पातालखण्डः - अध्यायः ४९
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
मासाः सप्ताभवंस्तस्य हयवर्यस्य हेलया
चरतो भारतं वर्षमनेकनृपपूरितम् ॥१॥
स पूजितो भूपवरैः परीत्य वरभारतम्
परीवृतो वीरवरैः शत्रुघ्नादिभिरुद्भटैः ॥२॥
स बभ्राम बहून्देशान्हिमालयसमीपतः
न कोपि तं निजग्राह हयं रामबलं स्मरन् ॥३॥
अंगवंगकलिंगानां राजभिः संस्तुतो हयः
जगाम राज्ञो नगरे सुरथस्य मनोहरे ॥४॥
कुंडलं नाम नगरमदितेर्यत्र कुंडलम्
कर्णयोः पतितं भूमौ हर्षभयसुकंपयोः ॥५॥
यत्र धर्मव्यतिक्रांतिं न करोति कदापिना
श्रीरामस्मरणं प्रेम्णा करोति जनतान्वहम् ॥६॥
अश्वत्थानां तु यत्रार्चा तुलस्याः प्रत्यहं नृभिः
क्रियते रघुनाथस्य सेवकैः पापवर्जितैः ॥७॥
यत्र देवालया रम्या राघवप्रतिमायुताः
पूज्यंते प्रत्यहं शुद्धचित्तैः कपटवर्जितैः ॥८॥
वाचि नाम हरेर्यत्र न वै कलहसंकथा
हृदि ध्यानं तु तस्यैव न च कामफलस्मृतिः ॥९॥
देवनं यत्र रामस्य वार्त्ताभिः पूतदेहिनाम्
न जातुचिन्नृणामस्ति सत्यव्यसनमानिनाम् ॥१०॥
तस्मिन्वसति धर्मात्मा सुरथः सत्यवान्बली
रघुनाथपदस्मारहृष्टचित्तः परोन्मदः ॥११॥
किं वर्णयामि रामस्य सेवकं सुरथं वरम्
यस्याशेषगुणा भूमौ विस्तृताः पावयंत्यघम् ॥१२॥
सेवकास्तस्य भूपस्य पर्यटंतः कदाचन
अपश्यन्हयमेधस्य हयं चंदनचर्चितम् ॥१३॥
ते दृष्ट्वा विस्मयं प्राप्ता हयपत्रमलोकयन्
स्पष्टाक्षरसमायुक्तं चंदनादिकचर्चितम् ॥१४॥
ज्ञात्वा रामेण संमुक्तं हयं नेत्रमनोहरम्
हृष्टा राज्ञे सभास्थाय कथयामासुरुत्सुकाः ॥१५॥
स्वामिन्नयोध्यानगरीपतिस्तस्यास्तु राघवः
हयमेधक्रतोर्योग्यो हयो मुक्तः परिभ्रमन् ॥१६॥
स ते पुरस्य निकटे प्राप्तः सेवकसंयुतः
गृहाण त्वं महाराज हयं तं सुमनोहरम् ॥१७॥
शेष उवाच
इति श्रुत्वा निजप्रोक्तं वाक्यं हर्षपरिप्लुतः
उवाच वीरान्बलिनो मेघगंभीरया गिरा ॥१८॥
सुरथ उवाच
धन्या वयं राममुखं पश्यामः सह सेवकाः
ग्रहीष्यामि हयं तस्य भटकोटिपरीवृतम् ॥१९॥
तदा मोक्ष्यामि वाहं तं यदा रामः समाव्रजेत्
कृतार्थं मम भक्तस्य चिरं ध्यानरतस्य वै ॥२०॥
शेष उवाच
इत्थमुक्त्वा महीपालः सेवकान्स्वयमादिशत्
गृह्णंतु वाहं प्रसभं मोच्यो नाश्वोऽक्षिगोचरः ॥२१॥
अनेन सुमहाँल्लाभो भविष्यति तु मे मतम्
यद्रामचरणौ प्रेक्षे ब्रह्मशक्रादिदुर्ल्लभौ ॥२२॥
स एव धन्यः स्वजनः पुत्रो वा बांधवोऽथवा
पशुर्वा वाहनं वापि रामाप्तिर्येन संभवेत् ॥२३॥
तस्माद्गृहीत्वा क्रत्वश्वं स्वर्णपत्रेण शोभितम्
बध्नंतु वाजिशालायां कामवेगं मनोरमम् ॥२४॥
इत्युक्तास्ते ततो गत्वा वाहं रामस्य शोभितम्
गृहीत्वा तरसा राज्ञे ददुः सर्वं शुभांगिनम् ॥२५॥
राजा प्राप्य मुदा चाश्वं रामस्य दनुजार्दनः
सेवकान्प्राह बलिनो धर्मकृत्यविचक्षणः ॥२६॥
वात्स्यायन महाबुद्धे शृणुष्वैकाग्रमानसः
न तस्य विषये कश्चित्परदाररतो नरः ॥२७॥
न परद्रव्यनिरतो न च कामेषु लंपटः
न जिह्वाभिरतोन्मार्गे कीर्त्तयेद्रामकीर्तनात् ॥२८॥
यः सेवकान्नृपो वक्ति यूयं सेवार्थमागताः
कथयंतु भवच्चेष्टां धर्मकर्मविशारदाः ॥२९॥
एकपत्नीव्रतधरा न परद्रव्यलोलुपाः
परापवादानिरता न च वेदोत्पथं गताः ॥३०॥
श्रीरामस्मरणादीनि कुर्वंति प्रत्यहं भटाः
तानहं रामसेवार्थं रक्षाम्यंतक कोपवान् ॥३१॥
एतद्विरुद्धधर्माणो ये नराः पापसंयुताः
तानहं विषये मह्यं वासयामि न दुर्मतीन् ॥३२॥
तस्य देशे न पापिष्ठाः पापं कुर्वंति मानसे
हरिध्यानहताशेष पातकामोदसंयुताः ॥३३॥
यदैवमभवद्देशो राजा धर्मेण संयुतः
तदा तत्स्था नराः सर्वे मृता गच्छंति निर्वृतिम् ॥३४॥
यमानुचरनिर्वेशो नाभवत्सौरथे पुरे
तदा यमो मुनेरूपं धृत्वा प्रागान्महीश्वरम् ॥३५॥
वल्कलांबरधारी च जटाशोभितशीर्षकः
सुरथं तु सभामध्ये ददर्श हरिसेवकम् ॥३६॥
तुलसीमस्तके यस्य वाचि नाम हरेः परम्
धर्मकर्मरतां वार्त्तां श्रावयंतं निजाञ्जनान् ॥३७॥
तदा मुनिं नृपो दृष्ट्वा तपोमूर्तिमिव स्थितम्
ववंदे चरणौ तस्य पाद्यादिकमथाकरोत् ॥३८॥
सुखोपविष्टं विश्रांतं मुनिं प्राह नृपाग्रणीः
धन्यमद्य जनुर्मह्यं धन्यमद्य गृहं मम ॥३९॥
कथाः कथयतान्मह्यं रामस्य विविधा वराः
याः शृण्वतां पापहानिर्भविष्यति पदे पदे ॥४०॥
इत्थमुक्तं समाकर्ण्य जहास स मुनिर्भृशम्
दंतान्प्रदर्शयन्सर्वांस्तालास्फालितपाणिकः ॥४१॥
हसंतं तं मुनिं प्राह हसने कारणं किमु
कथयस्व प्रसादेन यथा स्यान्मनसः सुखम् ॥४२॥
ततो मुनिर्नृपं प्राह शृणु राजन्धियायुतः
यदहं तेऽभिधास्यामि स्मिते कारणमुत्तमम् ॥४३॥
त्वया प्रोक्तं हरेः कीर्तिं कथयस्व ममाग्रतः
को हरिः कस्य वा कीर्तिः सर्वे कर्मवशा नराः ॥४४॥
कर्मणा प्राप्यते स्वर्गः कर्मणा नरकं व्रजेत्
कर्मणैव भवेत्सर्वं पुत्रपौत्रादिकं बहु ॥४५॥
शक्रः शतं क्रतूनां तु कृत्वागात्परमं पदम्
ब्रह्मापि कर्मणा लोकं प्राप्य सत्याख्यमद्भुतम् ॥४६॥
अनेके कर्मणा सिद्धा मरुदादय ईशिनः
कुर्वन्ति भोगसौख्यं च अप्सरोगणसेविताः ॥४७॥
तस्मात्कुरुष्व यज्ञादीन्यजस्व किल देवताः
यथा ते विमलाकीर्तिर्भविष्यति महीतले ॥४८॥
इति श्रुत्वा तु तद्वाक्यं कोपक्षुभितमानसः
उवाच रामैकमना विप्रं कर्मविशारदम् ॥४९॥
मा ब्रूहि कर्मणो वार्तां क्षयिष्णुफलदायिनीम्
गच्छ मन्नगरोपांताद्बहिर्लोकविगर्हितः ॥५०॥
इंद्रः पतिष्यति क्षिप्रं पतिष्यत्यपि पद्मजः
न पतिष्यंति मनुजा रामस्य भजनोत्सुकाः ॥५१॥
पश्य ध्रुवं च प्रह्लादं बिभीषणमथाद्भुतम्
ये चान्ये रामभक्ता वै कदापि न पतंति ते ॥५२॥
ये रामनिंदका दुष्टास्तानि मे यमकिंकराः
ताडयिष्यंति लोहस्य मुद्गरैः पाशबन्धनैः ॥५३॥
ब्राह्मणत्वाद्देहदंडं न कुर्यां ते द्विजाधम
गच्छ गच्छ मदालोकात्ताडयिष्यामि चान्यथा ॥५४॥
इत्थमुक्तवति श्रेष्ठे भूपे सुरथसंज्ञिते
सेवका बाहुना धृत्वा निष्कासयितुमुद्यताः ॥५५॥
तदा यमो निजं रूपं धृत्वा लोकैकवंदितम्
प्राह भूपं प्रतुष्टोऽस्मि याचस्व हरिसेवक ॥५६॥
मया प्रलोभितो वाग्भिर्बह्वीभिरपि सुव्रत
चलितोसि न रामस्य सेवायाः साधुसेवितः ॥५७॥
तदा प्रोवाच भूमीशो यमं दृष्ट्वा सुतोषितम्
उवाच यदि तुष्टोसि देहि मे वरमुत्तमम् ॥५८॥
तावन्मम न वै मृत्युर्यावद्रामसमागमः
न भयं मे भवत्तो हि कदाचन हि धर्मराट् ॥५९॥
तदोवाच यमो भूपमिदं तव भविष्यति
सर्वं त्वदीप्सितं तथ्यं करिष्यति रघोःपतिः ॥६०॥
इत्युक्त्वांतर्हितो धर्मो जगाम स्वपुरं प्रति
प्रशस्य तस्य चरितं हरिभक्तिपरात्मनः ॥६१॥
स राजा धार्मिको रामसेवकः परया मुदा
गृहीत्वाश्वं प्रत्युवाच सेवकान्हरिसेवकान् ॥६२॥
मया गृहीतो वाहोऽसौ राघवस्य महीपतेः
सज्जी भवंतु सर्वत्र यूयं रणविशारदाः ॥६३॥
इति प्रोक्तास्तु ते सर्वे भटा राज्ञो महाबलाः
सज्जीभूताः क्षणादेव सभायां जग्मुरुत्सुकाः ॥६४॥
राज्ञो वीरा दशसुताश्चंपको मोहकस्तथा
रिपुंजयोऽतिदुर्वारः प्रतापीबलमोदकः ॥६५॥
हर्यक्षः सहदेवश्च भूरिदेवः सुतापनः
इति राज्ञो दश सुताः सज्जीभूता रणांगणे ॥६६॥
यातुमिच्छामकुर्वंस्ते महोत्साहसमन्विताः
राजापि स्वरथं चित्रं हेमशोभाविनिर्मितम् ॥६७॥
आह्वयामास सुजवैर्वाजिभिः समलंकृतम्
रणोत्साहेन संयुक्तः सर्वसैन्यपरीवृतः ॥६८॥
सभायां सेवकान्सर्वान्दिशन्नास्ते महीपतिः ॥६९॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथ-
राज्ञा हयग्रहणंनाम एकोनपंचाशत्तमोऽध्यायः ॥४९॥
N/A
References : N/A
Last Updated : November 05, 2020
![Top](/portal/service/themes/silver/images/up.gif)
TOP