उत्पत्तिप्रकरणं - सर्गः ५३
योगवासिष्ठः
श्रीवसिष्ठ उवाच ।
अथ लब्धवरा देहेनानेनैव महीपतिम् ।
पतिमाप्तुं प्रयात्येषा नभोमार्गेण विष्टपम् ॥१॥
इति संचिन्त्य सानन्दमुद्दाममकरध्वजा ।
पुप्लुवे पेलवाकारा पक्षिणीव नभस्तले ॥२॥
कुमारीं तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम् ।
स्वसंकल्पमहादर्शात्पुरतो निर्गतामिव ॥३॥
कुमार्युवाच ।
दुहितास्मि सखि ज्ञप्तेः स्वागतं तेऽस्तु सुन्दरि ।
प्रतीक्षमाणा त्वामेव स्थितास्मीह नभःपथि ॥४॥
लीलोवाच ।
देवि भर्तुः समीपं मां नय नीरजलोचने ।
महतां दर्शनं यस्मान्न कदाचन निष्फलम् ॥५॥
श्रीवसिष्ठ उवाच ।
एहि तत्रैव गच्छाव इत्युक्त्वा सा कुमारिका ।
पुरस्तस्याः स्थिता व्योम्नि मार्गदर्शनतत्परा ॥६॥
ततस्तदनुयाता सा प्राप कोटरमम्बरम् ।
निर्मलं करमालाग्रं यथा लक्षणलेखिका ॥७॥
मेघमार्गमथोल्लङ्घ्य वातस्कन्धान्तरे गता ।
सूर्यमार्गादभिगता तारामार्गमतीत्य च ॥८॥
वाय्विन्द्रसुरसिद्धानां लोकानुल्लङ्घ्य लाघवात् ।
ब्रह्मविष्णुमहेशानां प्राप ब्रह्माण्डखर्परम् ॥९॥
हिमशैत्यं यथान्तस्थं कुम्भेऽभिन्ने बहिर्भवेत् ।
तथा संकल्पसिद्धा सा ब्रह्माण्डान्निर्गता बहिः ॥१०॥
स्वचित्तमात्रदेहैषा स्वसंकल्पस्वभावजम् ।
अन्तरेवानुभवति किलैवं नाम विभ्रमम् ॥११॥
ब्रह्मादिस्थानमाक्रम्य प्राप्य ब्रह्माण्डखर्परम् ।
ततो ब्रह्माण्डपारस्था जलाद्यावरणानि च ॥१२॥
समुल्लङ्घ्य पुरः प्राप महाचिद्गगनान्तरम् ।
अदृष्टपारपर्यन्तमतिवेगेन धावता ।
सर्वतो गरुडेनापि कल्पकोटिशतैरपि ॥१३॥
तत्र ब्रह्माण्डलक्षाणि सन्त्यसंख्यानि भूरिशः ।
तान्यन्योन्यमदृष्टानि फलानीव महावने ॥१४॥
तत्रैकस्मिन्पुरःसंस्थे विततावरणान्विते ।
वेधयित्वा विवेशान्तर्बदरं कृमिको यथा ॥१५॥
पुनर्ब्रह्मेन्द्रविष्ण्वादिलोकानुल्लङ्घ्य भास्वरान् ।
तन्महीमण्डलं श्रीमत्प्राप तारापथादधः ॥१६॥
तत्र तन्मण्डलं प्राप्य तत्पुरं तच्च मण्डपम् ।
प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता ॥१७॥
एतस्मिन्नन्तरे सा च न ददर्श कुमारिकाम् ।
मायामिव परिज्ञाता क्वापि यातां वरानना ॥१८॥
मुखमालोक्य सा तस्य स्वभर्तुः शवरूपिणः ।
इदं बुद्धवती सत्यं प्रतिभावशतः स्वतः ॥१९॥
अयं स भर्ता संग्रामे निहतो मम सिन्धुना ।
वीरलोकानिमान्प्राप्य क्षणं शेते यथासुखम् ॥२०॥
अहं देव्याः प्रसादेन सशरीरैवमीदृशम् ।
इह प्राप्तवती धन्या मत्समा नास्ति काचन ॥२१॥
इति संचिन्त्य सा हस्ते गृहीत्वा चारु चामरम् ।
वीजयामास चन्द्रेण द्यीरिवावनिमण्डलम् ॥२२॥
प्रबुद्धलीलोवाच ।
ते भृत्यास्ताश्च वै दास्यः स राजा च प्रबुद्धवान् ।
वक्ष्यन्ति वदतां देवि किं कयैव कथं धिया ॥२३॥
श्रीदेव्युवाच ।
स राजा सा च ते भृत्याः सर्व एव परस्परम् ।
चिदाकाशैकतावेशादावयोश्च प्रभावतः ॥२४॥
महाचित्प्रतिभासत्वान्महानियतिनिश्चयात् ।
अन्योन्यमेवपश्यन्ति मिथः संप्रतिबिम्बितात् ॥२५॥
इयं मे सहजा भार्या ममेयं सहजा सखी ।
ममेयं सहजा राज्ञी भृत्योऽयं सहजो मम ॥२६॥
केवलं त्वमहं सा च यथावृत्तमखण्डितम् ।
ज्ञास्याम इदमाश्चर्यं नतु कश्चिदपीतरः ॥२७॥
प्रबुद्धलीलोवाच ।
अमुनैव शरीरेण किमर्थं न गता पतिम् ।
एषा वरेण संप्राप्ता लीला ललितवादिनी ॥२८॥
श्रीदेव्युवाच ।
अप्रबुद्धधियः सिद्धलोकान्पुण्यवशोदितान् ।
न समर्थाः स्वदेहेन प्राप्तुं छाया इवातपान् ॥२९॥
आदिसर्गे च नियतिः स्थापितेति प्रबोधिभिः ।
यथा सत्यमलीकेन न मिलत्येव किंचन ॥३०॥
यावद्वेतालसंकल्पो बालस्य किल विद्यते ।
निर्वेतालधियस्तावदुदयस्तस्य कः कथम् ॥३१॥
अविवेकज्वरोष्णत्वं विद्यते यावदात्मनि ।
तावद्विवेकशीतांशुशैत्यं कुत उदेत्यलम् ॥३२॥
अहं पृथ्व्यादिदेहः खे गतिर्नास्ति ममोत्तमा ।
इतिनिश्चयवान्योऽन्तः कथं स्यात्सोऽन्यनिश्चयः ॥३३॥
अतो ज्ञानविवेकेन पुण्येनाथ वरेण च ।
पुण्यदेहेन गच्छन्ति परं लोकमनेन तु ॥३४॥
शुष्कपर्णं किलाङ्गारे एतदेवाशु दह्यते ।
अयं देहमहंदेहः प्राप्त एव विशीर्यते ॥३५॥
एतावदेव भवति वरशापविजृम्भितैः ।
यथा संचिन्त्य एवाहं तथा स्मृत इति स्मृतिः ॥३६॥
यः सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत् ।
आत्मन्येव हि यो नास्ति तस्य का कार्यकारिता ॥३७॥
यस्त्वेतन्मृत इत्येव मिथ्या समनुभूयते ।
प्रागभ्यासस्य पुष्टस्य नामैतत्प्रविजृम्भते ॥३८॥
स्वानुभूते जगज्जाले सुगमा संस्मृतिभ्रमाः ।
नान्यसंकल्पितो नाम सर्गाद्यभ्यास ईदृशः ॥३९॥
अन्तरनुभूयमानाः संसृतयो बाह्यभूतजालानाम् ।
अविदितवेद्यदृशामपि दूरे पुंसामिवैन्दवं बिम्बम् ॥४०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० संसृतिविदितवेद्यं नाम त्रिपञ्चाशः सर्गः ॥५३॥
N/A
References : N/A
Last Updated : September 12, 2021
TOP