पातालखण्डः - अध्यायः ६२
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शेष उवाच
मूर्च्छितं मारुतिं श्रुत्वा शत्रुघ्नः शोकमाययौ
किंकर्तव्यं मया संख्ये बालकोऽयं महाबलः ॥१॥
स्वयं रथे हेममये तिष्ठन्वीरवरैः सह
योद्धुं प्रागाल्लवो यत्र विचित्ररणकोविदः ॥२॥
लवं ददर्श शिशुतां प्राप्तं राममिव क्षितौ
धनुर्बाणकरं वीरान्क्षिपंतं रणमूर्धनि ॥३॥
विचारयामास तदा कोऽयं रामस्वरूपधृक्
नीलोत्पलदलश्यामं वपुर्बिभ्रन्मनोहरम् ॥४॥
एष वै देहतनुजा सुतो भवति नान्यथा
अस्मान्विजित्य समरे यास्यते मृगराडिव ॥५॥
अस्माकं नो जयो भाव्यः शक्त्या विरहितात्मनाम्
अशक्ताः किं करिष्यामः समरे रणकोविदाः ॥६॥
इत्येवं स विचार्याथ बालकं तु वचोऽब्रवीत्
रणे कुतुककर्तारं वीरकोटिनिपातकम् ॥७॥
कस्त्वं बाल रणेऽस्माकं वीरान्पातयसि क्षितौ
न जानीषे बलं राज्ञो रामस्य दनुजार्दिनः ॥८॥
का ते माता पिता कस्ते सुभाग्यो जयमाप्तवान्
नाम किं विश्रुतं लोके जानीयां ते महाबल ॥९॥
मुञ्च वाहः कथं बद्धः शिशुत्वात्तत्क्षमामि ते
आयाहि रामं वीक्षस्व दास्यते बहुलं तव ॥१०॥
इत्युक्तो बालको वीरो वचः शत्रुघ्नमावदत्
किं ते नाम्नाथ पित्रा वा कुलेन वयसा तथा ॥११॥
युध्यस्व समरे वीर चेत्त्वं बलयुतो भवेः
कुशं वीरं नमस्कृत्य पादयोर्याहि नान्यथा ॥१२॥
भ्राता रामस्य वीरो भूर्नावयोर्बलिनां वरः
वाहं विमोचय बलाच्छक्तिस्ते विद्यते यदि ॥१३॥
इत्युक्त्वा शरसंधानं कृत्वा प्राहरदुद्भटः
हृदये मस्तके चैव भुजयो रणमंडले ॥१४॥
तदा प्रकुपितो राजा धनुः सज्यमथाकरोत्
नादयन्मेघगंभीरं त्रासयन्निव बालकम् ॥१५॥
बाणानपरिसंख्यातान्मुमोच बलिनां वरः
बालो बलेन चिच्छेद सर्वांस्तान्सायकव्रजान् ॥१६॥
लवस्यानेकधा मुक्तैर्बाणैर्व्याप्तं महीतलम्
व्यतीपाते प्रदत्तस्य दानस्येवाक्षयं गताः ॥१७॥
ते बाणा व्योमसकलं व्याप्नुवँल्लवसंधिताः
सूर्यमंडलमासाद्य प्रवर्तंते समंततः ॥१८॥
मारुतो नाविशद्यत्र बाणपंजरगोचरे
मनुष्याणां तु का वार्ता क्षणजीवितशंसिनाम् ॥१९॥
तद्बाणान्विस्तृतान्दृष्ट्वा शत्रुघ्नो विस्मयं गतः
अच्छिनच्छतसाहस्रं बाणमोचनकोविदः ॥२०॥
ताञ्छिन्नान्सायकान्सर्वान्स्वीयान्दृष्ट्वा कुशानुजः
धनुश्चिच्छेद तरसा शत्रुघ्नस्य महीपतेः ॥२१॥
सोऽन्यद्धनुरुपादाय यावन्मुंचति सायकान्
तावद्बभंज सरथं सायकैः शितपर्वभिः ॥२२॥
करस्थमच्छिनच्चापं सुदृढं गुणपूरितम्
तत्कर्मापूजयन्वीरा रणमंडलवर्तिनः ॥२३॥
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
अन्यं रथं समास्थाय ययौ योद्धुं लवं बलात् ॥२४॥
अनेकबाणनिर्भिन्नः स्रवद्रक्तकलेवरः
पुष्पितः किंशुक इव शुशुभे रणमध्यगः ॥२५॥
शत्रुघ्नबाणप्रहतः परं कोपमुपागमत्
बाणसंधानचतुरः कुंडलीकृत चापवान् ॥२६॥
विशीर्णकवचं देहं शिरोमुकुटवर्जितम्
स्रवद्रक्तपरिप्लुष्टं शत्रुघ्नस्य चकार सः ॥२७॥
तदा रामानुजः क्रुद्धो दशबाणाञ्छिताग्रकान्
मुमोच प्राणसंहारकारकान्कुपितो भृशम् ॥२८॥
स तांस्तांस्तिलशः कृत्वा बाणैर्निशितपर्वभिः
ताडयामास हृदये शत्रुघ्नस्याष्टभिः शरैः ॥२९॥
अत्यंतं बाणपीडार्तो लवं बलिनमुत्स्मरन्
दुःसहं मन्यमानस्तं शरान्मुंचन्नभूत्तदा ॥३०॥
तदा लवेन तीक्ष्णेन हृदि भिन्नो विशालके
अर्धचंद्रसमानेन तीक्ष्णपर्वसुशोभिना ॥३१॥
स विद्धो हृदि बाणेन पीडां प्राप्तः सुदारुणाम्
पपात स्यंदनोपस्थे धनुःपाणिः सुशोभितः ॥३२॥
शत्रुघ्नं मूर्छितं दृष्ट्वा नृपाश्च सुरथादयः
दुद्रुवुर्लवमुद्युक्ता जयप्राप्त्यै रणे तदा ॥३३॥
सुरथो विमलो वीरो राजा वीरमणिस्तथा
सुमदो रिपुतापाद्याः परिवव्रुश्च संयुगे ॥३४॥
केचित्क्षुरप्रैर्मुसलैः केचिद्बाणैः सुदारुणैः
प्रासैः परशुभिः केचित्सर्वतः प्राहरन्नृपाः ॥३५॥
तानधर्मेण युद्धोत्कान्दृष्ट्वा वीरशिरोमणिः
दशभिर्दशभिर्बाणैस्ताडयामास संयुगे ॥३६॥
ते बाणवर्षविहता रणमध्ये सुकोपनाः
केचित्पलायिताः केचिन्मुमुहुर्युद्धमंडले ॥३७॥
तावत्स राजा शत्रुघ्नो मूर्च्छां संत्यज्य संगरे
लवं प्रायान्महावीरं योद्धुं बलसमन्वितः ॥३८॥
आगत्य तं लवं प्राह धन्योसि शिशुसन्निभः
न बालस्त्वं सुरः कश्चिच्छलितुं मां समागतः ॥३९॥
केनापि नहि वीरेण पातितो रणमंडले
त्वयाहं प्रापितो मूर्च्छां समक्षं मम पश्यतः ॥४०॥
इदानीं पश्य मे वीर्यं त्वां संख्ये पातयाम्यहम्
सहस्व बाणमेकं त्वं मापलायस्व बालक ॥४१॥
इत्युक्त्वा समरे बालं शरमेकं समाददे
यमवक्त्रसमं घोरं लवणो येन घातितः ॥४२॥
संधाय बाणं जाज्वल्यं हृदि भेत्तुं मनो दधत्
लवं वीरसहस्राणां वह्निवत्सर्वदाहकम् ॥४३॥
तं बाणं प्रज्वलंतं स द्योतयंतं दिशो दश
दृष्ट्वा सस्मार बलिनं कुशं वैरिनिपातिनम् ॥४४॥
यद्यस्मिन्समये वीरो भ्राता स्याद्बलवान्मम
तदा शत्रुघ्नवशता न मे स्याद्भयमुल्बणम् ॥४५॥
एवं तर्कयतस्तस्य लवस्य च महात्मनः
हृदि लग्नो महाबाणो घोरः कालानलोपमः ॥४६॥
मूर्च्छां प्राप तदा वीरो भूपसायकसंहतः
संगरे सर्ववीराणां शिरोभिः समलंकृते ॥४७
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
लवमूर्च्छानाम द्विषष्टितमोऽध्यायः ॥६२॥
N/A
References : N/A
Last Updated : November 06, 2020
TOP