संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्| सर्गः १४ उत्पत्तिप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ उत्पत्तिप्रकरणम् - सर्गः १४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इत्थं जगदहंतादिदृश्यजातं न किंचन ।अजातत्वाच्च नास्त्वेव यच्चास्ति परमेव तत् ॥१॥परमाकाशमेवादौ जीवतां चेतति स्वयम् ।निःस्पन्दाम्भोधिकुहरे सलिलं स्पन्दतामिव ॥२॥आकाशरूपमजहदेवं वेत्तीव हृद्यताम् ।स्वप्नसंकल्पशैलादाविव चिद्वृत्तिरान्तरी ॥३॥पृथ्व्यादिरहितो देहो यो विंराडात्मको महान् ।आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ॥४॥अक्षयः स्वप्नशैलाभः स्थिरस्वप्नपुरोपमः ।चित्रकृत्स्थिरचित्तस्थचित्रसैन्यसमाकृतिः ॥५॥अनिखातमहास्तम्भपुत्रिकौघसमोपमः ।ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे शालभञ्जिका ॥६॥आद्यः प्रजापतिः एवं स्वयंभूरिति विश्रुतः ।प्राक्तनानां स्वकार्याणामभावादप्यकारणः ॥७॥महाप्रलयपर्यन्तेष्वाद्यकालपितामहाः ।मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ॥८॥सोऽकुड्य एव कुड्यात्मा दृश्यादृश्यः स्वयंस्थितः ।न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च ॥९॥प्रतिशब्दपदार्थानां सर्वेषामेष एव सः ।तस्मादुदेति जीवाली दीपाली दीपकादिव ॥१०॥संकल्प एव संकल्पात्किलैति क्ष्मादिवर्जितः ।आदिमादिव निःशून्यः स्वप्नात्स्वप्नान्तरं यथा ॥११॥अस्मादेकप्रतिस्पन्दाज्जीवाः संप्रसरन्ति ये ।सहकारिकारणानामभावाच्च स एव ते ॥१२॥सहकारिकारणानामभावे कार्यकारणम् ।एकमेतदतो नान्यः परस्मात्सर्गविभ्रमः ॥१३॥ब्रह्मवाद्यो विराडात्मा विराडात्मेव सर्गता ।जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्यसद्यतः ॥१४॥श्रीराम उवाच ।किं स्यात्परिमितो जीवो राशिराहो अनन्तकः ।आहोस्विदस्त्यनन्तात्मा जीवपिण्डोऽचलोपमः ॥१५॥धाराः पयोमुच इव शीकरा इव वारिधेः ।कणास्तप्तायस इव कस्मान्निर्यान्ति जीवकाः ॥१६॥इति मे भगवन्ब्रूहि जीवजालविनिर्णयम् ।ज्ञातमेतन्मया प्रायस्तदेव प्रकटीकुरु ॥१७॥श्रीवसिष्ठ उवाच ।एक एव न जीवोऽस्ति राशीनां संभवः कुतः ।शशशृङ्गं समुड्डीय प्रयातीव हि ते वचः ॥१८॥न जीवोऽस्ति न जीवानां राशयः सन्ति राघव ।न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन ॥१९॥जीवशब्दार्थकलनाः समस्तकलनान्विताः ।नेह काश्चन सन्तीति निश्चयोऽस्तु तवाचलः ॥२०॥शुद्धचिन्मात्रममलं ब्रह्मास्तीह हि सर्वगम् ।तद्यथा सर्वशक्तित्वाद्विन्दते याः स्वयं कलाः ॥२१॥चिन्मात्रानुक्रमेणैव संप्रफुल्ललतामिव ।ननु मूर्ताममूर्ता वा तामेवाशु प्रपश्यति ॥२२॥जीवो बुद्धिः क्रियास्पन्दो मनोद्वित्वैक्यमित्यपि ।स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने ॥२३॥साऽबुद्धैव भवत्येवं भवेद्ब्रह्मैव बोधतः ।अबोधः प्रेक्षया याति नाशं न तु प्रबुध्यते ॥२४॥यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति ।न चास्य ज्ञायते तत्त्वमबोधस्यैवमेव हि ॥२५॥एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः ।सर्वशक्तिरनाद्यन्तो महाचित्साररूपवान् ॥२६॥सर्वानणुतया त्वस्य न क्वचिद्भेदकल्पना ।विद्यते या हि कलना सा तदेवानुभूतितः ॥२७॥श्रीराम उवाच ।एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः ।जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ॥२८॥श्रीवसिष्ठ उवाच ।महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् ।स्थितं तथेच्छमेवेह निर्विभागं निरन्तरम् ॥२९॥यदेवेच्छति तत्तस्य भवत्याशु महात्मनः ।पूर्वं तेनेष्टमिच्छादि ततो द्वित्वमुदेति यत् ॥३०॥पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः ।अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः ॥३१॥तं विनानुदये त्वासां प्रधानेच्छैव रोहति ।शक्त्या ह्यजातया ब्राह्म्या नियमोऽयं प्रकल्पितः ॥३२॥यस्या जीवाभिधानायाः शक्त्यपेक्षा फलत्यसौ ।प्रधानशक्तिनियमानुष्ठानेन विना न तु ॥३३॥प्रधानशक्तिनियमः सुप्रतिष्ठो न चेद्भवेत् ।तत्फलं शक्त्यधीनत्वान्नेहितानां क्वचिद्भवेत् ॥३४॥एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः ।जीवकोटि महाकोटि भवत्यथ न किंचन ॥३५॥चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् ।तदसंवेदनाद्रूपं समायाति समं पुनः ॥३६॥एवं कनिष्ठजीवानां ज्येष्ठजीवक्रमाक्रमैः ।समुदेत्यात्मजीवत्वं ताम्राणामिव हेमता ॥३७॥अत्रान्तरे महाकाश इत्थमेष गणोऽप्यसन् ।स्वात्मैव सदिवोदेति चिच्चमत्करणात्मकः ॥३८॥स्वयमेव चमत्कारो यः समापद्यते चितः ।भविष्यन्नामदेहादि तदहंभावनं विदुः ॥३९॥चितो यस्माच्चिदालेहस्तन्मयत्वादनन्तकः ।स एष भुवनाभोग इति तस्यां प्रबिम्बति ॥४०॥परिणामविकारादिशब्दैः सैव चिदव्यया ।तादृग्रूपादभेद्यापि स्वशक्त्यैव विबुध्यते ॥४१॥अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः ।चेत्यस्य च प्रकाशस्य जगदित्येव तत्स्थितम् ॥४२॥आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः ।सा स्वभावत एवैतामहंतां परिपश्यति ॥४३॥आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् ।जगदन्तमहंताणुं तदैषा संप्रपश्यति ॥४४॥चमत्कारकरी चारु यच्चमत्कुरुते चितिः ।स्वयं स्वात्मनि तस्यैव जगन्नाम कृतं ततः ॥४५॥चितश्चेत्यमहंकारः सैव राघव कल्पना ।तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते ॥४६॥जीवहेत्वादिसंत्यागे त्वं चाहं चेति संत्यज ।शेषः सदसतोर्मध्ये भवत्यर्थात्मको भवेत् ॥४७॥चिता यथादौ कलिता स्वसत्ता सा तथोदिता ।अभिन्ना दृश्यते व्योम्नः सत्तासत्ते न विद्महे ॥४८॥विश्वं खं जगदीहाख्यं खमस्ति विबुधालयः ।साकारश्चिच्चमत्काररूपत्वान्नान्यदस्ति हि ॥४९॥यो यद्विलासस्तस्मात्स न कदाचन भिद्यते ।अपि सावयवं तस्मात्कैवानवयवे कथा ॥५०॥चितेर्नित्यमचेत्याया निर्नाम्न्या वितताकृतेः ।यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः ॥५१॥मनो बुद्धिरहंकारो भूतानि गिरयो दिशः ।इति या यास्तु रचनाश्चितस्तत्त्वाज्जगत्स्थितेः ॥५२॥चितेश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि ।अजगत्त्वादचिच्चित्स्याद्भानाद्भेदो जगत्कुतः ॥५३॥चितेर्मरीचिबीजस्य निजा यान्तश्चमत्कृतिः ।सा चैषा जीवतन्मात्रमात्रं जगदिति स्थिता ॥५४॥चित्तात्स्वशक्तिकचनं यदहंभावनं चितः ।जीवः स्पन्दनकर्मात्मा भविष्यदभिधो ह्यसौ ॥५५॥यच्चिच्चित्त्वेन कचनं स्वसंपाद्याभिधात्मकम् ।स्वविकारैर्व्यवच्छेद्यं भिद्यते नो न विद्यते ॥५६॥चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः ।स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः ॥५७॥जीवश्चित्तपरिस्पन्दः पुंसां चित्तं स एव च ।मनस्त्विन्द्रियरूपं सत्सत्तां नानेव गच्छति ॥५८॥शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् ।कार्यकारणकादित्वं तस्मादन्यन्न विद्यते ॥५९॥अच्छेद्योऽहमदाह्योऽहमक्लेद्योऽशोष्य एव च ।नित्यः सर्वगतः स्थाणुरचलोऽहमिति स्थितम् ॥६०॥विवदन्ते तथा ह्यत्र विवदन्तो यथा भ्रमैः ।भ्रमयन्तो वयं त्वेते जाता विगतविभ्रमाः ॥६१॥दृश्ये मूर्ते ज्ञसंरूढे विकारादि पृथग्भवेत् ।नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ॥६२॥चित्तरौ चेत्यरसतः शक्तिः कालादिनामिकाम् ।तनोत्याकाशविशदां चिन्मधुश्रीः स्वमञ्जरीम् ॥६३॥स्वयं विचित्रं स्फुरति चिदण्डकमनाहतम् ।स्वयं विलक्षणस्पन्दं चिद्वायुरण्डजात्मकः ॥६४॥स्वयं विचित्रं कचनं चिद्वारि न निखातगम् ।स्वयं विचित्रधातुत्वं श्रेष्ठाङ्गमपि निर्मितम् ॥६५॥स्वविचित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ।स्वयं चिदेव प्रकटश्चिदालोको महात्मकः ॥६६॥स्वयमस्तं गते बाह्ये स्वज्ञानादुदिता चितिः ।स्वयं जडेषु जाड्येन पदं सौषुप्तमागता ॥६७॥स्वयं स्पन्दितयास्पन्दिचित्त्वाच्चिति महानभ ।चित्प्रकाशप्रकाशो हि जगदस्ति च नास्ति च ॥६८॥चिदाकाशैकशून्यत्वं जगदस्ति च नास्ति च ।चिदालोकमहारूपं जगदस्ति च नास्ति च ॥६९॥चिन्मारुतपरिस्पन्दो जगदस्ति च नास्ति च ।चिद्धनध्वान्तकृष्णत्वं जगदस्ति च नास्ति च ॥७०॥चिदर्कालोकदिवसो जगदस्ति च नास्ति च ।चित्कज्जलरजस्तैलपरमाणुर्जगत्क्रमः ॥७१॥चिदग्न्यौष्ण्यं जगल्लेखा जगच्चिच्छङ्खशुक्लता ।जगच्चिच्छैलजठरं चिज्जलद्रवता जगत् ॥७२॥जगच्चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ।जगच्चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् ॥७३॥जगच्चित्सर्षपस्नेहो वीचिश्चित्सरितो जगत् ।जगच्चित्क्षौद्रमाधुर्यं जगच्चित्कनकाङ्गदम् ॥७४॥जगच्चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत् ।चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः ॥७५॥अत्र भेदविकारादि नखे मलमिव स्थितम् ।इतीदं सन्मयत्वेन सदसद्भुवनत्रयम् ॥७६॥अविकल्पतदात्मत्वात्सत्तासत्तैकतैव च ।अवयवावयविता शब्दार्थौ शशशृङ्गवत् ॥७७॥अनुभूत्यपलापाय कल्पितो यैर्धिगस्तु तान् ।न विद्यते जगद्यत्र साद्र्यब्ध्युर्वीनदीश्वरम् ॥७८॥चिदेकत्वात्प्रसङ्गः स्यात्कस्तत्रेतरविभ्रमः ।शिलाहृदयपीनापि स्वाकाशे विशदैव चित् ॥७९॥धत्तेऽन्तरखिलं शान्तं संनिवेशं यथा शिला ।पदार्थनिकराकाशे त्वयमाकाशजो मलः ॥८०॥सत्तासत्तात्मतात्वत्तामत्ताश्लेषा न सन्ति ते ।पल्लवान्तरलेखौघसंनिवेशवदाततम् ॥८१॥अन्यानन्यात्मकमिदं धत्तेऽन्तश्चित्स्वभावतः ।समस्तकारणौघानां कारणादि पितामहः ॥८२॥स्वभावतो कारणात्म चित्तं चिद्ध्यनुभूतितः ।न चासत्त्वमचेत्यायाश्चितो वाचापि सिद्ध्यति ॥८३॥यदस्ति तदुदेतीति दृष्टं बीजादिवाङ्कुरः ॥८४॥गगन इव सुशून्यभेदमस्तित्रिभुवनमङ्ग महाचितोऽन्तरस्याः ।परमपदमयं समस्तदृश्यंत्विदमिति निश्चयवान्भवानुभूतेः ॥८५॥इत्युक्तवत्यथ मुनौ दिवसो जगामसायतनाय विधयेऽस्तमिनो जगाम ।स्नातुं सभा कृतनमस्करणा जगामश्यामाक्षये रविकरैश्च सहाजगाम ॥८६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ब्रह्मप्रतिपादनं नाम चतुर्दशः सर्गः ॥१४॥ N/A References : N/A Last Updated : September 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP