उत्पत्तिप्रकरणं - सर्गः ११३
योगवासिष्ठः
श्रीवसिष्ठ उवाच ।
एषा हि वासना नित्यमसत्यैव यदुत्थिता ।
द्विचन्द्रभ्रान्तिवत्तेन त्यक्तुं राघव युज्यते ॥१॥
अविद्या विद्यमानेव नष्टप्रज्ञेषु विद्यते ।
नाम्नैवाङ्गीकृताभावात्सम्यक्प्रज्ञेषु सा कुतः ॥२॥
मा भवाज्ञो भव प्राज्ञः सम्यग्राम विचारय ।
नास्त्येवेन्दुर्द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा ॥३॥
नात्र तत्त्वादृते किंचिद्विद्यते वस्त्ववस्तु च ।
ऊर्मिमालिनि विस्तीर्णे वारिपूरादृते यथा ॥४॥
स्वविकल्पादृते नैतान्भावाभावानसन्मयान् ।
नित्येऽसिते तते शुद्धे मा समारोपयात्मनि ॥५॥
नासि कर्ता किमेतासु क्रियासु ममता तव ।
एकस्मिन्विद्यमाने हि किं केन क्रियते कथम् ॥६॥
मा वाऽकर्ता भव प्राज्ञ किमकर्तृतयेहिते ।
साध्यं साध्यमुपादेयं तस्मात्स्वस्थो भवानघ ॥७॥
कर्ता संस्त्वमसक्तत्वाद्भावाभावे रघूद्वह ।
असक्तत्वादकर्तापि कर्तृवत्स्पन्दनं कुतः ॥८॥
सत्यं स्याच्चेदुपादेयं मिथ्या स्याद्धेयमेव चेत् ।
उपादेयैकसक्तत्वाद्युक्ता सक्तिर्हि कर्मणि ॥९॥
यत्रेन्द्रजालमखिलं मायामयमवस्तुकम् ।
तत्र कास्था कथं नाम हेयोपादेयदृष्टयः ॥१०॥
संसारबीजकणिका यैषा विद्या रघूद्वह ।
एषा ह्यविद्यमानैव सतीव स्फारतां गता ॥११॥
येयमाभोगिनिःसारा संसारारम्भचक्रिका ।
विज्ञेया वासनैषा सा चेतसो मोहदायिनी ॥१२॥
चारुवंशलतेवान्तःशून्या निस्सारकोटरा ।
सरित्तरङ्गमालेव न व्युच्छिन्नापि नश्वरी ॥१३॥
गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते ।
मृद्वप्यत्यन्ततीक्ष्णाग्रा निर्झरोर्मिरिवोत्थिता ॥१४॥
दृश्यते प्रकराभासा सदर्थे नोपयुज्यते ।
तरङ्गिण्यतरङ्गाभा स्वाकारपरिनिष्ठिता ॥१५॥
क्वचिद्वक्राः क्वचित्स्पष्टा दीर्घाः खर्वाः स्थिराश्चलाः ।
यत्प्रसादोद्भवास्तस्माद्व्यतिरेकमुपागताः ॥१६॥
अन्तःशून्यापि सर्वत्र दृश्यते सारसुन्दरी ।
न क्वचित्संस्थितापीह सर्वत्रैवोपलक्ष्यते ॥१७॥
जडैव चिन्मयीवासावन्यस्पन्दोपजीविनी ।
निमेषमप्यतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति ॥१८॥
ज्वालावच्छुद्धवर्णापि मषीमलिनकोटरा ।
वल्गत्यन्यप्रसादेन दीयते तदवेक्षणात् ॥१९॥
आलोके विमले म्लाना तमस्यपि विराजते ।
मृगतृष्णेव शुष्काभा नानावर्णविलासिनी ॥२०॥
वक्रा विषमयी तन्वी मृद्वी संकटकर्कशा ।
ललनाचञ्चला लुब्धा तृष्णा कृष्णेव भोगिनी ॥२१॥
स्वयं दीपशिखेवाशु क्षीयते स्नेहसंक्षये ।
सिन्दूरधूलिलेखेव विना रागं विराजते ॥२२॥
क्षणप्रकाशतरला कृतसंस्था जडाशया ।
मुग्धानां त्रासजननी वक्रा विद्युदिवोदिता ॥२३॥
यत्नाद्गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते ।
लभ्यतेऽपि हि नान्विष्टा विद्युद्वदतिभङ्गुरा ॥२४॥
अप्रार्थितैवोपनता रमणीयाप्यनर्थदा ।
अकालपुष्पमालेव श्रेयसेनाभिनन्दिता ॥२५॥
अत्यन्तविस्मृतैवातिसुखाय भ्रमदायिनी ।
दुःस्वप्नकलनेवेयमनर्थायैव तर्किता ॥२६॥
प्रतिभासवशादेषा त्रिजगन्ति महान्ति च ।
मुहूर्तमात्रेणोत्पाद्य धत्ते ग्रासीकरोति च ॥२७॥
मुहूर्तो वत्सरश्रेणी लवणस्यानया कृता ।
रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य निर्मिता ॥२८॥
वियोगिनामथान्येषां कान्ताविभवशालिनाम् ।
रात्रिर्वत्सरवद्दीर्घा भवेत्तस्याः प्रसादतः ॥२९॥
सुखितस्याल्पतामेति दुःखितस्यैति दीर्घताम् ।
कालो यस्याः प्रसादेन विपर्यासैकशीलिनाम् ॥३०॥
अस्याः स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु ।
दीपस्यालोककार्याणां यथा तद्वन्न वस्तुतः ॥३१॥
सनितम्बस्तनी चित्रे न स्त्री स्त्रीधर्मिणी यथा ।
तथैवाकारचिन्तेयं कर्तुं योग्या न किंचन ॥३२॥
मनोराज्यमिवाकारभासुरा सत्यवर्जिता ।
सहस्रशतशाखापि न किंचित्परमार्थतः ॥३३॥
अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता ।
विडम्बयति तान्मुग्धमृगानेव न मानुषान् ॥३४॥
फेनमालेव संजातध्वस्ता विच्छेदवर्जिता ।
जडेव चञ्चलाकारा गृह्यमाणा न किंचन ॥३५॥
अटत्युड्डामराकारा रजःप्रसरधूसरा ।
बलात्कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा ॥३६॥
धूमालीवाङ्गसंलग्ना दाहखेदप्रदायिनी ।
गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते ॥३७॥
धारा जलधरस्येव सुदीर्घा जलनिर्मिता ।
असारसंसारदृढा रज्जुस्तृणगणैरिव ॥३८॥
तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता ।
मृणालीव बहुच्छिद्रा पङ्कप्रौढा जलात्मिका ॥३९॥
जनेन दृश्यते वृद्धितत्परा नच वर्धते ।
विषास्वाद इवापातमधुराऽन्ते सुदारुणा ॥४०॥
नष्टा दीपशिखेवैषा न जाने क्वेव गच्छति ।
मिहिकेवाग्रदृष्टापि गृह्यमाणा न किंचन ॥४१॥
पांसुमुष्टिरिवाकीर्य प्रेक्षिता पारमाणवी ।
आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते ॥४२॥
द्विचन्द्रमोहवज्जाता स्वप्नवद्विहितभ्रमा ।
यथा नौयायिनः स्थाणुस्पन्दस्तद्वदिहोत्थिता ॥४३॥
अनयोपहते चित्ते दीर्घकालमिवाकुलैः ।
जनैराकल्प्यते दीर्घसंसारस्वप्नविभ्रमः ॥४४॥
अनयोपहते स्वस्मिंश्चित्राश्चेतसि विभ्रमाः ।
उत्पद्यन्ते विनश्यन्ति तरङ्गास्तोयधेरिव ॥४५॥
मनोज्ञमपि सत्यं च दृश्यते सदसत्तया ।
अमनोज्ञमसत्यं च दृश्यते सत्तयाप्यसत् ॥४६॥
पदार्थरथमारूढा भावनैषा बलान्विता ।
आक्रामति मनः क्षिप्रं विहगं वागुरा यथा ॥४७॥
करुणास्यन्दमानाक्षी स्रवन्क्षीरलवस्तनी ।
भवत्युल्लसितानन्दं जननी गृहिणी यथा ॥४८॥
विषीकरोति निःस्यन्दसंतर्पितजगत्त्रयम् ।
सुधार्द्रार्द्रमपि क्षिप्रं प्रवृद्धं बिम्बमैन्दवम् ॥४९॥
उन्मत्तरववेतालनर्तनारम्भसंभ्रमम् ।
स्थाणवः संप्रयच्छन्ति मूका अप्येतयान्धया ॥५०॥
संध्यादिषु च कालेषु लोष्टपाषाणभित्तयः ।
अस्याः प्रसादात्दृश्यन्ते सर्पाजगरदृष्टिभिः ॥५१॥
एकोऽपि द्वितयोदेति यथा द्विशशिदर्शने ।
दूरमभ्याशतां याति स्वप्ने स्वमरणं यथा ॥५२॥
आदीर्घं क्षणतामेति कालस्येष्टा यथा निशा ।
क्षणो वर्षमिवाभाति कान्ताविरहिणामिव ॥५३॥
न तदस्तीह यन्नाम न करोतीयमुद्धता ।
अस्यास्त्वकिंचनायास्तु शक्ततां पश्य राघव ॥५४॥
संरोधयेत्प्रयत्नेन संविदेवाशु संविदम् ।
सरित्स्रोतोनिरोधेन शुष्यत्येषा मनोनदी ॥५५॥
श्रीराम उवाच ।
अविद्यमानयैवेदं पेलवांग्या सुतुच्छया ।
मिथ्याभावनया नाम चित्रमन्धीकृतं जगत् ॥५६॥
अरूपया निराकृत्या चारुचेतनहीनया ।
असत्येवाप्यनश्यन्त्या चित्रमन्धीकृतं जगत् ॥५७॥
आलोकेन विनश्यन्त्या स्फुरन्त्या तमसोन्तरे ।
कौशिकेक्षणधर्मिण्या चित्रमन्धीकृतं जगत् ॥५८॥
कुकर्मैकान्तकारिण्या न सहन्त्या विलोकनम् ।
देहमप्यविजानन्त्या चित्रमन्धीकृतं जगत् ॥५९॥
सुदीनाचारधर्मिण्या नित्यं प्राकृतकान्तया ।
अनारतास्तंगतया चित्रमन्धीकृतं जगत् ॥६०॥
अनन्तदुःखाकुलया सदैव मृतयानया ।
संबोधहीनया यत्र चित्रमन्धीकृतं जगत् ॥६१॥
कामकोपघनाङ्गिन्या तमःप्रसरवक्रया ।
अचिरेणाशरीरिण्या चित्रमन्धीकृतं जगत् ॥६२॥
स्वात्मान्धरूपास्पदया जडया जाड्यजीर्णया ।
दुःखदीर्घप्रलापिन्या चित्रमन्धीकृतं जगत् ॥६३॥
पुरुषासङ्गसङ्गिन्या रागिण्या क्रिययानया ।
विद्रवन्त्या विवक्षासु चित्रमन्धीकृतः पुमान् ॥६४॥
पुरुषस्य न या शक्ता सोढुमीक्षितुमप्यलम् ।
तया स्त्रियावरणया चित्रमन्धीकृतः पुमान् ॥६५॥
न यस्याश्चेतनैवास्ति याप्यनष्टैव नश्यति ।
तया स्त्रिया परुषया चित्रमन्धीकृतः पुमान् ॥६६॥
अनन्तदुष्प्रसरविलासकारिणी
क्षयोदयोन्मुखसुखदुःखभागिनी ।
इयं प्रभो विगलति केन वाऽसमा
मनोगुहानिलयनिबद्धवासना ॥६७॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे अविद्यावर्णनं नाम त्रयोदशोत्तरशततमः सर्गः ॥११३॥
N/A
References : N/A
Last Updated : September 14, 2021
TOP