संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ६७

उत्पत्तिप्रकरणं - सर्गः ६७

योगवासिष्ठः

श्रीराम उवाच ।
मनस्त्वयोग्यो जीवोऽयं को भवेत्परमात्मनः ।
कथं वास्मिन्समुत्पन्नः को वायं वद मे पुनः ॥१॥
श्रीवसिष्ठ उवाच ।
समस्तशक्तिखचितं ब्रह्म सर्वेश्वरं सदा ।
ययैव शक्त्या स्फुरति प्राप्तां तामेव पश्यति ॥२॥
स्वयं यां वेत्ति सर्वात्मा चिरं चेतनरूपिणीम् ।
सा प्रोक्ता जीवशब्देन सैव संकल्पकारिणी ॥३॥
स्वभावात्कारणं द्वित्वं पूर्वसंकल्पचित्स्वयम् ।
नानाकारणतां पश्चाद्याति जन्ममृतिस्थितेः ॥४॥
श्रीराम उवाच ।
एवं स्थिते मुनिश्रेष्ठ दैवं नाम किमुच्यते ।
किमुच्यते तथा कर्म कारणं च किमुच्यते ॥५॥
श्रीवसिष्ठ उवाच ।
स्पन्दास्पन्दस्वभावं हि चिन्मात्रमिह विद्यते ।
खे वात इव तत्स्पन्दात्सोल्लासं शान्तमन्यथा ॥६॥
चित्त्वं चित्तं भावितं सत्स्पन्द इत्युच्यते बुधैः ।
दृश्यत्वभावितं चैतदस्पन्दनमिति स्मृतम् ॥७॥
स्पन्दात्स्फुरति चित्सर्गो निःस्पन्दाद्ब्रह्म शाश्वतम् ।
जीवकारणकर्माद्या चित्स्पन्दस्याभिधा स्मृता ॥८॥
य एवानुभवात्मायं चित्स्पन्दोऽस्ति स एव हि ।
जीवकारणकर्माख्यो बीजमेतद्धि संसृतेः ॥९॥
कृतद्वित्वचिदाभासवशाद्देहमुपस्थितम् ।
संकल्पाद्विविधार्थत्वं चित्स्पन्दो याति सृष्टिषु ॥१०॥
नानाकारणतां यातश्चित्स्पन्दो मुच्यते चिरात् ।
कश्चिज्जन्मसहस्रेण कश्चिदेकेन जन्मना ॥११॥
स्वभावात्कारणाद्वित्वं चित्समेत्याधिगच्छति ।
स्वर्गापवर्गनरकबन्धकारणतां शनैः ॥१२॥
हेम्नीव कटकादित्वं काष्ठलोष्टसमस्थितौ ।
देहे तिष्ठति नानात्वं जडे भावविकारजम् ॥१३॥
अजातमप्यसद्रूपं पश्यतीदं मनोभ्रमः ।
जातः स्थितोमृतोऽस्मीति भ्रमार्तः पत्तनं यथा ॥१४॥
अहंममेत्यसद्रूपमेव चेतः प्रपश्यति ।
अदृष्टपरमार्थत्वादाशाविवशसंस्थिति ॥१५॥
मथुराधिपते राज्ञो यथा श्वपचसंभ्रमः ।
आसीदेवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः ॥१६॥
सर्वमेव मनोमात्रभ्रान्त्युल्लासविजृम्भणम् ।
इदं जगत्तया राम प्रस्फुरत्यम्बुभङ्गवत् ॥१७॥
शिवात्प्राक्कारणात्पूर्वं चिच्चेत्यकलनोन्मुखी ।
उदेति सौम्याज्जलधेः पयःस्पन्दो मनागिव ॥१८॥
स्फुरणाज्जीवचक्रत्वमेति चित्तोर्मितां दधत् ।
चिद्वारिब्रह्मजलधौ कुरुते सर्गबुद्बुदान् ॥१९॥
स्वस्थः सौम्य समस्यैतद्यत्सिंहस्य विजृम्भणम् ।
ब्रह्मणः संविदाभासस्तत्संचेत्यमिव स्वयम् ॥२०॥
चित्संवित्त्योच्यते जीवः संकल्पात्स मनो भवेत् ।
बुद्धिश्चित्तमहंकारो मायेत्याद्यभिधं ततः ॥२१॥
तन्मात्रकल्पना पूर्वं तनोतीदं जगन्मनः ।
असत्यं सत्यसंकाशं गन्धर्वनगरं यथा ॥२२॥
यथा शून्ये दृशः स्फारान्मुक्तावल्यादिदर्शनम् ।
यथा स्वप्ने भ्रमश्चैव तथा चित्तस्य संसृतिः ॥२३॥
शुद्ध आत्मा नित्यतृप्त इव शान्तः समस्थितः ।
अपश्यन्पश्यतीवेमं चित्ताख्यं स्वप्नविभ्रमम् ॥२४॥
संसृतिर्जाग्रदित्युक्तं स्वप्नं विदुरहंकृतिम् ।
चित्तं सुषुप्तभावः स्याच्चिन्मात्रं तुर्यमुच्यते ॥२५॥
अत्यन्तशुद्धे सन्मात्रे परिणामनिरामयम् ।
तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥२६॥
तस्मिन्सर्वमुदेतीदं तस्मिन्नेव प्रलीयते ।
न चेदं न च तत्रेदं दृष्टौ मुक्तावली यथा ॥२७॥
अरोधकत्वात्खं हेतुर्यथा वृक्षसमुन्नतेः ।
अकर्तापि तथा कर्ता चेतनाब्धिर्जगत्स्थितेः ॥२८॥
संनिधानाद्यथा लौहः प्रतिबिम्बस्य हेतुताम् ।
यात्यादर्शस्तथैवायं चिन्मयोऽप्यर्थवेदने ॥२९॥
बीजमङ्कुरपत्रादियुक्त्या यद्वत्फलं भवेत् ।
चिन्मात्रं चित्तजीवादियुक्त्या तद्वन्मनो भवेत् ॥३०॥
स्वतोबीजफला विप्रुड् यथा बीजं पुनर्भवेत् ।
तथा चिच्चेत्यचित्तादि त्यक्त्वा स्वस्था न तिष्ठति ॥३१॥
यद्यप्यबोधे बोधे वा बीजान्तस्तरुबीजयोः ।
इयान्भेदोऽस्ति न जगद्ब्रह्मणोरपि चित्तयोः ॥३२॥
तथापि व्यज्यते बोधे सत्यात्मकमखण्डितम् ।
रूपश्रीरिव दीपेन चिन्मात्रालोकरूपि यत् ॥३३॥
यद्यन्निखन्यते भूमेर्यथा तत्तन्नभो भवेत् ।
या या विचार्यते विद्या तथा सा सा परं भवेत् ॥३४॥
स्फटिकान्तःसन्निवेशः स्थाणुताऽवेदनाद्यथा ।
शुद्धेऽनानापि नानेव तथा ब्रह्मोदरे जगत् ॥३५॥
ब्रह्म सर्वं जगद्वस्तु पिण्डमेकमखण्डितम् ।
फलपत्रलतागुल्मपीठबीजमिव स्थितम् ॥३६॥
श्रीराम उवाच ।
अहो चित्रं जगदिदमसत्सदिव भासते ।
अहो बृहदहो स्वस्थमहो स्फुटमहो तनु ॥३७॥
ब्रह्मणि प्रतिभासात्मा तन्मात्रगुणगोलकः ।
अवश्यायकणाभासो यथा स्फुरति तच्छ्रुतम् ॥३८॥
यथाऽसौ याति वैपुल्यं यथा भवति चात्मभूः ।
यथा स्वभावसिद्धार्थात्तथा कथय मे प्रभो ॥३९॥
श्रीवसिष्ठ उवाच ।
अत्यन्तासंभवद्रूपमनन्यत्स्वस्वभावतः ।
अत्यन्ताननुभूतं सत्स्वानुभूतमिवाग्रतः ॥४०॥
उल्लासफुल्लो फुल्लाङ्ग इति बालहृदि स्फुटम् ।
यथोदेति तथोदेति परे ब्रह्मणि जीवता ॥४१॥
मानमेयात्मिका शुद्धा सत्यैवासत्यवत्स्थिता ।
भिन्नेव च न भिन्ना स्याद्ब्रह्मणो ब्रंह्मणात्मिका ॥४२॥
यथा ब्रह्म भवत्याशु जीवः कलनजीवितः ।
तथा जीवो भवत्याशु मनो मननवेदनात् ॥४३॥
चित्तं तन्मात्रमननं पश्यत्याशु स्वरूपवत् ।
एष सद्योऽनिललवप्रख्यः स्फुरति खान्तरे ॥४४॥
अस्तनिमेषोऽनुभवत्यवश्यायकणोपमम् ।
संवेदनात्मकं कालकलितं कान्तमात्मनि ॥४५॥
अहं किमिति शब्दार्थवेदनाभोगसंविदम् ।
संविदं तत्त्वशब्दार्थं जीवः पश्यति सार्थकम् ॥४६॥
तादृक्षवेदनात्सोऽथ रसशब्दार्थवेदनम् ।
भाविजिह्वार्थनाम्नैकदेशेऽनुभवति क्षणात् ॥४७॥
तादृक्षवेदनात्तेजःशब्दार्थोन्मुखतां गतः ।
भविष्यन्नेत्रनाम्नैकदेशे भवति भासनम् ॥४८॥
तादृक्षवेदनात्सोऽथ घ्राणं तद्दृष्टिवेदनात् ।
स्थितो यस्मिन्भवतीति तावद्दृश्यादिता स्थिता ॥४९॥
एवंप्रायः स जीवात्मा काकतालीयवच्छनैः ।
विशिष्टसंनिवेशत्वं भावितं पश्यति स्वतः ॥५०॥
स तस्य संनिवेशस्य त्वसतोऽपि सतः सतः ।
शब्दभावैकदेशत्वं श्रवणार्थेन विन्दति ॥५१॥
स्पर्शभावैकदेशत्वं त्वक्शब्दार्थेन विन्दति ।
रसभावैकदेशत्वं रसनात्वेन विन्दति ॥५२॥
रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति ।
गन्धभावैकदेशत्वं नासिकात्वेन पश्यति ॥५३॥
एवं भावमयैः सत्ताप्रकटीकरणक्षमम् ।
भविष्यदिन्द्रियाख्यं स रन्ध्रं पश्यति देहके ॥५४॥
इत्येवमादि जीवस्य राघवाद्यतनस्य च ।
उदेति प्रतिभासात्मा देह एवातिवाहिकः ॥५५॥
अनाख्येयं परा सत्तास्यातिवाहिकतामिव ।
सा गच्छत्यप्यगच्छन्ती तादृक्सत्यात्मभावनात् ५६
मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात् ।
तदातिवाहिकोक्तीनां कः प्रसङ्गस्तदेव तत् ॥५७॥
अन्यत्ववेदनादन्यः परस्मादातिवाहिकः ।
ब्रह्मत्ववेदनाद्ब्रह्म सा संवित्तिर्हि नान्यजा ॥५८॥
श्रीराम उवाच ।
असंभवादसंवित्तेर्ब्रह्मात्मैकतयाथवा ।
को मोक्षः को विचारश्चेत्यलं भेदविकल्पनैः ॥५९॥
श्रीवसिष्ठ उवाच ।
सिद्धान्तकाल एवैष प्रश्नस्ते राम राजते ।
अकालपुष्पमाला हि शोभनापि न शोभते ॥६०॥
सार्थैवानर्थिकाऽकालमाला विलसिता यथा ।
तथैवाऽकालमिज्जन्तौ सर्वं काले हि शोभते ॥६१॥
प्रतिबन्धाभ्यनुज्ञानां कालो दातेति दृश्यते ।
ननु सर्वपदार्थानां कालेन फलयोगतः ॥६२॥
एवमेव स जीवात्मा स्वप्नात्मा समुपस्थितः ।
पितामहत्वमुच्छूनं पश्यन्नात्मनि कालतः ॥६३॥
ओंमुच्चारणसंवित्तिवेदनाच्च प्रपश्यति ।
यत्करोति मनोराज्यं भवत्याशु स तन्मयः ॥६४॥
इदमेवमसत्सर्वमिव व्योम्नि ततात्मनि ।
पर्वतोच्चाकृतिर्व्योम जगद्व्योम्नि विजृम्भते ॥६५॥
नेह प्रजायते किंचिन्नेह किंचिद्विनश्यति ।
जगद्गन्धर्वनगररूपेण ब्रह्म जृम्भते ॥६६॥
यथैव पद्मजादीनां जीवानां सदसन्मयी ।
सत्ता तथैव सर्वेषामासरीसृपमासुरम् ॥६७॥
संवित्संभ्रम एवायमेवमभ्युत्थितोऽप्यसन् ।
आब्रह्मकीटसंवित्तेः सम्यक्संवेदनात्क्षयः ॥६८॥
यथा संपद्यते ब्रह्मा कीटः संपद्यते तथा ।
कीटस्तु रूढभूतौघवलनात्तुच्छकर्मकः ॥६९॥
यदेव जीवनं जीवे चेत्योन्मुखचिदात्मकम् ।
तदेव पौरुषं तस्मिन्सारं कर्म तदेव च ॥७०॥
ब्रह्मणः सुकृतात्पापात्कीटकस्य समुत्थितेः ।
चित्तन्मात्रात्मिका भ्रान्तिः प्रेक्षामात्रं भवेत्क्षयः ॥७१॥
मातृमानप्रमेयाणि न चिन्मात्रेतरद्यतः ।
ततो द्वैतैक्यवादार्थः शशशृङ्गाज्जिनीसमः ॥७२॥
भावदार्ढ्यात्मकं मिथ्या ब्रह्मानन्दो विभाव्यते ।
आत्मैव कोशकारेण लालादार्ढ्यात्मकं यथा ॥७३॥
मनसा ब्रह्मणा यद्यद्यथा दृष्टं विभावितम् ।
तत्तथा दृश्यते तज्ज्ञैः स्वभावस्यैव निश्चयः ॥७४॥
यथा यदुदितं वस्तु तत्तत्तन्न विना भवेत् ।
निमेषमपि कल्पं वा स्वभावस्यैष निश्चयः ॥७५॥
अलीकमिदमुत्पन्नमलीकं च विवर्धते ।
अलीकमेव स्वदते तथालीकं विलीयते ॥७६॥
शुद्धं सर्वगतं ब्रह्मानन्तमद्वितीयं दुःखबोधवशाद
शुद्धमिवासदिवानेकमिवासर्वगमिवावबुध्यते ॥७७॥
जलमन्यत्तरङ्गोऽन्य इति बालकुकल्पनया भेदः
कल्प्यत एवमवास्तवस्तस्माद्यो योऽयमाभाति भेदः
स केवलमतत्त्वविद्भिः परिकल्पितो रज्ज्वां सर्प
इव एवं भेदाभेदशक्त्योररिमित्रयोरेव ब्रह्मण्येव
संभवेत् ॥७८॥
तेनात्मनाऽद्वितीयेनैव द्वित्वमिवाततं यथासलि-
लेन तरंगकल्पनया सुवर्णेन कटककल्पनयैवमिति
अतस्तेन स्वयमेवात्मनात्मान्य इव चेत्यते ॥७९॥
अतः कलना जाता सैव स्फारतां प्राप्य मनः
संपन्नं तेनाहंभावः कल्पितो निर्विकल्पप्रत्यक्षरूप-
मेतत्प्रथमं तन्मनस्तदहं भवति क्षिप्रमहंशब्दार्थ-
भावनात् ॥८०॥
ततो मनोहंकाराभ्यां स्मृतिरनुसंहिता तैस्त्रिभिस्तदनुभूततन्मात्राणि कल्पितानि तन्मात्रेषु जीवेन
चित्तात्मना स्वयं काकतालीयवद्ब्रह्मोपादानादि
यान्संनिवेशः कल्पितो दृश्यते ॥८१॥
एवं यदेव मनः कल्पयति तदेव पश्यति ।
सद्वा भवत्वसद्वा चित्तं यत्कल्पयत्यभिनेविष्टम् ।
तत्तत्पश्यति यास्यति सदिव प्रतिभासमुपगतं सद्यः ॥८२॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे सत्योपदेशो नाम सप्तषष्टितमः सर्गः ॥६७॥

N/A

References : N/A
Last Updated : September 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP