उत्पत्तिप्रकरणम् - सर्गः ३६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
अथ श्रृङ्गोपमानेषु स्थितेषु शरराशिषु ।
सर्वभीरुषु भग्नेषु विद्रुतेषु दिशो दश ॥१॥
मातङ्गशवशैलेषु विश्रान्ताम्बुदपङ्कतिषु ।
यक्षरक्षःपिशाचेषु क्रीडत्सु रुधिरार्णवे ॥२॥
महतां धर्मनिष्ठानां शीलौजःसत्त्वशालिनाम् ।
शुद्धानां कुलपद्मानां वीराणामनिवर्तिनाम् ॥३॥
द्वन्द्वयुद्धानि जातानि मेघानामिव गर्जताम् ।
मिथोनिगरणोत्कानि मिलन्त्यापगपूरवत् ॥४॥
पञ्जरः पञ्जरेणेव गजौघेन गजोच्चयः ।
सवनः सवनेनाद्रिरद्रिणेवामिलद्वलात् ॥५॥
अश्वौघो मिलदश्वानां वृन्देनाराविरंहसा ।
तरङ्गौघेन घोषेण तरङ्गौघ इवार्णवे ॥६॥
नरानीकं नरानीकः समायुधमयोधयत् ।
वेण्वोघमिव वेण्वोघो मरुल्लोलो मरुद्वलम् ॥७॥
रथौघश्च रथौघेन निष्पिपेषाखिलं वपुः ।
नगरं नगरेणेव दैवेनोड्डीनमासुरम् ॥८॥
सरच्छरभरासाररचितापूर्ववारिदम् ।
युयुधे स्थगिताकाशा धनुर्धरपताकिनी ॥९॥
विषमायुधयुद्धेषु योद्धारः पेलवाशयाः ।
यदा युक्त्या पलायन्ते रणकल्पानले तदा ॥१०॥
मिलिताश्चक्रिणश्चक्रैर्धनुर्धारैर्धनुर्धराः ।
खङ्गिभिः खङ्गयोद्धारो भुशुण्डीभिर्भुशुण्डयः ॥११॥
मुसलैर्मुसलोदाराः कुन्तिनः कुन्तिधारिभिः ।
ऋष्ट्यायुधा ऋष्टिधरैः प्रासिभिः प्रासपाणयः ॥१२॥
समुद्गरा मुद्गरिभिः सगदैर्विलसद्गदाः ।
शाक्तिकैः शक्तियोद्धारः शूलैः शूलविशारदाः ॥१३॥
प्रासासनविदः प्रासैः परशूक्ताः परश्वधैः ।
लकुटोद्यैर्लकुटिनश्चोपलैरुपलायुधाः ॥१४॥
पाशिभिः पाशधारिण्यः शङ्कुभिः शङ्कुधारिणः ।
क्षुरिकाभिस्तु क्षुरिका भिन्दिपालैश्च तद्गताः ॥१५॥
वज्रमुष्टिधरा वज्रैरङ्कुशैरङ्कुशोद्धताः ।
हलैर्हलनिकाषज्ञास्त्रिशूलैश्च त्रिशूलिनः ॥१६॥
श्रृङ्खलाजालिनो जालैः श्रृङ्खलैरलिकोमलैः ।
क्षुभिताकल्पविक्षुब्धसागरोर्मिघटा इव ॥१७॥
क्षुब्धचक्रदलावर्तः शरसीकरमारुतः ।
प्रभ्रमद्धेतिमकरो व्योमैकार्णव आबभौ ॥१८॥
उत्फुल्लायुधकल्लोलशिराकुलजलेचरः ।
रोदोरन्ध्रसमुद्रोऽसौ बभूवामरदुस्तरः ॥१९॥
दिव्याष्टकजनानीकं पक्षद्वयतया तया ।
अर्धेनार्धेन कुपितं भूपालाभ्यां तथा स्थितम् ॥२०॥
मध्यदेशादिसंख्याने प्राग्दिभ्योऽभ्यागतानिमान् ।
लीलानाथस्य पद्मस्य पक्षे जनपदाञ्छृणु ॥२१॥
पूर्वस्यां कोसलाः काशिमागधा मिथिलोत्कलाः ।
मेखलाः कर्करा मुद्रास्तथा संग्रामशौण्डकाः ॥२२॥
मुख्या हिमा रुद्रमुख्यास्ताम्रलिप्तास्तथैव च ।
प्राग्ज्योतिषा वाजिमुखा अम्बष्ठाः पुरुषादकाः ॥२३॥
वर्णकोष्ठाः सविश्वोत्रा आममीनाशनास्तथा ।
व्याघ्रवक्राः किराताश्च सौवीरा एकपादकाः ॥२४॥
माल्यवान्नाम शैलोऽत्र शिविराञ्जन एव च ।
वृषलध्वजपद्माद्यास्तथोदयकरोगिरिः ॥२५॥
अथ प्राग्दक्षिणायां तु इमे विन्ध्यादिवासिनः ।
चेदयो वत्सदाशार्णा अङ्गवङ्गोपवङ्गकाः ॥२६॥
कलिङ्गपुण्ड्रजठरा विदर्भा मेखलास्तथा ।
शबराननवर्णाश्च कर्णात्रिपुरपूरकाः ॥२७॥
कण्टकस्थलनामानः पृथग्दीपककोमलाः ।
कर्णान्ध्राश्चौलिकाश्चैव तथा चार्मण्वता अपि ॥२८॥
काकका हेमकुड्याश्च तथा श्मश्रुधरा अपि ।
बलिग्रीवमहाग्रीवाः किष्किन्धा नालिकेरिणः ॥२९॥
अथ लीलापतेरस्य दक्षिणस्यामिमे नृपाः ।
विन्ध्योऽथ कुसुमापीडो महेन्द्रो दर्दुरस्तथा ॥३०॥
मलयः सूर्यवांश्चैव गणा राज्यसमृद्धकाः ।
अवन्तीरिति विख्यातास्तथा शाम्बवतीति च ॥३१॥
दशपूरकथाचक्रारेषिकातुरकच्छपाः ।
वनवासोपगिरयस्ते भद्रगिरयस्तथा ॥३२॥
नागरा दण्डकाश्चैव गणराष्ट्रनृराष्ट्रकाः ।
साहा शैवार्प्यमूकाश्च कर्कोटा वनविम्बलाः ॥३३॥
पम्पानिवासिनश्चैव कैरकाः कर्कवीरकाः ।
स्वेरिका यासिकाश्चैव धर्मपत्तनपञ्जिकाः ॥३४॥
काशिकास्तृष्णखल्लूला यादास्ते ताम्रपर्णकाः ।
गोनर्दाः कनकाश्चैव दीनपत्तनमामकाः ॥३५॥
ताम्रीका दम्भराकीर्णाः सहकौरणकास्तथा ।
वैतुण्डकास्तुम्बवनालाजिनद्वीपकर्णिकाः ॥३६॥
कर्णिकाभाश्च शिवयः कौङ्कणाश्चित्रकूटकाः ।
कर्णाटमण्टवटका महाकटकिकास्तथा ॥३७॥
आन्ध्राश्च कोलगिरयश्चावन्तिकविचेरिकाः ।
चण्डायत्ता देवनकाः क्रौञ्चा वाहास्तथैव च ॥३८॥
शिलाक्षारोदभोनन्दमर्दना मलयाभिधाः ।
ते चित्रकूटशिखरा लङ्कारक्षोगणाः स्मृताः ॥३९॥
अथ प्रत्यग्दक्षिणस्यां महाराज्यसुराष्ट्रकाः ।
सिन्धुसौवीरशूद्राख्या आभीरा द्रविडास्तथा ॥४०॥
कीकटाः सिद्धखण्डाख्यास्तथा कालिरुहा अपि ।
अत्र हेमगिरिः शैलस्तथा रैवतको गिरिः ॥४१॥
जयकच्छो मयवरो यवनास्तत्र जन्तवः ।
बाह्लीका मार्गणावन्ता धूम्रास्तुम्बकनामकाः ॥४२॥
तथा लाजगणाश्चैव तथात्र गिरिवासिनः ।
ततोऽब्धितोकनियुता एते लीलापतेर्जनाः ॥४३॥
अथ तत्प्रतिपक्षस्थानिमाञ्जनपदाञ्श्रृणु ।
पश्चिमायां दिशि प्रौढा इमे तावन्महाद्रयः ॥४४॥
मणिमान्नाम शैलेन्द्रः कुरार्पणगिरिस्तथा ।
वनोऽर्कहो मेघभवश्चक्रवानस्तपर्वतः ॥४५॥
जनाः पञ्चजना नाम काशब्रह्मचयान्तकाः ।
तथैव भारक्षतथाः पारकाः शान्तिकास्तथा ॥४६॥
शैव्यारमरकायाच्छा गुहुत्वा नियमास्तथा ।
हैहयाः सुह्मगायाश्च ताजिका हूणकास्तथा ॥४७॥
पार्श्वेकतकयोः कर्का गिरिपर्णावमास्तथा ।
संत्यक्तधर्ममर्यादास्ते वर्णा म्लेच्छजातयः ॥४८॥
ततोऽजनपदा भूमिर्योजनानां शतद्वयम् ।
ततो महेन्द्रशिखरी मुक्तामणिमयावनिः ॥४९॥
युते महीधरशतैरथाश्वो नाम पर्वतः ।
ततो महार्णवो भीमः पारियात्रगिरिस्तटे ॥५०॥
पश्चिमोत्तरदिग्भागे देशो गिरिमति स्थितः ।
तथा वेणुपतिश्चैव ततो नरपतिर्मही ॥५१॥
तथा फल्गुणकाश्चैव माण्डव्यानेकनेत्रकाः ।
पुरुकुन्दाश्च पाराश्च भानुमण्डलभावनाः ॥५२॥
वन्मिला नलिना दीर्घा दीर्घकेशाङ्गबाहवः ।
रङ्गाश्च स्तनिकाश्चान्या गुरुहाश्चलुहास्तथा ॥५३॥
ततः स्त्रीराष्ट्रमतुलं गोवृषापत्यभोजनम् ।
अथोत्तरस्यां हिमवान्क्रौञ्चोऽथ मधुमान्गिरिः ॥५४॥
कैलासो वसुमान्मेरुस्तत्पादेषु जना उभे ।
मद्रावारेवयौधेया मालवाः शूरसेनिकाः ॥५५॥
राजन्याश्च तथा ज्ञेया अर्जुनातनयस्तथा ।
त्रिगर्त एकपात्क्षुद्रामबलास्वस्तवासिनः ॥५६॥
अबलाः प्रखलाः शाकाः क्षेमधूर्तय एव च ।
दशधानागावसन्यदण्डाहन्यसनास्तथा ॥५७॥
धानदाः सरकाश्चैव वाटधानास्तथैव च ।
अन्तरद्वीपगान्धारास्तथावन्तिसुरास्तथा ॥५८॥
अथ तक्षशिला नाम ततो वीलवगोधनी ।
पुष्करावर्तदेशस्य यशोवतिमही ततः ॥५९॥
ततो नाभिमतिर्भूमिस्तिक्षा कालवरास्तथा ।
काहकं नगरं चैव सुरभूतिपुरं तथा ॥६०॥
तथैव रतिकादर्शा अन्तरादर्श एव च ।
ततः पिङ्गलपाण्डव्यं यामुने यातुधानकाः ॥६१॥
मानवा नांगना हेमतालाः स्वस्वमुखास्तथा ।
हिमवान्वसुमान्क्रौञ्चकैलासावित्यगास्तथा ॥६२॥
ततोऽजनपदा भूमिरशीतिशतयोजना ।
अथ प्रागुत्तरस्यां तु क्रमाज्जनपदाञ्छृणु ॥६३॥
कालुता ब्रह्मपुत्राश्च कुणिदाः खदिनास्तथा ।
मालवा रन्ध्रराज्याश्च वना राष्ट्रास्तथैव च ॥६४॥
केडवस्ताः सिंहपुत्रास्तथा वामनतां गताः ।
सावाकच्चापलवहाः कामिरा दरदास्तथा ॥६५॥
अभिसासदजार्वाकाः पलोलकुविकौतुकाः ।
किरातायामुपाताश्च दीनाः स्वर्णमही ततः ॥६६॥
देवस्थलोपवनभूस्तदनूदितश्री-
र्विश्वावसोस्तदनु मन्दिरमुत्तमं च ।
कैलासभूस्तदनु मञ्जुवनश्च शैलो
विद्याधरामरविमानसमानभूमिः ॥६७॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० जनपदवर्णनं नाम षटत्रिंशः सर्गः ॥३६॥
N/A
References : N/A
Last Updated : September 11, 2021
TOP