संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ८४

पातालखण्डः - अध्यायः ८४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ऋषय ऊचुः -
सूतसूत महाभाग रोमहर्षणनंदन
कथा रम्या त्वया प्रोक्ता लोकस्यानंददायिनी ॥१॥
श्रीकृष्णस्य महाभाग चरितं महदद्भुतम्
श्रुतं सर्वं त्वया प्रोक्तं निर्वृतिस्तेन चाभवत् ॥२॥
अहो श्रीकृष्णमाहात्म्यं भक्तानां गतिदायकम्
यतस्तेन महाभाग निर्वृतिं को न चाप्नुयात् ॥३॥
अतः पुनरपि श्रीमत्कृष्णस्य चरितं महत्
श्रोतुमिच्छामहे चान्यद्व्रतदानार्हणादिकम् ॥४॥
स्नानं वापि महाभाग यथा येन कृतं पुरा
तत्सर्वं विस्तराद्ब्रूहि यथा नो निर्वृतिर्भवेत् ॥५॥
सूत उवाच-
साधु पृष्टं द्विजश्रेष्ठा लोकानां तारणं परम्
यूयं कृतार्थाः कृष्णस्य भक्त्या संपूर्णमानसाः ॥६॥
श्रीकृष्णचरितं पुण्यं साधूनां हर्षदं परम्
प्रवक्ष्यामि द्विजश्रेष्ठा महदाख्यानमुत्तमम् ॥७॥
एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः
मथुरायामंबरीषं कृष्णाराधनतत्परम् ॥८॥
महाभागं व्रतपरं ददर्श मुनिसत्तमः
स आगतं मुनिवरं सत्कृत्य मुनिसत्तमः ॥९॥
भवंत इव पप्रच्छ श्रद्धया हृष्टमानसः
अंबरीष उवाच-
यन्मुने परमं ब्रह्म वेदवादिभिरुच्यते ॥१०॥
स देवः पुंडरीकाक्षः स्वयं नारायणः परः
योऽमूर्तो मूर्तिमानीशो व्यक्तोऽव्यक्तः सनातनः ॥११॥
सर्वभूतमयोऽचिंत्यो ध्यातव्यः स कथं हरिः
यस्मिन्सर्वमिदं विश्वमोतं प्रोतं प्रतिष्ठितम् ॥१२॥
अव्यक्तमेकं परमं परमात्मेति विश्रुतम्
यतो जन्मादि जगतो यो निर्माय स्वयं भुवम् ॥१३॥
ददौ तस्मै च निगमानात्मन्येव व्यवस्थितान्
कथमाराध्यते सोऽयं समग्रपुरुषार्थदः ॥१४॥
योगिनामपि दुर्गम्यस्तदेतत्कृपया वद
अनाराधित गोविंदा न विदंति हितोदयम् ॥१५॥
न तपो यज्ञदानानां लभते फलमुत्तमम्
अनास्वादितगोविंदपदांबुजरसश्च यः ॥१६॥
मनोरथपथातीतं स्फीतं नाकलयेत्फलम्
हरेराराधनं हित्वा दुरितौघ निवारणम् ॥१७॥
नान्यत्पश्यामि जंतूनां प्रायश्चित्तं परं मुने
यद्भ्रूनर्तनवर्तिन्यः श्रूयंते सिद्धयोऽखिलाः ॥१८॥
कथमाराध्यतेसोऽयं केशवः क्लेशनाशनः
उपास्यते स भगवान्कथं नारायणो नरैः ॥१९॥
प्रीतश्च सर्वमेतन्मे हिताय जगतो वद
भक्तिप्रियोऽसौ भगवान्कया भक्त्या प्रसीदति ॥२०॥
कथं तस्मिन्भवेद्भक्तिः सर्वैराराध्यते कथम्
वैष्णवोसि हरेस्तस्य प्रियोऽसि परमार्थवित् ॥२१॥
तेन त्वामेव पृच्छामि ब्रह्मन्ब्रह्मविदुत्तम
श्रोतारमथ वक्तारं प्रष्टारं पुरुषं हरेः ॥२२॥
प्रश्नः पुनाति कृष्णस्य तदंघ्रिसलिलं यथा
दुर्ल्लभो मानुषो देहो देहिनां क्षणभंगुरः ॥२३॥
तत्रापि दुर्ल्लभं मन्ये वैकुंठप्रियदर्शनम्
संसारेस्मिन्क्षणार्धोऽपि सत्संगः शेवधिर्नृणाम् ॥२४॥
यस्मादवाप्यते सर्वं पुरुषार्थचतुष्टयम्
भगवन्भवतो यात्रा स्वस्तये सर्वदेहिनाम् ॥२५॥
बालानां तु यथा पित्रोरुत्तमश्लोकवर्त्मनाम्
भूतानां देवचरितं दुःखाय च सुखाय च ॥२६॥
सुखायैव हि साधूनां त्वादृशामच्युतात्मनाम्
भजंति ये यथा देवान्देवा अपि तथैव तान् ॥२७॥
छायेव कर्मसचिवाः साधवो दीनवत्सलाः
तस्मात्त्वं भगवन्मह्यं वैष्णवं धर्ममादिश ॥२८॥
यस्योपदेशदानेन लभते वेदजं फलम्
नारद उवाच-
साधु पृष्टं महीपाल विष्णुभक्तिमता त्वया ॥२९॥
जानता परमं धर्ममेकं माधवसेवनम्
यस्मिन्नाराधिते विष्णौ विश्वमाराधितं भवेत् ॥३०॥
तुष्टे चराचरं तुष्टं सर्वदेवमये हरौ
यस्य स्मरणमात्रेण महापातकसंहतिः ॥३१॥
तत्क्षणान्नाशमायाति स सेव्यो हरिरेव हि
कोऽनु राजन्निंद्रियवान्मुकुंदचरणांबुजम् ॥३२॥
न भजेत्सर्वतो मृत्युरुपास्यमृषिदैवतैः
श्रुतोऽनु पठितो ध्यात आदृतश्चानुमोदितः ॥३३॥
सद्यः पुनाति सद्धर्मो वीरो विश्वद्रुहोऽपि हि
योयं कारणकार्यादि कारणस्यापि कारणम् ॥३४॥
अनन्यकारणं योगी जगज्जीवो जगन्मयः
अणुर्बृहत्कृशः स्थूलो निर्गुणो गुणभृन्महान् ॥३५॥
अजो जन्मलयातीतो ध्यातव्यः स हरिः सदा
सम्यगेतद्व्यवसितं भवता पुरुषर्षभ ॥३६॥
यत्पृच्छसे भागवतान्धर्मांस्त्वं विश्वभावनान्
प्रसंगेन सतामात्ममनः श्रुति रसायनाः ॥३७॥
भवंति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः
भावसाध्योह्ययं देवः स्वयं जानाति तद्भवान् ॥३८॥
तथापि वक्ष्ये जगतो हिताय तव गौरवात्
यदाहुः परमं ब्रह्म प्रधानपुरुषात्परम् ॥३९॥
यन्मायया ततं सर्वं सर्वं यच्छति सोऽच्युतः
पुत्रान्कलत्रं दीर्घायू राज्यं स्वर्गापवर्गकम् ॥४०॥
स दद्यादीप्सितं सर्वं भक्त्या संपूजितोऽजितः
कर्मणा मनसा वाचा तत्परा ये हि मानवाः ॥४१॥
तेषां व्रतानि वक्ष्यामि प्रीतये भूपसत्तम
अहिंसासत्यमस्तेयं ब्रह्मचर्यमकल्पता ॥४२॥
एतानि मानसान्याहुर्व्रतानि हरितुष्टये
एकभक्तं तथा नक्तमुपवासमयाचितम् ॥४३॥
इत्येवं कायिकं पुंसां व्रतमुक्तं नरेश्वर
वेदस्याध्ययनं विष्णोः कीर्तनं सत्यभाषणम् ॥४४॥
अपैशुन्यमिदं राजन्वाचिकं व्रतमुत्तमम्
चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् ॥४५॥
नाशौचं कीर्तने तस्य स पवित्रकरो यतः
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ॥४६॥
विष्णुराराध्यते पंथा नान्यः संतोषकारणम्
पतिप्रियहिताभिश्च मनोवाक्कायसंयमैः ॥४७॥
व्रतैराराध्यते स्त्रीभिर्वासुदेवो दयानिधिः
आगमोक्तेन मार्गेण स्त्रीशूद्रैरपिपूजनम् ॥४८॥
कर्तव्यं कृष्णचंद्रस्य द्विजातिवररूपिणः
त्रयोवर्णास्तु वेदोक्तमार्गाराधनतत्पराः ॥४९॥
स्त्रीशूद्रादय एव स्युर्नाम्नाऽराधनतत्पराः
न पूजनैर्न यजनैर्न व्रतैरपि माधवः ॥५०॥
तुष्यते केवलं भक्तिप्रियोऽसौ समुदाहृतः
स्त्रीणां पतिव्रतानां तु पतिरेव हि दैवतम् ॥५१॥
स तु पूज्यो विष्णुभक्त्या मनोवाक्कायकर्मभिः
कर्तव्यं श्रद्धया विष्णोश्चिंतयित्वा पतिं हृदि ॥५२॥
शूद्राणां चैव भवति नाम्ना वै देवतार्चनम्
सर्वेऽप्यागममार्गेण कुर्युर्वेदानुकारिणा ॥५३॥
स्त्रीणामप्यधिकारोऽस्ति विष्णोराराधनादिषु
पतिप्रियरतानां च श्रुतिरेषा सनातनी ॥५४॥
स्वकुलोचितधर्मेण यद्यस्य विहितं व्रतम्
तत्तदेवाचरेद्यस्तु तेन तुष्यति केशवः ॥५५॥
हविषाग्नौ जले पुष्पैर्ध्यानेन हृदये हरिम्
यजंति सूरयो नित्यं जपेन रविमंडले ॥५६॥
अहिंसा प्रथमं पुष्पं द्वितीयं करणग्रहः
तृतीयकं भूतदया चतुर्थं क्षांतिरेव च ॥५७॥
शमस्तु पंचमं पुष्पं दमः षष्ठं च सप्तमम्
ध्यानं सत्यं चाष्टमं च ह्येतैस्तुष्यति केशवः ॥५८॥
एतैरेवाष्टभिः पुष्पैस्तुष्यत्येवार्चितो हरिः
पुष्पांतराणि संत्येव बाह्यानि मनुजोत्तम ॥५९॥
भक्त्या कृतानि यैर्विष्णुः पूजितः परितुष्यति
वारुणं सलिलं पुष्पं सौम्यं घृतपयोदधि ॥६०॥
प्राजापत्यं तथान्नादि आग्नेयं धूपदीपकम्
फलपुष्पादिकं चैव वानस्पत्यं तु पंचमम् ॥६१॥
पार्थिवं कुशमूलाद्यं वायव्यं गंधचंदनम्
श्रद्धाख्यं विष्णुपुष्पं च वाद्यं विष्णुपदं स्मृतम् ॥६२॥
एभिस्तुपूजितः पुष्पैरपि विष्णुः प्रसीदति
सूर्योऽग्निर्ब्राह्मणोगावो वैष्णवः खं मरुज्जलम् ॥६३॥
भूरात्मा सर्वभूतानि पूजास्थानानि वा हरेः
सूर्य्ये तु मंत्रजाप्येन हविषाग्नौ यजेत्ततः ॥६४॥
आतिथ्येन तु विप्राग्र्ये गोषु ग्रासरसादिना
वैष्णवे बंधुसत्कृत्या हृदये ध्याननिष्ठया ॥६५॥
वायौ मुख्यधिया तोये द्रव्यैस्तोयपुरस्कृतैः
स्थंडिले मंत्रहृदयैर्भोगैरात्मानमात्मनि ॥६६॥
क्षेत्रज्ञं सर्वभूतेषु समत्वेनार्चयेद्विभुम्
धिष्ण्येष्वेतेषु तद्रूपं शंखचक्रगदांबुजैः ॥६७॥
युक्तं चतुर्भुजं शांतं ध्यायन्नर्च्चेत्समाहितः
ब्राह्मणैः पूजितैरेव पूजितोऽयं न संशयः ॥६८॥
निर्भर्त्सितैश्च तैर्भूप भवेन्निर्भर्त्सितो विभुः
निगमो धर्मशास्त्रं च यदाधारे प्रवर्तते ॥६९॥
विप्रास्ते वैष्णवीमूर्तिः पावनी परमा मता ॥७०॥
सर्वं शुभं जगति धर्मत एव लभ्यं धर्मो गतिर्निगमतो नृपधर्मशास्त्रात्
नूनं तयोरपि गतिर्भुवि भूमिदेवास्तैरर्चितैरिह जगत्पतिरर्चितः स्यात् ॥७१॥
न यज्ञयोगैर्न तपोभिरन्यैर्न योगयुक्त्या न समर्चनेन
तथा विभुस्तुष्यति देवदेवो यथा मही दैवततोषणेन ॥७२॥
ब्रह्मण्यो ब्रह्मविद्ब्रह्मा ब्रह्मवेदप्रवर्तकः
ब्राह्मणैरेव तुष्येत तोषितं ब्रह्मदैवतम् ॥७३॥
नरकेऽपि चिरं मग्नाः पूर्वजा ये कुलद्वये
तदैव यांति ते स्वर्गं यदार्च्चति सुतो हरिम् ॥७४॥
किं तेषां जीवितेनेह पशुवच्चेष्टितेन किम्
येषां न प्रवणं चित्तं वासुदेवे जगन्मये ॥७५॥
ध्यानं तस्य प्रवक्ष्यामि यन्न दृष्टं तु केनचित्
श्रूयतां भूपकैवल्यं केवलं मलवर्जितम् ॥७६॥
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः
प्रज्वलन्नाशयेत्सर्वमंधकारं महामते ॥७७॥
तद्वद्दोषविहीनात्मा भवत्येव निरामयः
निराशो निश्चलो वीरोनमित्रं न रिपुस्तथा ॥७८॥
शोकहर्षौ विषादश्च न लोभो मत्सरो भ्रमः
संभ्रमालापमोहैश्च सुखदुःखैर्विमुच्यते ॥७९॥
विषयैश्चापि सर्वैश्च इंद्रियाणां प्रमुच्यते
तदा स केवलज्ञानी कैवल्यत्वं प्रजायते ॥८०॥
ज्वालाकर्मप्रसंगेन दीपस्तैलं प्रशोषयेत्
वर्त्याधारेण राजेंद्र निर्द्वन्द्वो वायुवर्जितः ॥८१॥
कज्जलं वमते पश्चात्तैलस्यापि महामते
कृष्णा संदृश्यते रेखा दीपस्याग्रे महामते ॥८२॥
स्वयमाकृष्य तत्तैलं तेजसा निर्मलोभवेत्
काये चांतः स्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ॥८३॥
विषयान्कज्जलं कृत्वा प्रत्यक्षान्संप्रदर्शयेत्
ज्वालावन्निर्मलो भूत्वा स्वयमेव प्रकाशयेत् ॥८४॥
क्रोधलोभादिभिः संज्ञैर्वायुभिः परिवर्जितः
निःस्पृहो निश्चलो भूत्वा तेजश्च स्वयमुज्ज्वलेत् ॥८५॥
त्रैलोक्यं पश्यते सर्वं स्वस्थानस्थं स्वतेजसा
केवलज्ञानरूपोऽयं मया ते परिकीर्तितः ॥८६॥
ध्यानं चैव प्रवक्ष्यामि द्विविधं तस्य चक्रिणः
केवलज्ञानरूपेण दृश्यते परचक्षुषा ॥८७॥
योगयुक्ता महात्मानः परमार्थपरायणाः
यं न पश्यंति मुग्धास्तु सर्वज्ञं सर्वदर्शकम् ॥८८॥
हस्तपादविहीनश्च सर्वत्र परिगच्छति
सर्वं गृह्णाति त्रैलोक्यं स्थावरं जंगमं पुनः ॥८९॥
नासामुखविहीनस्तु घ्राति भक्षति भूपते
अकर्णः शृणुते सर्वं सर्वसाक्षी जगत्पतिः ॥९०॥
अरूपो रूपसंबद्धः पंचवर्गवशं गतः
सर्वलोकस्य यः प्राणः पूज्यते सचराचरैः ॥९१॥
अजिह्वो वदते सर्वं वेदशास्त्रानुगं तथा
अत्वचः स्पर्शमेवापि सर्वेषामेव विंदति ॥९२॥
सदानंदो विविक्ताक्ष एकरूपो निराश्रयः
निर्गुणो निर्ममो व्यापी सगुणो निर्मलोऽनघः ॥९३॥
अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः
तस्य माता न चैवास्ति स वै सर्वमयो विभुः ॥९४॥
एवं सर्वमयं ध्यानं यश्च पश्यत्यनन्यधीः
स याति परमं स्थानममूर्त्तममृतोपमम् ॥९५॥
द्वितीयं तु प्रवक्ष्यामि तच्छृणुष्व महामते
मूर्त्ताकारं तु साकारं निराकारं निरामयम् ॥९६॥
ब्रह्मांडं सर्वमतुलं वासितं यस्य वासनात्
स तस्माद्वासुदेवस्तु प्रोच्यते नृपनंदन ॥९७॥
वर्षमाणस्य मेघस्य यद्भासा तस्य तद्भवेत्
सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ॥९८॥
दक्षिणे शोभते शंखो हेमरत्नविभूषितः
कौमोदकी गदा तस्य महासुरविनाशिनी ॥९९॥
वामे च शोभते वीर हस्ते तस्य महात्मनः
महापद्मं सुगंधाढ्यं तस्य दक्षिणहस्तगम् ॥१००॥
शोभमानं सदैवास्ते सायुधं कमलश्रियम्
कंबुग्रीवं सुवृत्तास्यं पद्मपत्रनिभेक्षणम् ॥१०१॥
राजमानं हृषीकेशं दशनैः कुंदसंनिभैः
गुडाकेशस्य यस्यास्ते अधरो विद्रुमाकृतिः ॥१०२॥
शोभते पुंडरीकाक्षः किरीटेनापि भास्वता
विशालेनापि रूपेण केशवस्तु सुवक्षसा ॥१०३॥
कौस्तुभेनांकितेनैव राजमानो जनार्दनः
सूर्यतेजःप्रतीकाश कुंडलाभ्यां प्रभाति च ॥१०४॥
हरिः केयूरकंकणैर्हारैर्मौक्तिकैर्ऋक्षसन्निभैः ॥१०५॥
वपुषा भ्राजमानस्तु विजयो जयतां वरः
भ्राजतेसोऽपि गोविंदो हेमवर्णेन वाससा ॥१०६॥
मुद्रिकाभिस्तु युक्ताभिरंगुलीषु विराजते
सर्वायुधैः सुसंपूर्णैर्द्दिव्यैराभरणैर्हरिः ॥१०७॥
वैनतेयसमारूढो लोककर्त्ता जगत्पतिः
एवं यो ध्यायते नित्यमनन्यमनसा नरः ॥१०८॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
एतत्ते सर्वमाख्यातं ध्यानभेदं जगत्पतेः ॥१०९॥
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमासमाहात्म्ये
भगवद्ध्य्नावर्णनं नाम चतुरशीतितमोऽध्यायः ॥८४॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP