संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ११२

उत्पत्तिप्रकरणं - सर्गः ११२

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
यस्मिंस्तस्मिन्पदार्थे हि येन तेन यथा तथा ।
तीव्रसंवेगसंपन्नं मनः पश्यति वाञ्छितम् ॥१॥
जायते म्रियते चैषा मनसस्तीव्रवेगिता ।
सौम्याम्बुबुद्बुदालीव निर्निमित्ता स्वभावतः ॥२॥
शीतता तुहिनस्येव कज्जलस्येव कृष्णता ।
लोलता मनसो रूपं तीव्रातीव्रैकरूपिणी ॥३॥
श्रीराम उवाच ।
कथमस्यातिलोलस्य वेगो वेगैककारणम् ।
चलता मनसो ब्रह्मन्बलतो विनिवार्यते ॥४॥
श्रीवसिष्ठ उवाच ।
नेह चञ्चलताहीनं मनः क्वचन दृश्यते ।
चञ्चलत्वं मनोधर्मो वह्णेर्धर्मो यथोष्णता ॥५॥
यैषा हि चञ्चला स्पन्दशक्तिश्चित्तत्वसंस्थिता ।
तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम् ॥६॥
स्पन्दास्पन्दादृते वायोर्यथा सत्तैव नोह्यते ।
तथा न चित्तसत्तास्ति चञ्चलस्पन्दनादृते ॥७॥
यत्तु चञ्चलताहीनं तन्मनो मृतमुच्यते ।
तदेव च तपःशास्त्रसिद्धान्तो मोक्ष उच्यते ॥८॥
मनोविलयमात्रेण दुःखशान्तिरवाप्यते ।
मनोमननमात्रेण दुःखं परमवाप्यते ॥९॥
दुःखमुत्पादयत्युच्चेरुत्थितश्चित्तराक्षसः ।
सुखायानन्तभोगाय तं प्रयत्नेन पातय ॥१०॥
तस्य चञ्चलता यैषा त्वविद्या राम सोच्यते ।
वासनापदनाम्नीं तां विचारेण विनाशय ॥११॥
अविद्यया वासनया तयान्तश्चित्तसत्तया ।
विलीनया त्यागवशात्परं श्रेयोऽधिगम्यते ॥१२॥
यत्तत्सदसतोर्मध्यं यन्मध्यं चित्त्वजाड्ययोः ।
तन्मनः प्रोच्यते राम द्वयोर्दोलायिताकृति ॥१३॥
जाड्यानुसंधानहतं जाड्यात्मकतयेद्धया ।
चेतो जडत्वमायाति दृढाभ्यासवशेन हि ॥१४॥
विवेकैकानुसंधानाच्चिदंशात्मतया मनः ।
चिदेकतामुपायाति दृढाभ्यासवशादिह ॥१५॥
पौरुषेण प्रयत्नेन यस्मिन्नेव पदे मनः ।
पात्यते तत्पदं प्राप्य भवत्यभ्यासतो हि तत् ॥१६॥
पुनः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा ।
विशोकं पदमाश्रित्य निराशङ्कः स्थिरो भव ॥१७॥
भवभावनया मग्नं मनसैव न चेन्मनः ।
बलादुत्तार्यते राम तदुपायोऽस्ति नेतरः ॥१८॥
मन एव समर्थं वो मनसो दृढनिग्रहे ।
अराजा कः समर्थः स्याद्राज्ञो राघव निग्रहे ॥१९॥
तृष्णाग्राहगृहीतानां संसारार्णवरंहसि ।
आवर्तैरुह्यमानानां दूरे स्वं मन एव नौः ॥२०॥
मनसैव मनश्छित्त्वा पाशं परमबन्धनम् ।
उन्मोचितो न येनात्मा नासावन्येन मोक्ष्यते ॥२१॥
या योदेति मनोनाम्नी वासना वासितान्तरा ।
तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् ॥२२॥
भोगौघवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् ।
भावाभावौ ततस्त्यक्त्वा निर्विकल्पःसुखीभव॥२३॥
अभावनं भावनायास्त्वेतावान्वासनाक्षयः ।
एष एव मनोनाशस्त्वविद्यानाश उच्यते ॥२४॥
यद्यत्संवेद्यते किंचित्तत्रासंवेदनं परम् ।
असंवित्तिस्तु निर्वाणं दुःखं संवेदनाद्भवेत् ॥२५॥
स्वेनैव तत्प्रयत्नेन पुंसः संवेद्यते क्षणात् ।
भावस्याभावनं भूत्यै तत्तस्मान्नित्यमाहरेत् ॥२६॥
रागादयो ये मनसीप्सितास्ते
बुद्ध्वेह तांस्तांस्त्वमवस्तुभूतान् ।
त्यक्त्वा तदास्याङ्कुरमस्तबीजं
मा हर्षशोकं समुपैहि तृप्तः ॥२७॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० मुखरवेणोपदेशांशकथनं नाम द्वादशोत्तरशततमः सर्गः ॥११२॥

N/A

References : N/A
Last Updated : September 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP