संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १९

पातालखण्डः - अध्यायः १९

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ब्राह्मण उवाच
इति श्रुत्वा तु तद्वाक्यं भिल्लानामहमद्भुतम्
अत्याश्चर्यमिदं मत्वा प्रहृष्टोऽभवमित्युत ॥१॥
गंगासागरसंयोगे स्नात्वा पुण्यकलेवरः
शृंगमारुरुहे तत्र मणिमाणिक्यचित्रितम् ॥२॥
तत्रापश्यं महाराज देवं देवादिवंदितम्
नमस्कृत्वा कृतार्थोऽहं जातोन्नप्राशनेन च ॥३॥
चतुर्भुजत्वं संप्राप्तः शंखचक्रादिचिह्नितम्
पुरुषोत्तमदर्शनेन न पुनर्गर्भमाविशम् ॥४॥
राजंस्त्वमपि तत्राशु गच्छ नीलाभिधं गिरिम्
कृतार्थं कुरु चात्मानं गर्भदुःखविवर्जितम् ॥५॥
इत्याकर्ण्य वचस्तस्य वाडवाग्र्यस्य धीमतः
पप्रच्छ हृष्टगात्रस्तु तीर्थयात्राविधिं मुनिम् ॥६॥
राजोवाच
साधु विप्राग्र्य हे साधो त्वया प्रोक्तं ममानघ
पुरुषोत्तममाहात्म्यं शृण्वतां पापनाशनम् ॥७॥
ब्रूहि तत्तीर्थयात्रायां विधिं श्रुतिसमन्वितम्
विधिना केन संपूर्ण फलप्राप्तिर्नृणां भवेत् ॥८॥
ब्राह्मण उवाच
शृणु राजन्प्रवक्ष्यामि तीर्थयात्राविधिं शुभम्
येन संप्राप्यते देवः सुरासुरनमस्कृतः ॥९॥
वलीपलितदेहो वा यौवनेनान्वितोऽपि वा
ज्ञात्वा मृत्युमनिस्तीर्यं हरिं शरणमाव्रजेत् ॥१०॥
तत्कीर्तने तच्छ्रवणे वंदने तस्य पूजने
मतिरेव प्रकर्तव्या नान्यत्र वनितादिषु ॥११॥
सर्वं नश्वरमालोक्य क्षणस्थायि सुदुःखदम्
जन्ममृत्युजरातीतं भक्तिवल्लभमच्युतम् ॥१२॥
क्रोधात्कामाद्भयाद्द्वेषाल्लोभाद्दंभान्नरः पुनः
यथाकथंचिद्विभजन्न स दुःखं समश्नुते ॥१३॥
स हरिर्जायते साधुसंगमात्पापवर्जितात्
येषां कृपातः पुरुषा भवंत्यसुखवर्जिताः ॥१४॥
ते साधवः शांतरागाः कामलोभविवर्जिताः
ब्रुवंति यन्महाराज तत्संसारनिवर्तकम् ॥१५॥
तीर्थेषु लभ्यते साधू रामचंद्र परायणः
यद्दर्शनं नृणां पापराशिदाहाशुशुक्षणिः ॥१६॥
तस्मात्तीर्थेषु गंतव्यं नरैः संसारभीरुभिः
पुण्योदकेषु सततं साधुश्रेणिविराजिषु ॥१७॥
तानि तीर्थानि विधिना दृष्टानि प्रहरंत्यघम्
तं विधिं नृपशार्दूल कुरुष्व श्रुतिगोचरम् ॥१८॥
विरागं जनयेत्पूर्वं कलत्रादि कुटुंबके
असत्यभूतं तज्ज्ञात्वा हरिं तु मनसा स्मरेत् ॥१९॥
क्रोशमात्रं ततो गत्वा रामरामेति च ब्रुवन्
तत्र तीर्थादिषु स्नात्वा क्षौरं कुर्याद्विधानवित् ॥२०॥
मनुष्याणां च पापानि तीर्थानि प्रति गच्छताम्
केशानाश्रित्य तिष्ठंति तस्माद्वपनमाचरेत् ॥२१॥
ततो दंडं तु निर्ग्रन्थिं कमंडलुमथाजिनम्
बिभृयाल्लोभनिर्मुक्तस्तीर्थवेषधरो नरः ॥२२॥
विधिना गच्छतां नॄणां फलावाप्तिर्विशेषतः
तस्मात्सर्वप्रयत्नेन तीर्थयात्राविधिं चरेत् ॥२३॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंहितम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥२४॥
हरेकृष्ण हरेकृष्ण भक्तवत्सल गोपते
शरण्य भगवन्विष्णो मां पाहि बहुसंसृतेः ॥२५॥
इति ब्रुवन्रसनया मनसा च हरिं स्मरन्
पादचारी गतिं कुर्यात्तीर्थं प्रति महोदयः ॥२६॥
यानेन गच्छन्पुरुषः समभागफलं लभेत्
उपानद्भ्यां चतुर्थांशं गोयाने गोवधादिकम् ॥२७॥
व्यवहर्ता तृतीयांशं सेवयाष्टमभागभाक्
अनिच्छया व्रजंस्तत्र तीर्थमर्धफलं लभेत् ॥२८॥
यथायथं प्रकर्तव्या तीर्थानामभियात्रिका
पापक्षयो भवत्येव विधिदृष्ट्या विशेषतः ॥२९॥
तत्र साधून्नमस्कुर्यात्पादवंदनसेवनैः
तद्द्वारा हरिभक्तिर्हि प्राप्यते पुरुषोत्तमे ॥३०॥
इति तीर्थविधिः प्रोक्तः समासेन न विस्तरात्
एवं विधिं समाश्रित्य गच्छ त्वं पुरुषोत्तमम् ॥३१॥
तुभ्यं तुष्टो महाराज दास्यते भक्तिमच्युतः
यथा संसारनिर्वाहः क्षणादेव भविष्यति ॥३२॥
तीर्थयात्राविधिं श्रुत्वा सर्वपातकनाशनम्
मुच्यते सर्वपापेभ्य उग्रेभ्यः पुरुषर्षभ ॥३३॥
सुमतिरुवाच
इति वाक्यं समाकर्ण्य ववंदे चरणौ महान्
तत्तीर्थदर्शनौत्सुक्य विह्वलीकृतमानसः ॥३४॥
आदिदेश निजामात्यं मंत्रवित्तममुत्तमम्
तीर्थयात्रेच्छया सर्वान्सह नेतुं मनो दधत् ॥३५॥
मंत्रिन्पौरजनान्सर्वानादिश त्वं ममाज्ञया
पुरुषोत्तमपादाब्जदर्शनप्रीतिहेतवे ॥३६॥
ये मदीये पुरे लोका ये च मद्वाक्यकारकाः
सर्वे निर्यांतु मत्पुर्या मया सह नरोत्तमाः ॥३७॥
ये तु मद्वाक्यमुल्लंघ्य स्थास्यंति पुरुषा गृहे
ते दंड्या यमदंडेन पापिनोऽधर्महेतवः ॥३८॥
किं तेन सुतवृंदेन बांधवैः किं सुदुर्नयैः
यैर्नदृष्टः स्वचक्षुर्भ्यां पुण्यदः पुरुषोत्तमः ॥३९॥
सूकरीयूथवत्तेषां प्रसूतिर्विट्प्रभक्षिका
येषां पुत्राश्च पौत्रा वा हरिं न शरणं गताः ॥४०॥
यो देवो नाममात्रेण सर्वान्पावयितुं क्षमः
तं नमस्कुरुत क्षिप्रं मदीयाः प्रकृतिव्रजाः ॥४१॥
इति वाक्यं मनोहारि भगवद्गुणगुंफितम्
प्रजहर्ष महामात्य उत्तमः सत्यनामधृक् ॥४२॥
हस्तिनं वरमारोप्य पटहेन व्यघोषयत्
यदादिष्टं नृपेणेह तीर्थयात्रां समिच्छता ॥४३॥
गच्छंतु त्वरिता लोका राज्ञा सह महागिरिम्
दृश्यतां पापसंहारी पुरुषोत्तमनामधृक् ॥४४॥
क्रियतां सर्वसंसारसागरो गोष्पदं पुनः
भूष्यतां शंखचक्रादिचिह्नैः स्वस्व तनुर्नरैः ॥४५॥
इत्यादिघोषयामास राज्ञादिष्टं यदद्भुतम्
सचिवो रघुनाथांघ्रि ध्याननिर्वारितश्रमः ॥४६॥
तच्छ्रुत्वा ताः प्रजाः सर्वा आनंदरससंप्लुताः
मनो दधुः स्वनिस्तारे पुरुषोत्तमदर्शनात् ॥४७॥
निर्ययुर्ब्राह्मणास्तत्र शिष्यैः सह सुवेषिणः
आशिषं वरदानाढ्यां ददतो भूमिपं प्रति ॥४८॥
क्षत्त्रिया धन्विनो वीरा वैश्या वस्तुक्रयाञ्चिताः
शूद्राः संसारनिस्तारहर्षित स्वीयविग्रहाः ॥४९॥
रजकाश्चर्मकाः क्षौद्राः किराता भित्तिकारकाः
सूचीवृत्त्या च जीवंतस्तांबूलक्रयकारकाः ॥५०॥
तालवाद्यधरा ये च ये च रंगोपजीविनः
तैलविक्रयिणश्चैव वस्त्रविक्रयिणस्तथा ॥५१॥
सूता वदंतः पौराणीं वार्तां हर्षसमन्विताः
मागधा बंदिनस्तत्र निर्गता भूमिपाज्ञया ॥५२॥
भिषग्वृत्त्या च जीवंतस्तथा पाशककोविदाः
पाकस्वादुरसाभिज्ञा हास्यवाक्यानुरंजकाः ॥५३॥
ऐंद्रजालिकविद्याध्रास्तथा वार्तासुकोविदाः
प्रशंसंतो महाराजं निर्ययुः पुरमध्यतः ॥५४॥
राजापि तत्र निर्वर्त्य प्रातःसंध्यादिकाः क्रियाः
ब्राह्मणं तापसश्रेष्ठमानिनाय सुनिर्मलम् ॥५५॥
तदाज्ञया महाराजो निर्जगाम पुराद्बहिः
लोकैरनुगतो राजा बभौ चंद्र इवोडुभिः ॥५६॥
क्रोशमात्रं स गत्वाथ क्षौरं कृत्वा विधानतः
दंडं कमंडलुं बिभ्रन्मृगचर्म तथा शुभम् ॥५७॥
शुभवेषेण संयुक्तो हरिध्यानपरायणः
कामक्रोधादिरहितं मनो बिभ्रन्महायशाः ॥५८॥
तदा दुंदुभयो भेर्य आनकाः पणवास्तथा
शंखवीणादिकाश्चैवाध्मातास्तद्वादकैर्मुहुः ॥५९॥
जय देवेश दुःखघ्न पुरुषोत्तमसंज्ञित
दर्शयस्व तनुं मह्यं वदंतो निर्ययुर्जनाः ॥६०॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
रत्नग्रीवस्य तीर्थप्रयाणंनामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP