संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ६१

पातालखण्डः - अध्यायः ६१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शत्रुघ्न उवाच
जानासि किं महामंत्रिन्को बालो हयमाहरत्
येन मे क्षपितं सर्वं बलं वारिधिसन्निभम् ॥१॥
सुमतिरुवाच
स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान्
क्षत्त्रियाणामत्र वासो नास्त्येव परतापन ॥२॥
इंद्रो भविष्यति परममर्षी हयमाहरत्
पुरारिर्वान्यथा वाहं तव कः समुपाहरेत् ॥३॥
कालजिद्येन नाशं वै प्राप्तः परमदारुणः
तं प्रति श्रीमहाराज गंता कः पुष्कलान्यतः ॥४॥
त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः
तत्र गच्छस्व सैन्येन महता शत्रुकृंतन ॥५॥
गत्वा स जीवितं वीरं बद्ध्वा तु कुतुकार्थिने
दर्शयिष्यामि रामाय मतं मे त्विदमादृतम् ॥६॥
इति वाक्यं समाकर्ण्य वीरान्सर्वान्समादिशत्
सैन्येन महता यात यूयमायामि पृष्ठतः ॥७॥
निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बली
धनुर्विस्फारयंस्तत्र सुदृढं गुणपूरितम् ॥८॥
आयातं तन्महद्दृष्ट्वा बलं वीरप्रपूरितम्
न किंचिन्मनसा बिभ्येलवेन बलशालिना ॥९॥
लवः सिंह इवोत्तस्थौ मृगान्मत्वाऽखिलान्भटान्
धनुर्विस्फारयन्रोषाच्छरान्मुंचन्सहस्रशः ॥१०॥
ते शरैः पीड्यमानास्तु महारोषेण पूरिताः
वीरं बालं मन्यमानाः संमुखं प्राद्रवंस्तदा ॥११॥
वीरान्सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान्
लवो जवेन संधाय शरान्रोषप्रपूरितः ॥१२॥
भ्रमिराद्या सहस्रेण द्वितीयायुतसंख्यया
तृतीयायुतयुग्मेन तुरीयायुतपंचभिः ॥१३॥
पंचमी लक्षयोधानां षष्ठी योधायुताधिकैः
सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः ॥१४॥
मध्ये लवो भ्रमिव्याप्तः स चरन्वह्निवत्तदा
दाहयामास सर्वान्वै सैनिकान्भ्रमिकारकान् ॥१५॥
काचित्खङ्गैः शरैः काचित्काचित्प्रासैश्च कुंतलैः
पट्टिशैः परिघैः सर्वा भ्रमिर्भग्ना महात्मना ॥१६॥
सप्तभिर्भ्रमिभिर्मुक्तो रराज स कुशानुजः
मेघवृंदविनिर्मुक्तः शशीव शरदागमे ॥१७॥
प्राहरत्सर्वथा योधान्भिंदन्गजकरान्बहून्
छिंदञ्छिरांसि वीराणां चक्रभ्रूणि महांति च ॥१८॥
अनेके पतिता वीरा लवबाणप्रपीडिताः
मुमुहुः समरेऽथान्ये नष्टा अन्ये सुकातराः ॥१९॥
पलायनपरं सैन्यं लवबाणप्रपीडितम्
वीक्ष्य वीरो रणे योद्धुं प्रायात्पुष्कलसंज्ञकः ॥२०॥
तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः
रथे सुहयशोभाढ्ये तिष्ठन्प्रायाल्लवं बली ॥२१॥
स लवं प्रत्युवाचाथ पुष्कलः परमास्त्रवित्
तिष्ठ दत्ते मया संख्ये रथे सुहयशोभिते ॥२२॥
पदातिना त्वया युद्धं करोमि किमथाहवे
तस्मात्तिष्ठ रथे पश्चाद्युद्ध्येऽहं भवता सह
एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीत् ॥२३॥
त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे
तदा मे पापमेव स्याज्जयः संदिग्ध एव हि ॥२४॥
न वयं ब्राह्मणा वीर प्रतिग्रहपरायणाः
वयं तु क्षत्रिया नित्यं दानकर्मक्रियारताः ॥२५॥
इदानीं त्वद्रथं कोपाद्भनज्मि प्रत्यहं भवान्
पादचारी भवत्येव पश्चाद्युद्धं करिष्यति ॥२६॥
पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितम्
विसिस्माय चिरं चित्ते धनुः सज्यमथाकरोत् ॥२७॥
तमात्तधनुषं दृष्ट्वा लवः कोपसमन्वितः
चापं चिच्छेद पाणिस्थं शरसंधानमाचरन् ॥२८॥
स यावत्स गुणं चापं कुरुते तावदुद्धतः
रथभंगं चकारास्य समरे प्रहसन्बली ॥२९॥
भग्नं रथं स्वकं वीक्ष्य धनुश्छिन्नं महात्मना
महावीरं मन्यमानः पदातिः प्राद्रवद्रणे ॥३०॥
उभौ धनुर्धरौ वीरावुभावपि शरोद्धतौ
उभौ क्षतजविप्लुष्टौ छिन्नसन्नाहितावुभौ ॥३१॥
परस्परं बाणघातविशीर्णावपुलक्षितौ
जयाकांक्षां प्रकुर्वंतौ परस्परवधैषिणौ ॥३२॥
जयंतकार्तिकेयौ वा पुरारिः पुरभिद्यथा
एवं परस्परं युद्धं प्रकुर्वाणौ रणांगणे ॥३३॥
पुष्कलः प्रत्युवाचाथ बालं शूरशिरोमणे
त्वादृशो न मया दृष्टः कश्चिद्वीरशिरोमणिः ॥३४॥
शिरस्ते पातयाम्यद्य बाणैः शितसुपर्वभिः
मा पलायस्व समरे प्राणान्रक्षस्व संयतः ॥३५॥
एवमुक्त्वा लवं वीरं चकार शरपंजरे
पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः ॥३६॥
शरपंजरमध्यस्थो लवः पुष्कलमब्रवीत्
महत्कर्म कृतं वीर यन्मां बाणैरपीडयत् ॥३७॥
इत्युक्त्वा बाणसंघातं प्रच्छिद्य वचनं पुनः
जगाद पुष्कलं वीरः शरसंधानकोविदः ॥३८॥
पालयात्मानमाजिस्थं मच्छराघातपीडितः
पतिष्यसि महीपृष्ठे रुधिरेण परिप्लुतः ॥३९॥
एवमुक्तं समाकर्ण्य पुष्कलः कोपसंयुतः
रणे संयोधयामास लवं वीरं महाबलम् ॥४०॥
लवः प्रकुपितो बाणं तीक्ष्णं वैरिविदारणम्
जग्राह लवतः कोशादाशीविषमिव क्रुधा ॥४१॥
जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च
हृदयं भेत्तुमुद्युक्तश्छिन्नो भारतिनाशु सः ॥४२॥
छिन्ने भारतिना संख्ये शरेण प्राणहारिणा
अत्यंतं कुपितो घोरं शरमन्यं समाददे ॥४३॥
आकर्णाकृष्टचापेन स मुक्तो निशितः शरः
बिभेद हृदयं तस्य पुष्कलस्य महारणे ॥४४॥
भिन्नो वक्षसि वीरेण सायकेनाशुगामिना
पपात धरणीपृष्ठे महाशूरशिरोमणिः ॥४५॥
पतितं तं समालोक्य पुष्कलं पवनात्मजः
गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम् ॥४६॥
मूर्च्छितं तं समालोक्य शोकविह्वलमानसः
हनूमंतं लवं हंतुं निदिदेश क्रुधान्वितः ॥४७॥
हनूमान्क्रोधसंप्लुष्टो लवं संख्ये महाबलम्
विजेतुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम् ॥४८॥
वृक्षेण हतवान्मूर्ध्नि लवस्य हनुमान्बली
तमापतंतं तरसा चिच्छेद शतधा लवः ॥४९॥
छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्य मूलतः
ताडयामास हृदये मस्तके च महाबलः ॥५०॥
यान्यान्वृक्षान्समाहृत्याताडयत्पवनात्मजः
तांस्तांश्चिच्छेद तरसा बलवान्नतपर्वभिः ॥५१॥
तदा शिलाः समुत्पाट्य गंडशैलोपमाः कपिः
पातयामास शिरसि क्षिप्रवेगेन मारुतिः ॥५२॥
स आहतः शिलासंघैः संख्ये कोदंडमुन्नयन्
बाणैस्ताश्चूर्णयामास यंत्रिकाभिर्यथा कणाः ॥५३॥
तदात्यंतं प्रकुपितो मारुतिः पुच्छवेष्टनम्
चकार समरोपांते लवस्य बलिनः कृती ॥५४॥
स्वं पुच्छेन समाविद्धं वीक्ष्य स्वांबां हृदि स्मरन्
मुष्टिना ताडयामास लांगूलं मारुतेर्बली ॥५५॥
तन्मुष्टिघातव्यथितो मारुतिस्तममूमुचत्
स मुक्तः पुच्छतो युद्धे शरान्मुंचन्नभूद्बली ॥५६॥
दुर्वारशरघातेन संपीडिततनुः कपिः
बाणवर्षं मन्यमानो दुःसहं समरे बहु ॥५७॥
किंकर्तव्यमितोऽस्माभिः पलाय्य यदि गम्यते
तदा मे स्वामिनो लज्जा ताडयेद्बालकोऽत्र माम् ॥५८॥
ब्रह्मदत्तवरत्वात्तु मूर्च्छा न मरणं नहि
दुःसहा बाणपीडात्र किं कर्तव्यं मयाधुना ॥५९॥
शत्रुघ्नः समरे गत्वा जयं प्राप्नोतु बालकात्
अहं तावज्जयाकांक्षी शये कपटमूर्च्छया ॥६०॥
इत्येवं मानसे कृत्वा पपात रणमंडले
पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः ॥६१॥
तं मूर्च्छितं समाज्ञाय हनूमंतं महाबलम्
जघान सर्वान्नृपतीञ्छरमोक्षविचक्षणः ॥६२॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
हनुमत्पतनंनामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP