संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १६

पातालखण्डः - अध्यायः १६

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुमतिरुवाच
एवं तया क्रीडमानः सर्वत्र धरणीतले
नाबुध्यत गतानब्दाञ्छतसंख्या परीमितान् ॥१॥
ततो ज्ञात्वाथव तद्विप्रः स्वकालपरिवर्तिनीम्
मनोरथैश्च संपूर्णां स्वस्यप्रियतमां वराम् ॥२॥
न्यवर्तताश्रमं श्रेष्ठं पयोष्णीतीरसंस्थितम्
निर्वैरजं तु जनतासंकुलं मृगसेवितम् ॥३॥
तत्रावसत्स सुतपाः शिष्यैर्वेदसमन्वितैः
सेवितांघ्रियुगो नित्यं तताप परमं तपः ॥४॥
कदाचिदथ शर्यातिर्यष्टुमैच्छत देवताः
तदा च्यवनमानेतुं प्रेषयामास सेवकान् ॥५॥
तैराहूतो द्विजवरस्तत्रागच्छन्महातपाः
सुकन्यया धर्मपत्न्या स्वाचार परिनिष्ठया ॥६॥
आगतं तं मुनिवरं पत्न्या पुत्र्या महायशाः
ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥७॥
राजा दुहितरं प्राह कृतपादाभिवंदनाम्
आशिषो न प्रयुंजानो नातिप्रीतमना इव ॥८॥
चिकीर्षितं ते किमिदं पतिस्त्वया
प्रलंभितो लोकनमस्कृतो मुनिः
त्वया जराग्रस्तमसंमतं पतिं
विहाय जारं भजसेऽमुमध्वगम् ॥९॥
कथं मतिस्तेऽवगतान्यथासतां कुलप्रसूतेः कुलदूषणं त्विदम्
बिभर्षि जारं यदपत्रपाकुलं पितुः स्वभर्तुश्च नयस्यधस्तमाम् ॥१०॥
एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता
उवाच तात जामाता तवैष भृगुनंदनः ॥११॥
शशंस पित्रे तत्सर्वं वयोरूपाभिलंभनम्
विस्मितः परमप्रीतस्तनयां परिषस्वजे ॥१२॥
सोमेनायाजयद्वीरं ग्रहं सोमस्य चाग्रहीत्
असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा ॥१३॥
ग्रहं तु ग्राहयामास तपोबलसमन्वितः
वज्रं गृहीत्वा शक्रस्तु हंतुं ब्राह्मणसत्तमम् ॥१४॥
अपंक्तिपावनौ देवौ कुर्वाणं पंक्तिगोचरौ
शक्रं वज्रधरं दृष्ट्वा मुनिः स्वहननोद्यतम् ॥१५॥
हुंकारमकरोद्धीमान्स्तंभयामास तद्भुजम्
इंद्रः स्तब्धभुजस्तत्र दृष्टः सर्वैश्च मानवैः ॥१६॥
कोपेन श्वसमानोऽहिर्यथा मंत्रनियंत्रितः
तुष्टाव स मुनिं शक्रः स्तब्धबाहुस्तपोनिधिम् ॥१७॥
अश्विभ्यां भागदानं च कुर्वंतं निर्भयांतरम्
कथयामास भोः स्वामिन्दीयतामश्विनोर्बलि ॥१८॥
मया न वार्यते तात क्षमस्वाघं महत्कृतम्
इत्युक्तः स मुनिः कोपं जहौ तूर्णं कृपानिधिः ॥१९॥
इंद्रो मुक्तभुजोऽप्यासीत्तदानीं पुरुषर्षभ
एतद्वीक्ष्य जनाः सर्वे कौतुकाविष्टमानसाः ॥२०॥
शशंसुर्ब्राह्मणबलं ते तु देवादिदुर्ल्लभम्
ततो राजा बहुधनं ब्राह्मणेभ्योऽददन्महान् ॥२१॥
चक्रे चावभृथस्नानं यागांते शत्रुतापनः
त्वया पृष्टं यदाचक्ष्व च्यवनस्य महोदयम् ॥२२॥
स मया कथितः सर्वस्तपोयोगसमन्वितः
नमस्कृत्वा तपोमूर्तिमिमं प्राप्य जयाशिषः ॥२३॥
प्रेषय त्वं सपत्नीकं रामयज्ञे मनोरमे
शेष उवाच
एवं तु कुर्वतोर्वार्तां हयः प्रापाश्रमं प्रति ॥२४॥
विदधद्वायुवेगेन पृथ्वीं खुरविलक्षिताम्
दूर्वांकुरान्मुखाग्रेण चरंस्तत्र महाश्रमे ॥२५॥
मुनयो यावदादाय दर्भान्स्नातुं गता नदीम्
शत्रुघ्नः शत्रुसेनायास्तापनः शूरसंमतः ॥२६॥
तावत्प्राप मुनेर्वासं च्यवनस्यातिशोभितम्
गत्वा तदाश्रमे वीरो ददर्श च्यवनं मुनिम् ॥२७॥
सुकन्यायाः समीपस्थं तपोमूर्तिमिवस्थितम्
ववंदे चरणौ तस्य स्वाभिधां समुदाहरन् ॥२८॥
शत्रुघ्नोहं रघुपतेर्भ्राता वाहस्य पालकः ॥२९॥
नमस्करोमि युष्मभ्यं महापापोपशांतये
इति वाक्यं समाकर्ण्य जगाद मुनिसत्तमः ॥३०॥
शत्रुघ्न तव कल्याणं भूयान्नरवरर्षभ
यज्ञं पालयमानस्य कीर्तिस्ते विपुला भवेत् ॥३१॥
चित्रं पश्यत भो विप्रा रामोऽपि मखकारकः
यन्नामस्मरणादीनि कुर्वंति पापनाशनम् ॥३२॥
महापातकसंयुक्ताः परदाररता नराः
यन्नामस्मरणोद्युक्ता मुक्ता यांति परां गतिम् ॥३३॥
पादपद्मसमुत्थेन रेणुना ग्रावमूर्तिभृत्
तत्क्षणाद्गौतमार्धांगी जाता मोहनरूपधृक् ॥३४॥
मामकीयस्य रूपस्य ध्यानेन प्रेमनिर्भरा
सर्वपातकराशिं सा दग्ध्वा प्राप्ता सुरूपताम् ॥३५॥
दैत्या यस्य मनोहारिरूपं प्रधनमण्डले
पश्यंतः प्रापुरेतस्य रूपं विकृतिवर्जितम् ॥३६॥
योगिनो ध्याननिष्ठा ये यं ध्यात्वा योगमास्थिताः
संसारभयनिर्मुक्ताः प्रयाताः परमं पदम् ॥३७॥
धन्योऽहमद्य रामस्य मुखं द्रक्ष्यामि शोभनम्
पयोजदलनेत्रांतं सुनसं सुभ्रुसून्नतम् ॥३८॥
सा जिह्वा रघुनाथस्य नामकीर्तनमादरात्
करोति विपरीता या फणिनो रसना समा ॥३९॥
अद्य प्राप्तं तपःपुण्यमद्य पूर्णा मनोरथाः
यद्द्रक्ष्ये रामचंद्रस्य मुखं ब्रह्मादिदुर्ल्लभम् ॥४०॥
तत्पादरेणुना स्वांगं पवित्रं विदधाम्यहम्
विचित्रतरवार्ताभिः पावये रसनां स्वकाम् ॥४१॥
इत्यादि रामचरणस्मरणप्रबुद्ध-
प्रेमव्रजप्रसृतगद्गदवागुदश्रुः
श्रीरामचंद्र रघुपुंगवधर्ममूर्ते
भक्तानुकंपकसमुद्धर संसृतेर्माम् ॥४२॥
जल्पन्नश्रुकलापूर्णो मुनीनां पुरतस्तदा
नाज्ञासीत्तत्र पारक्यं निजं ध्यानेन संस्थितः ॥४३॥
शत्रुघ्नस्तं मुनिं प्राह स्वामिन्नो मखसत्तमः
क्रियतां भवता पादरजसा सुपवित्रितः ॥४४॥
महद्भाग्यं रघुपतेर्यद्युष्मन्मानसांतरे
तिष्ठत्यसौ महाबाहुः सर्वलोकसुपूजितः ॥४५॥
इत्युक्तः सपरीवारः सर्वाग्निपरिसंवृतः
जगाम च्यवनस्तत्र प्रमोदह्रदसंप्लुतः ॥४६॥
हनूमांस्तं पदायांतं रामभक्तमवेक्ष्य ह
शत्रुघ्नं निजगादासौ वचो विनयसंयुतः ॥४७॥
स्वामिन्कथयसि त्वं चेन्महापुरुषसुंदरम्
रामभक्तं मुनिवरं नयामि स्वपुरीमहम् ॥४८॥
इति श्रुत्वा महद्वाक्यं कपिवीरस्य शत्रुहा
आदिदेश हनूमंतं गच्छ प्रापयतं मुनिम् ॥४९॥
हनूमांस्तं मुनिं स्वीये पृष्ठ आरोप्य वेगवान्
सकुटुंबं निनायाशु वायुः ख इव सर्वगः ॥५०॥
आगतं तं मुनिं दृष्ट्वा रामो मतिमतां वरः
अर्घ्यपाद्यादिकं चक्रे प्रीतः प्रणयविह्वलः ॥५१॥
धन्योऽस्मि मुनिवर्यस्य दर्शनेन तवाधुना
पवित्रितो मखो मह्यं सर्वसंभारसंभृतः ॥५२॥
इति वाक्यं समाकर्ण्य च्यवनो मुनिसत्तमः
उवाच प्रेमनिर्भिन्न पुलकांगोऽतिनिर्वृतः ॥५३॥
स्वामिन्ब्रह्मण्यदेवस्य तव वाडवपूजनम्
युक्तमेव महाराज धर्ममार्गं प्ररक्षितुः ॥५४
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
च्यवनाश्रमे हयगमनोनाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP