उत्पत्तिप्रकरणं - सर्गः ८८
योगवासिष्ठः
श्रीब्रह्मोवाच ।
ब्रह्माणो ब्राह्मणा भानुरित्युक्त्वा ब्रह्मणो मम ।
ब्रह्मन्ब्रह्मविदां श्रेष्ठ तूष्णीमेव बभूव सः ॥१॥
तत उक्तं मया तस्य चिरं संचिन्त्य चेतसा ।
भानो भानो वदाशु त्वं किमन्यत्संसृजाम्यहम् ॥२॥
एतानि दश विद्यन्ते किल यत्र जगन्ति वै ।
तत्रान्यो मम सर्गेण कोऽर्थः कथय भास्कर ॥३॥
इत्युक्तोऽथ मया भानुः संचिन्त्य सुचिरं धिया ।
इदमत्र वचो युक्तमुवाच स महामुने ॥४॥
भानुरुवाच ।
निरीहस्य निरिच्छस्य कोऽर्थः सर्गेण ते प्रभो ।
विनोदमात्रमेवेदं सृष्टिस्तव जगत्पते ॥५॥
निष्कामादेव भवतः सर्गः संपद्यते प्रभो ।
अर्कादिव जलादित्यप्रतिबिम्बमिवाधियः ॥६॥
शरीरसंनिवेशस्य त्यागे रागे च ते यदा ।
निष्कामो भगवन्भावो नाभिवाञ्छति नोज्झति ॥७॥
सृजसीदं तथा देव विनोदायैव भूतप ।
पुनः संहृत्य संहृत्य दिनं दिनपतिर्यथा ॥८॥
तव नित्यमसंसक्तं विनोदायैव केवलम् ।
इदं कर्तव्यमेवेति जगन्न तूद्यमेच्छया ॥९॥
सृष्टिं चेन्न करोषि त्वं महेश परमात्मनः ।
नित्यकर्मपरित्यागात्किमपूर्वमवाप्स्यसि ॥१०॥
यथाप्राप्तं हि कर्तव्यमसक्तेन सदा सता ।
मुकुरेणाकलङ्केन प्रतिबिम्बक्रिया यथा ॥११॥
यथैव कर्मकरणे कामना नास्ति धीमताम् ।
तथैव कर्मत्यागे कामना नास्ति धीमताम् ॥१२॥
अतः सुषुप्तोपमया धिया निष्कामया तया ।
सुषुप्तबुद्धसमया कुरु कार्यं यथागतम् ॥१३॥
सर्गैरथेन्दुपुत्राणां तोषमेषि जगत्प्रभो ।
तदेते तोषयिष्यन्ति तं त्वां सर्गात्सुरेश्वर ॥१४॥
चित्तनेत्रैर्भवानेतान्सर्गानन्यस्य नो दृशा ।
अवश्यं चक्षुषा सर्गं सृष्टमित्येव वेत्ति कः ॥१५॥
येनैव मनसा सर्गो निर्मितः परमेश्वर ।
स एव मांसनेत्रेण तं पश्यति हि नेतरः ॥१६॥
न चैतान्दश संसारान्दश नीरजसंभवान् ।
कश्चिन्नाशयितुं शक्तश्चित्तदार्ढ्याच्चिरस्थितान् ॥१७॥
कर्मेन्द्रियैर्यत्क्रियते तद्रोद्धुं किल युज्यते ।
न मनोनिश्चयकृतं कश्चिद्रोधयितुं क्षमः ॥१८॥
यो बद्धपदतां यातो जन्तोर्मनसि निश्चयः ।
स तेनैव विना ब्रह्मन्नान्येन विनिवार्यते ॥१९॥
बहुकालं यदभ्यस्तं मनसा दृढनिश्चयम् ।
शापेनापि न तस्यास्ति क्षयो नष्टेऽपि देहके ॥२०॥
यद्बद्धपीठमभितो मनसि प्ररूढं
तद्रूपमेव पुरुषो भवतीह नान्यत् ।
तद्बोधनादितरमत्र किलाभ्युपायं
शैलौघसेकमिव निष्फलमेव मन्ये ॥२१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० उत्पत्तिप्रकरणे ऐ० ऐन्दवनिश्चयकथनं नामाष्टाशीतितमः सर्गः ॥८८॥
N/A
References : N/A
Last Updated : September 14, 2021
TOP