथयस्व प्रसादेन किमेतस्याहि पातकम्
दिव्यादेव्यास्तु मे पुत्र्या यदेतच्चेष्टितं कृतम् ॥५९॥
जातूकर्ण उवाच-
तस्यास्तु चेष्टितं वीर दिव्यादेव्या वदाम्यहम्
पूर्वजन्मकृतं सर्वं तन्मे निगदतः शृणु ॥६०॥
आस्ते वाराणसी पुण्या नगरी पापनाशिनी
तस्यामास्ते महाप्राज्ञः सुवीरो नाम नामतः ॥६१॥
वैश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः
तस्य भार्या महाप्राज्ञ चित्रानाम सुविस्मृता ॥६२॥
कुलाचारं परित्यज्य दुराचारेण वर्तते
न मन्यते हि भर्तारं रौद्रकृत्ये च वर्तते ॥६३॥
पुण्यकार्यविहीना तु पापं चरति दुर्मतिः
भर्तारं भर्त्सते नित्यं स्वैरिणी कलहप्रिया ॥६४॥
नित्यं परगृहे वास निरता भ्रमतेऽधिकम्
परच्छिद्रं समापश्येद्दुष्टाभूतेषु सर्वदा ॥६५॥
साधुनिंदारता पापा बहुहास्यकरी सदा
कुसंगतिरता वाचा दुराचारजनप्रिया ॥६६॥
धूर्ताधर्मजनद्वेषकरी चानृतभाषिणी
विज्ञायैवं सुवीरोऽस्या उपयेमे ततोऽपराम् ॥६७॥
तया नवीनया वीरो भार्यया सहितोऽनिशम्
यथासुखं स बुभुजे विषयान्मनसः प्रियान् ॥६८॥
धर्माचारेण पुण्यात्मा सत्यपुण्यमतिः सदा
सत्ययामितया सत्या सुमत्याराधितो बभौ ॥६९॥
निरस्ता तेन सा चित्रा विचित्रा वरवर्णिनी
स्वैरिणी गुणसंसर्गधर्मविद्वेषिणी ततः ॥७०॥
भ्रमते जारसंयुक्ता मुक्ताचारा गतत्रपा
सा पापरतसंयुक्ता रक्ता दूती विकर्मणि ॥७१॥
कुशला कुट्टिनीकर्म कलासु त्वन्ययोषिताम्
गृहभंगमसौ चक्रे वक्रेण मनसा हिता ॥७२॥
साध्वीं नारीं समाहूय पापवाक्यैश्च नोदयेत्
नर्मलोभकथाकेलि प्रत्ययोत्पत्तिहेतुभिः ॥७३॥
मनांसि चालयेत्पापा पुरुषाणां च योषिताम्
साधूनां सा स्त्रियो भव्याः परेभ्यः प्रतिपादयेत् ॥७४॥
कारयत्येव कपटं धर्मग्रामविवर्जनम्
एवं वर्षशतं भुक्त्वा पश्चाद्वेश्याविधिस्थिता ॥७५॥
कालेन निधनं प्राप्ता सततं पापनिश्चया
जाता तव गृहे पुत्री दिव्यादेवीति सा सुता ॥७६॥
सुंदरी रूपसंपन्ना पुरा दृष्टेन नोदिता
नारद उवाच-
इति तस्य वचः श्रुत्वा दिवोदासोऽतिविस्मितः
उवाच राजा मधुरं जातूकर्णं मुनिं वचः ॥७७॥
दिवोदास उवाच-
यदीदृशी सा दुरितप्रचारा सदा दुराचाररता प्रयाता
कथं ममश्रीपतिदैवतस्य महाकुलीनस्य सुतानुरूपा ॥७८॥
सुदुर्ल्लभं राजकुले विशाले लेभे च सा श्रीमतिजन्मधन्यम्
पुण्येन केनापि मुने पवित्रे चित्रा विचित्रेण च कर्मकर्त्री ॥७९॥
नारद उवाच-
इति तस्य वचः श्रुत्वा भूमिपस्य मुनिस्ततः
किञ्चिद्विहस्य तु प्राज्ञो वचः सूनृतमब्रवीत् ॥८०॥
जातूकर्ण उवाच-
चित्रा विचित्रसुरतैरथ वंचयंती प्रच्छन्नकामुकविटान्धनधीविहीनान्
वेश्या बभूव विषपानमितश्चरित्वा कालेन नागनगरे महति प्रसिद्धे ॥८१॥
कोऽपि तत्र समायातः सायं विप्रः समार्दितः
अर्दमानो विशुद्धात्मा नगरे नागसंज्ञके ॥८२॥
अपश्यन्नपरं स्थानं मूढश्चित्रागृहं ययौ
तया संमोहितोऽत्यर्थं वेश्यया दृष्टियोगतः ॥८३॥
पादसंवाहनस्नानतांबूलासनभोजनैः
विलासैस्तोषितः सोऽपि खेदहीनोऽभवत्तदा ॥८४॥
ततो विचित्रैः सुरतोपचारैरदृष्टबुद्ध्यैव तया स विप्रः
संसेवितोऽयं रजनीमशेषामवाहयद्भावविशेषलुब्धः ॥८५॥
प्रातः प्रयाणाभिमुखः कथंचिदुवाच चित्रामनुरक्तचित्तः
संतोषितः स्वैश्चरितैः स्वकृत्यैर्वचस्तयाचैकधिया तदानीम् ॥८६॥
ब्राह्मण उवाच-
कार्यः प्रत्युपकारस्ते तोषितेन मया प्रिये
स्वदृढं च निजं दुःखं कथयाम्यविशेषतः ॥८७॥
पुरा कथां हि वदतां विप्राणां नर्मदातटे
शुभं यत्सर्वपापघ्नं तदाकर्णय सादरम् ॥८८॥
यो दिनत्रयमपि प्रयत्नतः स्नाति मेषउपयादि भास्करे
भास्करेऽनुदित एव माधवे मासि सोऽघनिचयैर्विमुच्यते ॥८९॥
संपूर्णमपि वैशाखे यो बहिः स्नानमाचरेत्
विधिना माधवं देवमर्चयेत्सोपि पापहा ॥९०॥
पुण्यतीर्थे विशेषेण स्नानदानक्रियादिभिः
महापापैर्विमुच्येत मानवो मासि माधवे ॥९१॥
तावन्महापापचयः शरीरे शरीरिणस्तिष्ठति निर्विशंकः
यावन्मुदा चोषसि मेषराशिमुपागते मज्जति नो दिनेशे ॥९२॥
एवमाकर्णितस्तेषां विप्राणां वदतां मया
अनेकदुरितांभोधि तरणे पोत उत्तमः ॥९३॥
अदूरे शिवदेहा च वर्ततेऽसौ सरिद्वरा
तत्र स्नातुं गमिष्येऽहं तदाघौघवधाय च ॥९४॥
यदि ते रोचते कांते विरक्तं वामनो भवेत्
तन्मया त्वं समागच्छ वैशाखस्नानहेतवे ॥९५॥
अनित्यं जीवितमिदं यौवनं चातिसुंदरम्
हेतुर्नरकवासस्य दुर्वारश्च स नो भवेत् ॥९६॥
आराधितस्त्वयाहं च पातितो दुरितार्णवे
महतामपि यत्सत्यं दुष्टस्थितशरीरिणाम् ॥९७॥
किमत्र बहुनोक्तेन न विलंबोचितः क्षणः
उद्धरिष्येऽपि भवतीं विरक्तिर्यदि ते हृदि ॥९८॥
चित्रोवाच-
स्वामिन्न दृष्टयोगेन तव संगतिधर्मतः
ध्रुवं विरक्तं मच्चेतो निंद्यमेतद्भवं प्रति ॥९९॥
नूनमेवं मया शास्त्रे श्रुतं यत्साधुसंगमः
अचिंत्यायै नमस्तस्यै ततो नियतायै पुनः ॥१००॥
जातूकर्ण उवाच-
इति भाष्यततस्तेन समं चित्रा ययौ तदा
विद्यमानं धनं किंचिदादाय मुनिनोदिता ॥१०१॥
ततः परं सोऽपि पुनर्द्विजन्मा वैशाखमासे शिवदेहदेहम्
अवाप सस्नौ च दिनेशमस्यै स्नानाय सद्योऽथ ददौ दयालुः ॥१०२॥
हृदयालुरयं विप्रः स्नापयामास तां तदा
यथोचितविधानेन चित्रामुच्चित्रभाषिणीम् ॥१०३॥
वैशाखस्नानमाहात्म्यं तत्र शुश्राव सा मुदा
पठमानेषु विप्रेषु पुराणानि पृथक्पृथक् ॥१०४॥
यस्य श्रवणमात्रेण क्षीयते दुरितांधकः
यथा सूर्योदये नैव तिमिरौघः प्रणश्यति ॥१०५॥
सा शिवे शिवतनूजले पुनः स्नानतोऽजनिकरे विधानतः
स्नानतो विमलमानसोदया सूर्यकांतिरिव निर्मला बभौ ॥१०६॥
तत्र मज्जंति रेवायां सेवायां निरता हरेः
वैशाखे विविधा लोका लोकानंत्यमभीप्सवः ॥१०७॥
ये नर्मदायामिह शर्मदायामशुद्धकायानपि शोधयंति
विशेषतो माधवमासि मर्त्या भवंति मर्त्याधिपलोकलीलाः ॥१०८॥
आजन्मनोऽघस्मरणेन रेवा निहंति दृष्टा दशजन्मजं पुनः
स्नाता कथं चिच्छतयोनिजातं संसेविता यच्छति रुद्रलोकम् ॥१०९॥
सकलं माधवं मासं सा चित्रा नर्मदाजले
सस्नौ किंचिद्ददौ दानं शक्त्या विप्रेषु नित्यशः ॥११०॥
सर्वपापहरं स्तोत्रं शृणोति श्रद्धया हरेः
विप्राणां तत्र पठतां संगादस्य द्विजन्मनः ॥१११॥
निमज्ज्य सा माधवमासि पूर्णे रेवाजले तत्र महीसुरेभ्यः
अच्छिद्रमासाद्य यथाविधानं तत्रापि चित्रापि चकार मासम् ॥११२॥
कुटीरकं तं तु नवं विधाय सुदेवनामापि स भूमिदेवः
उवास रेवासलिले निमज्जंश्चित्रोपरोधादनिशं दयातः ॥११३॥
अथ कालेन कियता कालधर्ममुपेयिवान्
विप्रस्तदनु सा चित्रा चिरेणैव मृता नृप ॥११४॥
तेन माधवमासस्य सुकृतेन तदैव सा
पुत्री तवाभवन्नूनमदृष्ट्वा यमयातनाम् ॥११५॥
तस्य कर्मविपाकोऽयं यदाप्तं भूपतेः कुलम्
वैष्णवं विशदं वीर दुष्प्राप्यं पापकर्मभिः ॥११६॥
दिव्यादेवी वरं नाम जातं चास्यां नरोत्तम
यच्च दत्तवती चान्नं भोग्यसौख्यसुखानि च ॥११७॥
ब्राह्मणाय पुरा तस्मै गणिकात्वेऽपि संगता
स्नात्वा च माधवे मासि किंचित्तत्रापि यद्ददौ ॥११८॥
तस्य दानस्य सा भुंक्ते स्नानस्य च फलोदयम्
पिबते शीतलं तोयं मिष्टान्नं च तथानिशम् ॥११९॥
दिव्यान्भोगान्प्रभुंजाना वर्तते च प्रभोर्गृहे
भुंजते विधिदत्तं च दुःखशोकादिपीडिता ॥१२०॥
यत्पुरा नरनारीणां गृहभंगरताऽभवत्
तस्यकर्मविपाकोऽयमस्याः किंचिदुपस्थितः ॥१२१॥
माधवस्नानमाहात्म्याद्विनैव यमयातनाम्
महापापापि ते वीर सुंदरी सा सुताभवत् ॥१२२॥
एतत्ते सर्वमाख्यातं तव पुत्र्या विचेष्टितम्
सर्वजन्मभवं वीर कर्म दुष्कर्मसंभवम् ॥१२३॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने
द्विनवतितमोऽध्यायः ॥९२॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP