संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ३९

पातालखण्डः - अध्यायः ३९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
निनदत्सुमृदंगेषु वीणानादेषु सर्वतः
मुक्तो वाहस्ततो देव पुरं देवविनिर्मितम् ॥१॥
यत्र स्फाटिक कुड्यानां रचनाभिर्गृहा नृणाम्
हसंति विंध्यं विमलं पर्वतं नागसेवितम् ॥२॥
राजतानि गृहाण्यत्र दृश्यंते प्रकृतेरपि
विचित्रमणिसन्नद्धा नानामाणिक्यगोपुराः ॥३॥
पद्मिन्यो यत्र लोकानां गेहे गेहे मनोहराः
हरंति चित्तानि नृणां मुखपद्मकलेक्षिताः ॥४॥
पद्मरागमणिर्यत्र गेहे गेहे सुभूमिषु
बद्धः संलक्ष्यते विप्र तदोष्ठस्पर्धया नु किम् ॥५॥
क्रीडाशैलाः प्रत्यगारं नीलरत्नविनिर्मिताः
कुर्वंति शंकां मेघस्य मयूराणां कलापिनाम् ॥६॥
हंसा यत्र नृणां गेहे स्फाटिकेषु नियंत्रिताः
कुर्वंति मेघान्नो भीतिं मानसं न स्मरंति च ॥७॥
निरंतरं शिवस्थाने ध्वस्तं चंद्रिकया तमः
शुक्लकृष्णविभेदो न पक्षयोस्तत्र वै नृणाम् ॥८॥
तत्र वीरमणी राजा धार्मिकेष्वग्रणीर्महान्
राज्यं करोति विपुलं सर्वभोगसमन्वितम् ॥९॥
तस्य पुत्रो महाशूरो नाम्ना रुक्मांगदो बली
वनिताभिर्गतो रम्यदेहाभिः क्रीडितुं वनम् ॥१०॥
तासां मंजीरसंरावः कंकणानां रवस्तथा
मनो हरति कामस्य किमन्यस्य कथात्र भोः ॥११॥
वनं जगाम सुमहत्सुपुष्पनगसंयुतम्
सदाशिवकृतस्थानमृतुषट्कैर्विराजितम् ॥१२॥
चंपका यत्र बहुशः फुल्लकोरकशोभिताः
कुर्वंति कामिनां तत्र हृच्छयार्तिं विलोकिताः ॥१३॥
चूताः फलादिभिर्नम्रा मंजरीकोटिसंयुताः
नागाः पुन्नागवृक्षाश्च शालास्तालास्तमालकाः ॥१४॥
कोकिलानां समारावा यत्र च श्रुतिगोचराः
सदा मधुपझंकार गतनिद्राः सुमल्लिकाः ॥१५॥
दाडिमानां समूहाश्च कर्णिकारैः समन्विताः
केतकीकानकीवन्यवृक्षराजिविराजिताः ॥१६॥
तस्मिन्वने प्रमदसंयुतचित्तवृत्तिर्गायन्कलं मधुरवाग्विचिकीर्षयोच्चैः
उद्यत्कुचाभिरभितो वनिताभिरागाच्छोभानिधान वपुरुद्गतभीर्विवेश ॥१७॥
काश्चित्तं नृत्यविद्याभिस्तोषयंति स्म शोभनम्
काश्चिद्गानकलाभिश्च काश्चिद्वाक्चतुरोचितैः ॥१८॥
भ्रूसंज्ञया पराः काश्चित्तोषयामासुरुन्मदाः
परिरंभणचातुर्यैस्तं हृष्टं विदधुः स्त्रियः ॥१९॥
ताभिः पुष्पोच्चयं कृत्वा भूषयामास ताः स्त्रियः
वाण्या कोमलया शंसन्रेमे कामवपुर्धरः ॥२०॥
एवं प्रवृत्ते समये राजराजस्य धीमतः
प्रायात्तद्वनदेशं स हयः परमशोभनः ॥२१॥
तं स्वर्णपत्ररचितैकललाटदेशं
गंगासमं घुसृणकुंकुम पिंजरांगम्
गत्यासमं पवनवेगतिरस्करिण्या
दृष्ट्वा स्त्रियः परमकौतुकधामदेहम् ॥२२॥
ऊचुः पतिं कमलमध्यपिशंगवर्णा -
स्ताम्राधरप्रतिभयाहतविद्रुमाभाः
दंतव्रजप्रमितहास्यसुशोभिवक्त्राः
कामस्य बाणनयनादिविमोहनाभाः ॥२३॥
स्त्रिय ऊचुः
कांतकोयं महानर्वास्वर्णपत्रैकशोभितः
कस्य वा भाति शोभाढ्यो गृहाण स्वबलादिमम् ॥२४॥
शेष उवाच
तदुक्तं वच आकर्ण्य लीलाललितलोचनः
जग्राह हयमेकेन करपद्मेन लीलया ॥२५॥
वाचयित्वा स्वर्णपत्रं स्पष्टवर्णसमन्वितम्
जहास महिलामध्ये जगाद वचनं पुनः ॥२६॥
रुक्मांगद उवाच
पृथिव्यां नास्ति मे पित्रा समः शौर्येण च श्रिया
तस्मिन्कथं विधत्ते स उत्सेकं रामभूमिपः ॥२७॥
यस्य रक्षां प्रकुरुते सदा रुद्रः पिनाकधृक्
यं देवा दानवा यक्षा नमंति मणिमौलिभिः ॥२८॥
कुरुताद्वाजिमेधं वै जनको मे महाबलः
या त्वेष वाजिशालायां बध्नंतु मम वै भटाः ॥२९॥
इति वाक्यं समाकर्ण्य महिलास्ता मनोहराः
प्रहर्षवदना जाताः कांतं तु परिरेभिरे ॥३०॥
गृहीत्वा च हयं पुत्रो राज्ञो वीरमणेर्महान्
पुरं पत्नीसमायुक्तो महोत्साहमवीविशत् ॥३१॥
मृदंगध्वनिषु प्रोच्चैराहतेषु समंततः
बंदिभिः संस्तुतः प्रागात्स्वपितुर्मंदिरं महत् ॥३२॥
तस्मै स कथयामास हयं नीतं रघोः पतेः
वाजिमेधाय निर्मुक्तं स्वच्छंदगतिमद्भुतम् ॥३३॥
रक्षितं शत्रुसूदेन महाबलसमेतिना
तच्छ्रुत्वा वचनं तस्य नृपो वीरमणिर्महान् ॥३४॥
नातिप्रशंसयामास तत्कर्म सुमहामतिः
नीत्वा पुनः समायांतं चौरस्येव विचेष्टितम् ॥३५॥
कथयामास जामात्रे शिवायाद्भुतकर्मणे
अर्धांगनाधरायांगभूषाय चंद्रधारिणे ॥३६॥
तेन संमंत्रयामास नृपो वीरमणिर्महान्
पुत्रसृष्टं महत्कर्म विनिंद्यं महतां मतः ॥३७॥
शिव उवाच
राजन्पुत्रेण भवतः कृतं कर्म महाद्भुतम्
यो जहार महावाहंरामचंद्रस्य धीमतः ॥३८॥
अद्य युद्धं महद्भाति सुरासुरविमोहनम्
शत्रुघ्नेन महाराज्ञा वीरकोट्येकरक्षिणा ॥३९॥
मया यो ध्रियते स्वांते जिह्वया प्रोच्यते हि यः
तस्य रामस्ययज्ञांगं जहार तव पुत्रकः ॥४०॥
परमत्र महाँल्लाभो भविष्यतितरां रणे
यद्रामचरणांभोजं द्रक्ष्यामः स्वीयसेवितम् ॥४१॥
अत्र यत्नो महान्कार्यो हयस्य परिरक्षणे
नयिष्यंति बलाद्वाहं मया रक्षितमप्यमुम् ॥४२॥
तस्मादिमं महाराज राज्येन सह सन्नतः
वाजिनं भोजनं दत्वा प्रेक्षस्वांघ्रियुगं ततः ॥४३॥
इति वाक्यं समाकर्ण्य शिवस्य स नृपोत्तमः
उवाच तं सुरेंद्रादिवंद्यपादांबुजद्वयम् ॥४४॥
वीरमणिरुवाच
क्षत्रियाणामयं धर्मो यत्प्रतापस्य रक्षणम्
तदसौ क्रांतुमुद्युक्तः क्रतुना हयसंज्ञिना ॥४५॥
तस्माद्रक्ष्यः स्वप्रतापो येनकेनापि मानिना
यावच्छक्यं कर्म कृत्वा शरीरव्ययकारिणा ॥४६॥
सर्वं कृतं सुतेनेदं गृहीतोऽश्व पुनर्यतः
कोपितं रामभूपालं समयार्हं कुरु प्रभो ॥४७॥
क्षत्त्रियाणामिदं कर्म कर्तव्यार्हं भवेन्नहि
यदकस्माद्रिपोः पादौ प्रणमेद्भयविह्वलः ॥४८॥
रिपवो विहसंत्येनं कातरोऽयं नृपाधमः
क्षुद्रः प्राकृतवन्नीचो नतवान्भयविह्वलः ॥४९॥
तस्माद्भवान्यथायोग्यं योद्धव्ये समुपस्थिते
यद्विधेयं विचार्यैव कर्तव्यं भक्तरक्षणम् ॥५०॥
शेष उवाच
इति वाक्यं समाकर्ण्य चंद्रचूडोवदद्वचः
प्रहसन्मेघगंभीरवाण्या संमोहयन्मनः ॥५१॥
यदि देवास्त्रयस्त्रिंशत्कोटयः समुपस्थिताः
तथापि त्वत्तः केनाश्वो गृह्यते मम रक्षितुः ॥५२॥
यदि रामः समागत्य स्वात्मानं दर्शयिष्यति
तदाहं चरणौ तस्य प्रणमामि सुकोमलौ ॥५३॥
स्वामिना न हि योद्धव्यं महान नय उच्यते
अन्ये वीरास्तृणप्रायाः किंचित्कर्तुं न वै क्षमाः ॥५४॥
तस्माद्युद्ध्यस्व राजेंद्र रक्षके मयि सुस्थिते
को गृह्णाति बलाद्वाहं त्रिलोकी यदि संगता ॥५५॥
शेष उवाच
एतद्वचः परं श्रुत्वा चंद्रचूडस्य भूमिपः
जहर्ष मानसेऽत्यंतं युद्धकर्मणि कौतुकी ॥५६॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे वीर-
मणिपुत्रेण हयग्रहणंनाम एकोनचत्वारिंशत्तमोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP