संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः ४०

उत्पत्तिप्रकरणम् - सर्गः ४०

योगवासिष्ठः

श्रीवसिष्ठ उवाच ।
एवं निशाचराचारचिरघोरे रणाङ्गणे ।
अहनीव जनाचारे स्थिते यामावरेहिते ॥१॥
हस्तहार्यतमःपिण्डस्फुटकुड्ये निशागृहे ।
लाभोच्छदोच्चलचते भूतसङ्घे प्रवल्गति ॥२॥
निःशब्दे ध्वान्तसंचारे निद्रारुद्धककुब्गणे ।
लीलापतिरुदारात्मा किंचित्खिन्नमना इव ॥३॥
प्रातःकार्यं विचार्याशु मन्त्रिभिर्मन्त्रकोविदैः ।
दीर्घचन्द्रसमाकारे शयने हिमशीतले ॥४॥
चन्द्रोदरनिभे चारुगृहे शिशिरकोटरे ।
निद्रां मुहूर्तमगमन्मुद्रितेक्षणपुष्करः ॥५॥
अथ ते ललने व्योम तत्परित्यज्य तद्गृहम् ।
रन्ध्रैर्विविशतुर्वातलेखेऽब्जमुकुलं यथा ॥६॥
श्रीराम उवाच ।
कियन्मात्रमिदं स्थूलं शरीरं वाग्विदांवर ।
रन्ध्रेण तन्तुतनुना कथमाश्वाविशत्प्रभो ॥७॥
श्रीवसिष्ठ उवाच ।
आधिभौतिकदेहोऽहमिति यस्य मतिभ्रमः ।
तस्यासावणुरन्ध्रेण गन्तुं शक्नोति नानघ ॥८॥
रोधितोऽहमनेनेति न माम्यत्रेति यस्य धीः ।
अनुभूतानुभवती भवतीत्यनुभूयते ॥९॥
येनानुभूतं पूर्वार्धं गच्छामीति स तत्क्रियः ।
कथं भवति पश्चार्धं गमनोन्मुखचेतनः ॥१०॥
नहि वार्यूर्ध्वमायाति नाधो गच्छति पावकः ।
या यथैव प्रवृत्ता चित्सा तथैव प्रतिष्ठिता ॥११॥
छायायामुपविष्टस्य कुतस्तापानुभूतयः ।
यस्य संवेदनेऽन्योऽर्थः केनचिन्नानुभूयते ॥१२॥
यथा संवित्तथा चित्तं सा तथावस्थितिं गता ।
परमेण प्रयत्नेन नीयतेऽन्यदशां पुनः ॥१३॥
सर्पैकप्रत्ययो रज्ज्वामसर्पप्रत्यये बलात् ।
निवर्ततेऽन्यथा त्वेष तिष्ठत्येव यथास्थितः ॥१४॥
यथा संवित्तथा चित्तं यथा चित्तं तथेहितम् ।
बालं प्रत्यपि संसिद्धमेतत्को नानुभूतवान् ॥१५॥
यः पुनः स्वप्नसंकल्पपुरुषः प्रतिमाकृतिः ।
आकाशमात्रकाकारः स कथं केन रोध्यते ॥१६॥
चित्तमात्रं शरीरं तु सर्वस्यैव हि सर्वतः ।
विद्यते वेदनाच्चैतत्क्वचिदेतीव हृद्गतात् ॥१७॥
यथाभिमतमेवास्य भवत्यस्तमयोदयम् ।
आदिसर्गे स्वभावोत्थं पश्चाद्द्वैतैक्यकारणम् ॥१८॥
चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।
विद्ध्येतत्त्रयमेकं त्वमविनाभावनावशात् ॥१९॥
एतच्चित्तशरीरत्वं विद्धि सर्वगतोदयम् ।
यथासंवेदनेच्छत्वाद्यथासंवेदनोदयम् ॥२०॥
वसति त्रसरेण्वन्तर्ध्रियते गगनोदरे ।
लीयतेऽङ्कुरकोशेषु रसीभवति पल्लवे ॥२१॥
उल्लसत्यम्बुवीचित्वे प्रनृत्यति शिलोदरे ।
प्रवर्षत्यम्बुदो भूत्वा शिलीभूयावतिष्ठते ॥२२॥
यथेच्छमम्बरे याति जठरेऽपि च भूभृताम् ।
अनन्तराकाशवपुर्धत्तेऽथ परमाणुताम् ॥२३॥
देहस्यान्तर्बहिरपि दधद्वनतनूरुहम् ॥२४॥
भवत्याकाशमाधत्ते कोटीः पद्मजसद्मनाम् ।
अनन्याः स्वात्मनोऽम्भोधिरावर्तरचना इव ॥२५॥
अनुद्विग्नप्रबोधोऽसौ सर्गादौ चित्तदेहकः ।
आकाशत्मा महान्भूत्वा वेत्ति प्रकृततां ततः॥२६॥
असत्यमेव वारित्वं बुद्ध्योदेतीव तत्तथा ।
वन्ध्यापुत्रोऽयमस्तीति यथा स्वप्ने भ्रमो नरः ॥२७॥
श्रीराम उवाच
किं चित्तमेतद्भवति किंवा भवति नौ कथम् ।
कथमेव न सद्रूपं नान्यद्भवति वीक्षणात् ॥२८॥
श्रीवसिष्ठ उवाच
प्रत्येकमेव यच्चित्तं तदेवंरूपशक्तिकम् ।
पृथक्प्रत्येकमुदितः प्रतिचित्तं जगद्भ्रमः ॥२९॥
क्षणकल्पजगत्संघा समुद्यन्ति गलन्ति च ।
निमेषात्कस्यचित्कल्पात्कस्यचिच्च क्रमं श्रृणु ॥३०॥
मरणादिमयी मूर्च्छा प्रत्येकेनानुभूयते ।
यैषा तां विद्धि सुमते महाप्रलययामिनीम् ॥३१॥
तदन्ते तनुते सर्गं सर्व एव पृथक्पृथक् ।
सहजस्वप्नसंकल्पान्संभ्रमाचलनृत्यवत् ॥३२॥
महाप्रलयरात्र्यन्ते चिरादात्ममनोवपुः ।
यथेदं तनुते तद्वत्प्रत्येकं मृत्यनन्तरम् ॥३३॥
श्रीराम उवाच
मृतेरनन्तरं सर्गो यथा स्मृत्यानुभूयते ।
चिरात्तथानुभवति नातो विश्वमकारणम् ॥३४॥
श्रीवसिष्ठ उवाच
महति प्रलये राम सर्वे हरिहरादयः ।
विदेहमुक्ततां यान्ति स्मृतेः क इव संभव ॥३५॥
अस्मदादिः प्रबुद्धात्मा किलावश्यं विमुच्यते ।
कथं भवन्तु नो मुक्ता विदेहाः पद्मजातयः ॥३६॥
अन्ये त्वमिव ये जीवास्तेषां मरणजन्मसु ।
स्मृतिः कारणतामेति मोक्षाभाववशादिह ॥३७॥
भवत्यद्रिर्धराधारो बद्धपीठो नभः शिराः ।
जीवो हि मृतिमूर्च्छान्ते यदन्तः प्रोन्मिषन्निव ।
अनुन्मिषित एवास्ते तत्प्रधानमुदाहृतम् ॥३८॥
तद्व्योमप्रकृतिः प्रोक्ता तदव्यक्तं जडाजडम् ।
संस्मृतेरस्मृतेश्चैव क्रम एष भवोदये ॥३९॥
बोधोन्मुखत्वे हि महत्तत्प्रबुद्धं यदा भवेत् ।
तदा तन्मात्रदिक्कालक्रिया भूताद्युदेति खात् ॥४०॥
तदेवोच्छूनमाबुद्धं भवतीन्द्रियपञ्चकम् ।
तदेव बुध्यते देहः स एषोऽस्यातिवाहिकः ॥४१॥
चिरकालप्रत्ययतः कल्पनापरिपीवरः ।
आधिभौतिकताबोधमाधत्ते चैष बालवत् ॥४२॥
ततो दिक्कालकलनास्तदाधारतया स्थिताः ।
उद्यन्त्यनुदिता एव वायोः स्पन्दक्रिया इव ॥४३॥
वृद्धिमित्थमयं यातो मुधैव भुवनभ्रमः ।
स्वप्नाङ्गनासङ्गसमस्त्वनुभूतोऽप्यसन्मयः ॥४४॥
यत्रैव म्रियते जन्तुः पश्यत्याशु तदेव सः ।
तत्रैव भुवनाभोगमिममित्थमिव स्थितम् ॥४५॥
व्योमैवानुभवत्यच्छमहं जगदिति भ्रमम् ।
व्योमरूपं व्योमरूपी जीवो जात इवात्मवान् ॥४६॥
सुरपत्तनशैलार्कतारानिकरसुन्दरम् ।
जरामरणवैक्लव्यव्याधिसंकटकोटरम् ॥४७॥
स्वभावाभावसंरम्भस्थूलसूक्ष्मचराचरम् ।
साव्ध्यद्व्युर्वीनदीशाहोरात्रिकल्पक्षणक्षयम् ॥४८॥
अहं जातोऽमुना पित्रा किलात्रेत्याप्तनिश्चयम् ।
इयं माता धनमिदं ममेत्युदितवासनम् ॥४९॥
सुकृतं दुष्कृतं चेदं ममेति कृतकल्पनम् ।
बालोऽभूवमहं त्वद्य युवेति विलसद्धृदि ॥५
प्रत्येकमेवमुदितः संसारवनखण्डकः ।
ताराकुसुमितो नीलमेघचञ्चलपल्लवः ॥५१॥
चरन्नरमृगानीकः सुरासुरविहंगमः ।
आलोककौसुमरजाः श्यामागहनकुञ्जकः ॥५२॥
अब्धिपुष्करिणीपूर्णो मेर्वाद्यचललोष्टकः ।
चित्तपुष्करबीजान्तर्निलीनानुभवाङ्कुरः ॥५३॥
यत्रैष म्रियते जीवस्तत्रैवं पश्यति क्षणात् ।
प्रत्येकमुदितेष्वेवं जगत्खण्डेषु भूरिशः ॥५४॥
कोटयो ब्रह्मरुद्रेन्द्रमरुद्विष्णुविवस्वताम् ।
गिर्यब्धिमण्डलद्वीपलोकान्तरदृशां गताः ॥५५॥
याता यास्यन्ति यान्त्येता दृष्टयो नष्टरूपिणीः ।
या ब्रह्मण्युपबृंहाढ्यास्ताः के गणयितुं क्षमाः ॥५६॥
एवं कुड्यमयं विश्वं नास्त्येव मननादृते ।
मनने चलमेवान्तस्तदिदानीं विचारय ॥५७॥
यदेव तच्चिदाकाशं तदेव मननं स्मृतम् ।
यदेव च चिदाकाशं तदेव परमं पदम् ॥५८॥
यदेवाम्बु स आवर्तो नत्वस्यावर्त वस्तु सन् ।
द्रष्टैवास्ते दृश्यमिव दृश्यं नत्वस्ति वस्तु सत् ॥५९॥
चिद्व्योम्नो भूतनभसि कचनं यन्मणेरिव ।
तज्जगद्भाविनानासत्तत्त्वं श्वभ्रमिवाम्बरे ॥६०॥
मद्बुद्धार्थो जगच्छब्दो विद्यते परमामृतम् ।
त्वद्बुद्धारर्थस्तु नास्त्येव त्वमहंशब्दकादपि ॥६१॥
तस्माल्लीलासरस्वत्यावाकाशवपुषौ स्थिते ।
सर्वगे परमात्माच्छे सर्वत्राप्रतिघेऽनघे ॥६२॥
यत्र यत्र सदा व्योम्नि यथाकामं यथेप्सितम् ।
उदयं कुरुतस्तेन तद्गेहेऽस्ति गतिस्तयोः ॥६३॥
सर्वत्र संभवति चिद्गगनं तदत्र
सद्वेदनं कलनमामननं विसारि ।
तच्चातिवाहिकमिहाहुरकुड्यमेव
देहं कथं क इव तं वद किं रुणद्धि ॥६४॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने
समरसमनन्तरसंस्मृत्यनुभववर्णनं नाम चत्वारिंशः सर्गः ॥४०॥

N/A

References : N/A
Last Updated : September 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP