संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ३५

उत्पत्तिप्रकरणम् - सर्गः ३५

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः ।
उत्ताण्डव इवोन्मत्तो बभूव स रणार्णवः ॥१॥
छत्रडिण्डीरविश्रान्तसितेषुशफरोत्करः ।
अश्वसैन्योल्लसल्लोलकल्लोलाकुलकोटरः ॥२॥
नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् ।
मत्तहस्तिघटापीठचलाचलकुलाचलः ॥३॥
कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः ।
धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः ॥४॥
मकरव्यूहविस्तारभग्नाभग्नभटौघनौ ।
महागुडुगुडावर्तप्रतिश्रुद्धनकन्दरः ॥५॥
मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः ।
हेतिवीचीवरालूनपताकावीचिमण्डलः ॥६॥
शस्त्रवारिकृताम्भोदसदृशावर्तकुण्डलः ।
संरम्भघनसंचारसेनातिमितिमिङ्गिलः ॥७॥
कृष्णायसपरीधानवलत्सेनाम्बुभीषणः ।
कबन्धावर्तलेखान्तर्बद्धसैन्यादिभूषणः ॥८॥
शरसीकरनीहारसान्धकारककुब्गणः ।
निर्घोषाशोषिताशेषशब्दैकघनघुंघुमः ॥९॥
पतनोत्पतनव्यग्रशिरःशकलसीकरः ।
आवर्तचक्रव्यूहेषु प्रभ्रमद्भटकाष्ठकः ॥१०॥
कष्टटाङ्कारकोदण्डकुण्डलोन्मथनोद्भटः ।
अशङ्कमेव पातालादिवोद्यत्सैनिकोर्मिमान् ॥११॥
गमागमपरानन्तपताकाच्छत्रफेनिलः ।
वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः ॥१२॥
गजप्रतिमसंपन्नमहारुधिरबुद्बुदः ।
सैन्यप्रवाहविचलद्धयहस्तिजलेचरः ॥१३॥
ससंग्रामोऽम्बरग्राम इवाश्चर्यकरो नृणाम् ।
अभूत्प्रलयभूकम्पकम्पिताचलचञ्चलः ॥१४॥
तरत्तरङ्गविहगः पतत्करिघटातटः ।
त्रस्तभीरुमृगानीकस्कूर्जद्धुरुघुरारवः ॥१५॥
सरच्छरालीशलभशतभङ्गुरसैनिकः ।
तरत्तरङ्गशरभः शरभारवनावनिः ॥१६॥
चलद्द्विरेफनिर्ह्रादो रसत्तूर्यगुहागुरुः ।
चिरात्स सैन्यजलदो लुठद्भटमृगाधिपः ॥१७॥
प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् ।
पतद्रथवराढ्याङ्गः प्रतपत्खङ्गमण्डलः ॥१८॥
प्रोत्पतत्पदपुष्पौघः पताकाच्छत्रवारिदः ।
वहद्रक्तनदीपूरपतत्साराववारणः ॥१९॥
सोऽभूत्समरकल्पान्तो जगत्कवलनाकुलः ।
पर्यस्तसध्वजच्छत्रपताकारथपत्तनः ॥२०॥
पतद्विमलहेत्यौघभूरिभास्वरभास्करः ।
कठिनप्राणसंतापतापिताखिलमानसः ॥२१॥
कोदण्डपुष्करावर्तशरधारानिरन्तरः ।
वहत्खंगशिलालेखाविद्युद्वलयिताम्बरः ॥२२॥
उच्छिन्नरक्तजलधिपतितेभकुलाचलः ।
नभोविकीर्णनिपतद्युत्तारकणतारकः ॥२३॥
चक्रकुल्याम्बुदावर्तपूर्णव्योमशिराम्बुदः ।
अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरक्रमः ॥२४॥
हेतिवर्षाशनिच्छन्नभूतलामलभूधरः ।
गजराजगिरिव्रातपातपिष्टजनव्रजः ॥२५॥
शरधाराघनानीकमेघच्छन्नमहीनभाः ।
महानीकार्णवक्षोभसंघट्टघटिताद्रवः ॥२६॥
व्याप्त उग्रानिलोद्भूतैर्जलव्यालैरिवाचलः ।
अन्योन्यदलनव्यग्रैः शस्त्रोत्पात इवोत्थितैः ॥२७॥
शूलासिचक्रशरशक्तिगदाभुशुण्डी-
प्रासादयो विदलनेन मिथो ध्वनन्तः ।
दीप्ता अधुर्दशदिशः शतशो भ्रमन्तः
कल्पान्तवातपरिवृत्तपदार्थलीलाम् ॥२८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे रणवर्णनं नाम पञ्चत्रिंशः सर्गः ॥३५॥

N/A

References : N/A
Last Updated : September 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP