संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ४

उत्पत्तिप्रकरणं - सर्गः ४

योगवासिष्ठः


श्रीवाल्मीकिरुवाच ।
कथयत्येवमुद्दामवचने मुनिनायके ।
श्रोतुमेकरसे जाते जने मौनमुपस्थिते ॥१॥
शान्तेषु किङ्किणीजालरवेषु स्पन्दनं विना ।
पञ्जरान्तरहारीतशुकेष्वप्यस्तकेलिषु ॥२॥
सुविस्मृतविलासासु स्थितासु ललनास्वपि ।
चित्रभित्ताविव न्यस्ते समस्ते राजसद्मनि ॥३॥
मुहूर्तशेषमभवद्दिवसं मधुरातपम् ।
व्यवहारा रविकरैः सह तानवमाययुः ॥४॥
ववुरुत्फुल्लकमलप्रकरामोदमांसलाः ।
वायवो मधुरस्पन्दाः श्रवणार्थमिवागताः ॥५॥
श्रुतं चिन्तयितुं भानुरिवाहोरचनाभ्रमम् ।
तत्याजैकान्तमगमच्छून्यमस्तगिरेस्तटम् ॥६॥
उत्तस्थुर्मिहिकारम्भसमता वनभूमिषु ।
विज्ञानश्रवणादन्तःशीतलाः शान्तता इव ॥७॥
बभूवुरल्पसंचारा जना दशसु दिक्ष्वपि ।
सावधानतया श्रोतुमिव संत्यक्तचेष्टिताः ॥८॥
छाया दीर्घत्वमाजग्मुर्वासिष्ठं वचनक्रमम् ।
इव श्रोतुमशेषाणां वस्तूनां दीर्घकन्धराः ॥९॥
प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् ।
देव स्नानद्विजार्चासु कालो व्यतिगतो भृशम् ॥१०॥
ततो वसिष्ठो भगवान्संहृत्य मधुरां गिरम् ।
अद्य तावन्महाराज श्रुतमेतावदस्तु वः ॥११॥
प्रातरन्यद्वदिष्यामि इत्युक्त्वा मौनवानभूत् ।
इत्याकर्ण्यैवमस्तूक्त्वा भूपतिर्भूतिवृद्धये ॥१२॥
पुष्पपाद्यार्घसन्मानदक्षिणादानपूजया ।
सदेवर्षिमुनीन्विप्रान्पूजयामास सादरम् ॥१३॥
अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला ।
मण्डलाकीर्णरत्नौघपरिवेषावृतानना ॥१४॥
परस्पराङ्गसंघट्टरणत्केयूरकङ्कणा ।
हारभाराहृतस्वर्णपट्टाभोरुस्तनान्तरा ॥१५॥
शेखरोत्सङ्गविश्रान्तप्रबुद्धमधुपस्वनैः ।
सघुंघुमशिरोभारा वदद्भिरिव मूर्धजैः ॥१६॥
काञ्चनाभरणोद्द्योतकनकीकृतदिंग्मुखाः ।
बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः ॥१७॥
जग्मुर्नभश्चरा व्योम भूचरा भूमिमण्डलम् ।
चक्रुर्दिनसमाचारं सर्वे ते स्वेषु सद्मसु ॥१८॥
एतस्मिन्नन्तरे श्यामा यामिनी समदृश्यत ।
जनसङ्गाद्विनिर्मुक्ता गृहे बालाङ्गना यथा ॥१९॥
देशान्तरं भासयितुं ययौ दिवसनायकः ।
सर्वत्रालोककर्तृत्वमेव सत्पुरुषव्रतम् ॥२०॥
उदभूदभितः संध्या तारानिकरधारिणी ।
उत्फुल्लकिंशुकवना वसन्तश्रीरिवोदिता ॥२१॥
चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे ।
निलिल्यिरे खगाश्चित्तेऽवदाता वृत्तयो यथा ॥२२॥
भानोर्भासा भूषितैर्मेघलेशैः
किंचित्किंचित्कुङ्कुमच्छाययेव ।
पाश्चात्त्योऽद्रिः पीतवासाः समेघैः-
स्ताराहारः श्रीयुतः खं समेतः ॥२३॥
पूजामादाय संध्यायां प्रगतायां यथागतम् ।
अन्धकाराः समुत्तस्थुर्वेताला वपुषा यथा ॥२४॥
अवश्यायकणास्पन्दी हेलाविद्युतपल्लवः ।
कोमलः कुमुदाशंसी ववावाशीतलोऽनिलः ॥२५॥
परमान्ध्यमुपाजग्मुदिशोऽविस्फुटतारकाः ।
लम्बदीर्घतमःकेश्यो विधवा इव योषितः ॥२६॥
आययौ भुवनं तेजः क्षीरपूरेण पूरयन् ।
रसायनमयाकारः शशिक्षीरार्णवो नभः ॥२७॥
जग्मुस्तिमिरसंघाताः पलाय्य क्वाप्यदृश्यताम् ।
श्रुतज्ञानगिरश्चित्तान्महीपानामिवाज्ञताः ॥२८॥
ऋषयो भूमिपालाश्च मुनयो ब्राह्मणास्तथा ।
चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः ॥२९॥
यमकायोपमाश्यामा ययौ तिमिरमांसला ।
आययौ मिहिकास्फारा तत्र तेषामुषः शनैः ॥३०॥
अन्तर्धानमुपाजग्मुस्तारा नभसि भासुराः ।
प्रभातपवनेनेव हृताः कुसुमवृष्टयः ॥३१॥
दृश्यतामाजगामार्कः प्रभोन्मीलितलोचनः ।
विवेकवृत्तिर्महतां मनसीव नवोदिता ॥३२॥
भानोर्भासा भूषितैर्मेघलेशैः
किंचित्किंचित्कुङ्कुमच्छाययेव ।
पूर्वक्ष्माभृत्पीतवासाः समेघै-
स्ताराहारः श्रीयुतः खं समेतः ॥३३॥
सभां पुनरुपाजग्मुर्नभश्चरमहीचराः ।
ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः ॥३४॥
पूर्ववत्संनिवेशेन विवेश सकला सभा ।
बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी ॥३५॥
अथ प्रसङ्गमासाद्य रामो मधुरया गिरा ।
उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् ॥३६॥
श्रीराम उवाच ।
भगवन्मनसो रूपं कीदृशं वद मे स्फुटम् ।
यस्मात्तेनेयमखिला तन्यते लोकमञ्जरी ॥३७॥
श्रीवसिष्ठ उवाच ।
रामास्य मनसो रूपं न किंचिदपि दृश्यते ।
नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः ॥३८॥
न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
सर्वत्रैव स्थितं चैतद्विद्धि राम यथा नभः ॥३९॥
इदमस्मात्समुत्पन्नं मृगतृष्णाम्बुसंनिभम् ।
रूपं तु क्षणसंकल्पाद्द्वितीयेन्दुभ्रमोपमम् ॥४०॥
मध्ये यदेतदर्थस्य प्रतिभानं प्रथां गतम् ।
सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत् ॥४१॥
यदर्थप्रतिभानं तन्मन इत्यभिधीयते ।
अन्यन्न किंचिदप्यस्ति मनो नाम कदाचन ॥४२॥
संकल्पनं मनो विद्धि संकल्पात्तन्न भिद्यते ।
यथो द्रवत्वात्सलिलं तथा स्पन्दो यथानिलात् ॥४३॥
यत्र संकल्पनं तत्र तन्मनोऽङ्ग तथा स्थितम् ।
संकल्पमनसी भिन्ने न कदाचन केचन ॥४४॥
सत्यमस्त्वथवाऽसत्यं पदार्थप्रतिभासनम् ।
तावन्मात्रं मनो विद्धि तद्ब्रह्मैव पितामहः ॥४५॥
आतिवाहिकदेहात्मा मन इत्यभिधीयते ।
आधिभौतिकबुद्धिं तु स आधत्ते चिरस्थितेः ॥४६॥
अविद्या संसृतिश्चित्तं मनो बन्धो मलस्तमः ।
इति पर्यायनामानि दृश्यस्य विदुरुत्तमाः ॥४७॥
नहि दृश्यादृते किंचिन्मनसो रूपमस्ति हि ।
दृश्यं चोत्पन्नमेवैतन्नेति वक्ष्याम्यहं पुनः ॥४८॥
यथा कमलबीजान्तः स्थिता कमलवल्लरी ।
महाचित्परमाण्वन्तस्तथा दृश्यं जगत्स्थितम् ॥४९॥
प्रकाशस्य यथाऽऽलोको यथा वातस्य चापलम् ।
यथा द्रवत्वं पयसि दृश्यत्वं द्रष्टरीदृशम् ॥५०॥
अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् ।
भित्तिर्यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः ॥५१॥
एवं द्रष्टरि दृश्यत्वमनन्यदिव यत्स्थितम् ।
तदप्युन्मार्जयाम्याशु त्वच्चित्तादर्शतो मलम् ॥५२॥
यद्द्रष्टुरस्याद्रष्टृत्वं दृश्याभावे भवेद्वलात् ।
तद्विद्धि केवलीभावं तत एवासतः सतः ॥५३॥
तत्तामुपगते भावे रागद्वेषादिवासनाः ।
शाम्यन्त्यस्पन्दिते वाते स्पन्दनक्षुब्धता यथा ॥५४॥
असंभवति सर्वस्मिन्दिग्भूम्याकाशरूपिणि ।
प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥५५॥
त्रिजगत्त्वमहं चेति दृश्येऽसत्तामुपागते ।
द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः ॥५६॥
अनाप्ताखिलशैलादि प्रतिबिम्बे हि यादृशी ।
स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥५७॥
अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे ।
स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे ॥५८॥
श्रीराम उवाच ।
सच्चेन्न शाम्यत्येवेदं नाभावो विद्यते सतः ।
असत्तां च न विद्मोऽस्मिन्दृश्ये दोषप्रदायिनि ॥५९॥
तस्मात्कथमियं शाम्येद्ब्रह्मन्दृश्यविषूचिका ।
मनोभवभ्रमकरी दुःखसंततिदायिनी ॥६०॥
श्रीवसिष्ठ उवाच ।
अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रमिमं श्रृणु ।
रामात्यन्तमयं येन मृतिमेष्यति नङक्ष्यति ॥६१॥
यदस्ति तस्य नाशोऽस्ति न कदाचन राघव ।
तस्मात्तन्नष्टमप्यन्तर्बीजभूतं भवेद्धृदि ॥६२॥
स्मृतिबीजाच्चिदाकाशे पुनरुद्भूय दृश्यधीः ।
लोकशैलाम्बराकारं दोषं वितनुतेऽतनुम् ॥६३॥
इत्यनिर्मोक्षदोषः स्यान्न च तस्येह संभवः ।
यस्माद्देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् ॥६४॥
यदि स्याज्जगदादीदं तस्मान्मोक्षो न कस्यचित् ।
बाह्यस्थमस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् ॥६५॥
तस्मादिमां प्रतिज्ञां त्वं श्रृणु रामातिभीषणाम् ।
यामुत्तरेण ग्रन्थेन नूनं त्वमवबुध्यसे ॥६६॥
अयमाकाशभूतादिरूपोऽहं चेति लक्षितः ।
जगच्छब्दस्य नामार्थो ननु नास्त्येव कश्चन ॥६७॥
यदिदं दृश्यते किंचिद्दृश्यजातं पुरोगतम् ।
परं ब्रह्मैव तत्सर्वमजरामरमव्ययम् ॥६८॥
पूर्णे पूर्णं प्रसरति शान्ते शान्तं व्यवस्थितम् ।
व्योमन्येवोदितं व्योम ब्रह्मणि ब्रह्म तिष्ठति ॥६९॥
न दृश्यमस्ति सद्रूपं न द्रष्टा न च दर्शनम् ।
न शून्यं न जडं नो चिच्छान्तमेवेदमाततम् ॥७०॥
श्रीराम उवाच ।
वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रगायति ।
प्रसार्य भुजसंपातं शिला नृत्यति ताण्डवम् ॥७१॥
स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः ।
गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ॥७२॥
जरामरणदुःखादिशैलाकाशमयं जगत् ।
नास्तीति किमिदं नाम भवताऽपि ममोच्यते ॥७३॥
यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते ।
तथा कथय मे ब्रह्मन्येनैतन्निश्चितं भवेत् ॥७४॥
श्रीवसिष्ठ उवाच ।
नासमन्वितवागस्मि श्रृणु राघव कथ्यते ।
यथेदमसदाभाति वन्ध्यापुत्र इवाऽऽरवी ॥७५॥
इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम् ।
इदं हि मनसो भाति स्वप्नादौ पत्तनं यथा ॥७६॥
मन एव च सर्गादावनुत्पन्नमसद्वपुः ।
तदेतच्छ्रणु वक्ष्यामि यथैवमनुभूयते ॥७७॥
मनोदृश्यमयं दोषं तनोतीमं क्षयात्मकम् ।
असदेव सदाकारं स्वप्नः स्वप्नान्तरं यथा ॥७८॥
तत्स्वयं स्वैरमेवाशु संकल्पयति देहकम् ।
तेनेयमिन्द्रजालश्रीर्विततेन वितन्यते ॥७९॥
स्फुरति वल्गति गच्छति याचते
भ्रमति मज्जति संहरति स्वयम् ।
अपरतामुपयात्यपि केवलं
चलति चञ्चलशक्तितया मनः ॥८०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे उत्पत्तिप्रकरणार्थकल्पनं नाम चतुर्थः सर्गः ॥४॥

N/A

References : N/A
Last Updated : September 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP