पातालखण्डः - अध्यायः २१
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सुमतिरुवाच
एतन्माहात्म्यमतुलं गंडक्याः कर्णगोचरम्
कृत्वा कृतार्थमात्मानममन्यत नृपोत्तमः ॥१॥
स्नात्वा तीर्थे पितॄन्सर्वान्संतर्प्य जहृषे महान्
शालग्रामशिलापूजां कुर्वन्वाडववाक्यतः ॥२॥
चतुर्विंशच्छिलास्तत्र गृहीत्वा स नृपोत्तमः
पूजयामास प्रेम्णा च चंदनाद्युपचारकैः ॥३॥
तत्र दानानि दत्त्वा च दीनांधेभ्यो विशेषतः
गंतुं प्रचक्रमे राजा पुरुषोत्तममंदिरम् ॥४॥
एवं क्रमेण संप्राप्तो गंगासागरसंगमम्
कृत्वाक्षिगोचरं तं च ब्राह्मणं पृष्टवान्मुदा ॥५॥
स्वामिन्वद कियद्दूरे नीलाख्यः पर्वतो महान्
पुरुषोत्तमसंवासः सुरासुरनमस्कृतः ॥६॥
तदा श्रुत्वा महद्वाक्यं रत्नग्रीवस्य भूपतेः
उवाच विस्मयाविष्टो राजानं प्रति सादरम् ॥७॥
राजन्नेतत्स्थलं नीलपर्वतस्य नमस्कृतम्
किमर्थं दृश्यते नैव महापुण्यफलप्रदम् ॥८॥
पुनःपुनरुवाचेदं स्थलं नीलस्य भूभृतः
कथं न दृश्यते राजन्पुरुषोत्तमवासभृत् ॥९॥
अत्र स्नातं मया सम्यगत्र भिल्लाक्षिगोचराः
अनेनैव पथा राजन्नारूढं पर्वतोपरि ॥१०॥
इति तद्वाक्यमाकर्ण्य विव्यथे मानसे नृपः
नीलभूधरदर्शाय कुर्वन्नुत्कंठितं मनः ॥११॥
उवाच तत्कथं विप्र दृश्येत पुरुषोत्तमः
कथं वा दृश्यते नीलस्तदुपायं वदस्व नः ॥१२॥
तदा वाक्यं समाकर्ण्य रत्नग्रीवस्य भूपतेः
तापसो ब्राह्मणो वाक्यमुवाच नृप विस्मितः ॥१३॥
गंगासागरसंयोगे स्नात्वास्माभिर्महीपते
स्थातव्यं तावदेवात्र यावन्नीलो न दृश्यते ॥१४॥
गीयते पापहा देवः पुरुषोत्तमसंज्ञितः
करिष्यते कृपामाशु भक्तवत्सलनामधृक् ॥१५॥
त्यजत्यसौ न वै भक्तान्देवदेवशिरोमणिः
अनेके रक्षिता भक्तास्तद्गायस्व महामते ॥१६॥
इति वाक्यं समाकर्ण्य राजा व्यथितचेतसा
स्नात्वा गंगाब्धिसंयोगे ततोनशनमादधात् ॥१७॥
करिष्यति कृपां यर्हि दर्शने पुरुषोत्तमः
पूजां कृत्वाशनं कुर्यामन्यथानशनं व्रतम् ॥१८॥
इति कृत्वा स नियमं गंगासागररोधसि
गायन्हरिगुणग्राममुपवासमथाचरत् ॥१९॥
राजोवाच
जय दीनदयाकरप्रभो जय दुःखापह मङ्गलाह्वय
जय भक्तजनार्तिनाशन कृतवर्ष्मञ्जयदुष्टघातक ॥२०॥
अंबरीषमथ वीक्ष्य दुःखितं विप्रशापहतसर्वमङ्गलम्
धारयन्निजकरे सुदर्शनं संररक्ष जठराधिवासतः ॥२१॥
दैत्यराज पितृकारितव्यथः शूलपाशजलवह्निपातनैः
श्रीनृसिंहतनुधारिणा त्वया रक्षितः सपदि पश्यतः पितुः ॥२२॥
ग्राहवक्त्रपतितांघ्रिमुद्भटं वारणेंद्रमतिदुःखपीडितम्
वीक्ष्य साधुकरुणार्द्रमानसस्त्वं गरुत्मति कृतारुहक्रियः ॥२३॥
त्यक्तपक्षिपतिरात्तचक्रको वेगकंपयुतमालिकांबरः
गीयसे सुभिरमुष्य न क्रतो मोचकः सपदि तद्विनाशकः ॥२४॥
यत्रयत्र तव सेवकार्दनं तत्र तत्र बत देहधारिणा
पाल्यते च भवता निजः प्रभो पापहारिचरितैर्मनोहरैः ॥२५॥
दीननाथ सुरमौलिहीरकाघृष्टपादतल भक्तवल्लभ
पापकोटिपरिदाहक प्रभो दर्शयस्व निजदर्शनं मम ॥२६॥
पापकृद्यदि जनोयमागतो मानसे तव तथा हि दर्शय
तावका वयमघौघनाशनं विस्मृतं नहि सुरासुरार्चित ॥२७॥
ये वदंति तव नाम निर्मलं ते तरंति सकलाघसागरम्
संस्मृतिर्यदि कृता तदा मया प्राप्यतां सकलदुःखवारक ॥२८॥
सुमतिरुवाच
एवं गायन्गुणान्रात्रौ दिवा वापि महीपतिः
क्षणमात्रं न विश्रांतो निद्रामाप न वै सुखम् ॥२९॥
गायन्गच्छन्गृणंस्तिष्ठन्वदत्येतदहर्निशम्
दर्शयस्व कृपानाथ स्वतनुं पुरुषोत्तम ॥३०॥
एवं राज्ञः पंचदिनं गतं गंगाब्धिसंगमे
तदा कृपाब्धिः कृपया चिंतयामास गोपतिः ॥३१॥
असौ राजा मदीयेन गानेन विगताघकः
पश्य तान्मामकीं प्रेष्ठां सुरासुरनमस्कृताम् ॥३२॥
इति संचिंत्य भगवान्कृपापूरितमानसः
संन्यासिवेषमास्थाय ययौ राज्ञोंऽतिकं विभुः ॥३३॥
तत्र गत्वा महाराज त्रिदंडियतिवेषधृक्
भक्तानुकंपया प्राप्तो वीक्षितस्तापसेन हि ॥३४॥
ॐनमो विष्णवेत्युक्त्वा नमश्चक्रे नृपोत्तमः
अर्घ्यपाद्यासनैः पूजां चकार हरिमानसः ॥३५॥
उवाच भाग्यमतुलं यद्भवानक्षिगोचरः
अतः परं दास्यते मे गोविंदो निजदर्शनम् ॥३६॥
इति श्रुत्वा तु तद्वाक्यं संन्यासी निजगाद तम्
राजञ्छृणुष्व कथितं मम वाक्यविनिःसृतम् ॥३७॥
अहं ज्ञानेन जानामि भूतं भव्यं भवच्च यत्
तस्मादहं ब्रुवे किंचिच्छृणुष्वैकाग्रमानसः ॥३८॥
श्वो मध्याह्ने हरिर्दाता दर्शनं ब्रह्मदुर्ल्लभम्
पंचभिः स्वजनैः साकं यास्यसे परमं पदम् ॥३९॥
त्वममात्यश्च महिला तव तापस वाडवः
पुरे तव करंबाख्यः साधुश्च तं तु वायकः ॥४०॥
एतैः पंचभिरेतस्मिन्नीले पर्वतसत्तमे
यास्यसे ब्रह्मदेवेंद्र वंदितं सुरपूजितम् ॥४१॥
इत्युक्त्वाऽदृश्यतां प्राप्तो यतिः क्वापि न दृश्यते
तदाकर्ण्य नृपो हर्षं प्राप चाशु सविस्मयम् ॥४२॥
राजोवाच
स्वामिन्कोऽसौ समागत्य संन्यासी मां यदूचिवान्
न दृश्यते पुनः कुत्र गतोऽसौ चित्तहर्षदः ॥४३॥
तापस उवाच
राजंस्तव महाप्रेम्णा कृष्टचित्तः समभ्यगात्
पुरुषोत्तमनामायं सर्वपापप्रणाशनः ॥४४॥
श्वोमध्याह्ने तव पुरो भविष्यति महान्गिरिः
तमारुह्य हरिं दृष्ट्वा कृतार्थस्त्वं भविष्यसि ॥४५॥
इतिवाक्यसुधापूर नाशितस्वांत संज्वरः
हर्षं यमाप स नृपो ब्रह्मापि न हि वेत्ति तम् ॥४६॥
तदा दुंदुभयो नेदुर्वीणापणवगोमुखाः
महानंदस्तदा ह्यासीद्राजराजस्य चेतसि ॥४७॥
गायन्हरिं क्षणं तिष्ठन्हसञ्जल्पन्ब्रुवन्नमन्
आनंदं प्राप सुघनं सर्वसंतापनाशनम् ॥४८॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
संन्यासिदर्शनंनाम एकविंशोऽध्यायः ॥२१॥
N/A
References : N/A
Last Updated : November 04, 2020
![Top](/portal/service/themes/silver/images/up.gif)
TOP