उत्पत्तिप्रकरणं - सर्गः ३
योगवासिष्ठः
श्रीराम उवाच ।
एवमेव मनः शुद्धं पृथ्व्यादिरहितं त्वया ।
मनो ब्रह्मेति कथितं सत्यं पृथ्व्यादिवर्जितम् ॥१॥
तदत्र प्राक्तनी ब्रह्मन्स्मृतिः कस्मान्न कारणम् ।
यथा मम तवान्यस्य भूतानां चेति मे वद ॥२॥
श्रीवसिष्ठ उवाच ।
पूर्वदेहोऽस्ति यस्याद्य पूर्वकर्मसमन्वितः ।
तस्य स्मृतिः संभवति कारणं संसृतिस्थितेः ॥३॥
ब्रह्मणः प्राक्तनं कर्म यदा किंचिन्न विद्यते ।
प्राक्तनी संस्मृतिस्तस्य तदोदेति कुतः कथम् ॥४॥
तस्मादकारण भाति वा स्वचित्तैककारणम् ।
स्वकारणादनन्यात्मा स्वयंभूः स्वयमात्मवान् ॥५॥
आतिवाहिक एवासौ देहोऽस्त्यस्य स्वयंभुवः ।
न त्वाधिभौतिको राम देहोऽजस्योपपद्यते ॥६॥
श्रीराम उवाच ।
आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः ।
सर्वासां भूतजातीनां ब्रह्मणोऽस्त्येक एव किम् ॥७॥
श्रीवसिष्ठ उवाच ।
सर्वेषामेव देहौ द्वौ भूतानां कारणात्मनाम् ।
अजस्य कारणाभावादेक एवातिवाहिकः ॥८॥
सर्वासां भूतजातीनामेकोऽजः कारणं परम् ।
अजस्य कारणं नास्ति तेनासावेकदेहवान् ॥९॥
नास्त्येव भौतिको देहः प्रथमस्य प्रजापतेः ।
आकाशात्मा च भात्येष आतिवाहिकदेहवान् ॥१०॥
चित्तमात्रशरीरोऽसौ न पृथ्व्यादिक्रमात्मकः ।
आद्यः प्रजापतिर्व्योमवपुः प्रतनुते प्रजाः ॥११॥
ताश्च चिद्व्योमरूपिण्यो विनान्यैः कारणान्तरैः ।
यद्यतस्तत्तदेवति सर्वैरेवानुभूयते ॥१२॥
निर्वाणमात्रं पुरुषः परो बोधः स एव च ।
चित्तमात्रं तदेवास्ते नायाति वसुधादिताम् ॥१३॥
सर्वेषां भूतजातानां संसारव्यवहारिणाम् ।
प्रथमोऽसौ प्रतिस्पन्दश्चित्तदेहः स्वतोदयः ॥१४॥
अस्मात्पूर्वात्प्रतिस्पन्दादनन्यैतत्स्वरूपिणी ।
इयं प्रविसृता सृष्टिः स्पन्दसृष्टिरिवानिलात् ॥१५॥
प्रतिभानाकृतेरस्मात्प्रतिभामात्ररूपधृक् ।
विभात्येवमयं सर्गः सत्यानुभववान्स्थितः ॥१६॥
दृष्टान्तोऽत्र भवत्स्वप्नपुरस्त्रीसुरतं यथा ।
असदप्यर्थसंपत्त्या सत्यानुभवभासुरम् ॥१७॥
अपृथ्व्यादिमयो भाति व्योमाकृतिरदेहकः ।
सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः ॥१८॥
संवित्सकल्परूपत्वान्नोदेति समुदेति च ।
स्वायत्तत्वात्स्वभावस्य नोदेति न च शाम्यति ॥१९॥
ब्रह्मा संकल्पपुरुषः पृथ्व्यादिरहिताकृतिः ।
केवलं चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः ॥२०॥
संकल्प एष कचति यथा नाम स्वयंभुवः ।
व्योमात्मैष तथा भाति भवत्संकल्पशैलवत् ॥२१॥
आतिवाहिकमेवान्तर्विस्मृत्या दृढरूपया ।
आधिभौतिकबोधेन मुधा भाति पिशाचवत् ॥२२॥
इदं प्रथमतोद्योगसंप्रबुद्धं महाचितेः ।
नोदेति शुद्धसंवित्त्वादातिवाहिकविस्मृतिः ॥२३॥
आधिभौतिकजातेन नास्योदेति पिशाचिका ।
असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा ॥२४॥
मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः ।
मनोमात्रमतो विश्वं यद्यज्जातं तदेव हि ॥२५॥
अजस्य सहकारीणि कारणानि न सन्ति यत् ।
तज्जस्यापि न सन्त्येव तानि तस्मात्तु कानिचित् ॥२६॥
कारणात्कार्यवैचित्र्यं तेन नात्रास्ति किंचन ।
यादृशं कारणं शुद्धं कार्य तादृगिति स्थितम् ॥२७॥
कार्यकारणता ह्यत्र न किंचिदुपपद्यते ।
यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम् ॥२८॥
मनस्तामिव यातेन ब्रह्मणा तन्यते जगत् ।
अनन्यादात्मनः शुद्धाद्द्रवत्वमिव वारिणः ॥२९॥
मनसा तन्यते सर्वमसदेवेदमाततम् ।
यथा संकल्पनगरं यथा गन्धर्वपत्तनम् ॥३०॥
आधिभौतिकता नास्ति रज्ज्वामिव भुजङ्गता ।
ब्रह्मादयः प्रबुद्धास्तु कथं तिष्ठन्ति तत्र ते ॥३१॥
आतिवाहिक एवास्ति न प्रबुद्धमतेः किल ।
आधिभौतिकदेहस्य वाचो वात्र कुतः कथम् ॥३२॥
मनोनाम्नो मनुष्यस्य विरिञ्च्याकारधारिणः ।
मनोराज्यं जगदिति सत्यरूपमिव स्थितम् ॥३३॥
मन एव विरिञ्चित्वं तद्धि संकल्पनात्मकम् ।
स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते ॥३४॥
विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः ।
पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् ॥३५॥
पद्माक्षे पद्मिनीवान्तर्मनो दृद्यस्ति दृश्यता ।
मनोदृश्यदृशौ भिन्ने न कदाचन केनचित् ॥३६॥
यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः ।
स्वानुभूत्यैव दृष्टान्तस्तस्माद्धृद्यस्ति दृश्यभूः ॥३७॥
तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।
विनिहन्त्येवमेषान्तर्द्रष्टारं दृश्यरूपिका ॥३८॥
यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।
करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ॥३९॥
सच्चेन्न शाम्यति कदाचन दृश्यदुःखं
दृश्ये त्वशाम्यति न बोद्धरि केवलत्वम् ।
दृश्ये त्वसंभवति बोद्धरि बोद्धृभावः
शाम्येत्स्थितोऽपि हि तदस्य विमोक्षमाहुः ॥४०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम तृतीयः सर्गः ॥३॥
N/A
References : N/A
Last Updated : September 07, 2021
TOP