उत्पत्तिप्रकरणं - सर्गः ११७
योगवासिष्ठः
श्रीराम उवाच ।
कीदृश्यो भगवन्योगभूमिकाः सप्तसिद्धिदाः ।
समासेनेति मे ब्रूहि सर्वतत्त्वविदांवर ॥१॥
श्रीवसिष्ठ उवाच ।
अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि ।
पदान्तराण्यसंख्यानि भवन्त्यन्यान्यथैतयोः ॥२॥
स्वयत्नसाधकरसान्महासत्ताभरोन्नतेः ।
एते प्रतिपदं बद्धमूले संफलतः फलम् ॥३॥
तत्र सप्तप्रकारा त्वमज्ञानस्य भुवं श्रृणु ।
ततः सप्तप्रकारां त्वं श्रोष्यसि ज्ञानभूमिकाम् ॥४॥
स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् ।
एतत्संक्षेपतः प्रोक्तं तज्ज्ञत्वाज्ञत्वलक्षणम् ॥५॥
शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये ।
रागद्वेषोदयाभावात्तेषां नाज्ञत्वसंभवः ॥६॥
यत्स्वरूपपरिभ्रंशाच्चेत्यार्थे चितिमज्जनम् ।
एतस्मादपरो मोहो न भूतो न भविष्यति ॥७॥
अर्थादर्थान्तरं चित्ते याति मध्ये हि या स्थितिः ।
निरस्तमनना यासौ स्वरूपस्थितिरुच्यते ॥८॥
संशान्तसर्वसंकल्पा या शिलान्तरिव स्थितिः ।
जाड्यनिद्राविनिर्मुक्ता सा स्वरूपस्थितिः स्मृता ॥९॥
अहंतांशे क्षते शान्ते भेदे निःस्पन्दतां गते ।
अजडा या प्रकचति तत्स्वरूपमिति स्थितम् ॥१०॥
तत्रारोपितमज्ञानं तस्य भूमीरिमाः श्रृणु ।
बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ॥११॥
जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम् ।
इति सप्तविधो मोहः पुनरेव परस्परम् ॥१२॥
श्लिष्टो भवत्यनेकाख्यः श्रृणु लक्षणमस्य च ।
प्रथमे चेतनं यत्स्यादनाख्यं निर्मलं चितः ॥१३॥
भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ।
बीजरूपं स्थितं जाग्रद्बीजजाग्रत्तदुच्यते ॥१४॥
एषा ज्ञप्तेर्नवावस्था त्वं जाग्रत्संसृतिं श्रृणु ।
नवप्रसूतस्य परादयं चाहमिदं मम ॥१५॥
इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् ।
अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ॥१६॥
पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुरन् ।
अरूढमथ वा रूढं सर्वथा तन्मयात्मकम् ॥१७॥
यज्जाग्रतो मनोराज्यं जाग्रत्स्वप्नः स उच्यते ।
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ॥१८॥
अभ्यासात्प्राप्य जाग्रत्त्वं स्वप्नोऽनेकविधो भवेत् ।
अल्पकालं मया दृष्टमेवं नो सत्यमित्यपि ॥१९॥
निद्राकालानुभूतेऽर्थे निद्रान्ते प्रत्ययो हि यः ।
स स्वप्नः कथितस्तस्य महाजाग्रत्स्थितेर्हृदि ॥२०॥
चिरसंदर्शनाभावादप्रफुल्लवृहद्वपुः ।
स्वप्नो जाग्रत्तया रूढो महाजाग्रत्पदं गतः ॥२१॥
अक्षतेवाक्षते देहे स्वप्नजाग्रन्मतं हि तत् ।
षडवस्थापरित्यागे जडा जीवस्य या स्थितिः ॥२२॥
भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः ।
एते तस्यामवस्थायां तृणलोष्टशिलादयः ॥२३॥
पदार्थाः संस्थिताः सर्वे परमाणुप्रमाणिनः ।
सप्तावस्था इति प्रोक्ता मयाऽज्ञानस्य राघव ॥२४॥
एकैका शतशाखात्र नानाविभवरूपिणी ।
जाग्रत्स्वप्नश्चिरं रूढो जागृतावेव गच्छति ॥२५॥
नानापदार्थभेदेन सविकासं विजृम्भते ।
अस्यामप्युदरे सन्ति महाजाग्रद्दशादृशः ॥२६॥
तासामप्यन्तरे लोको मोहान्मोहान्तरं व्रजेत् ।
अन्तःपातिजलावर्त इव धावति नौर्भ्रमम् ॥२७॥
काश्चित्संसृतयो दीर्घ स्वप्नजाग्रत्तया स्थिताः ।
काश्चित्पुनः स्वप्नजाग्रज्जाग्रत्स्वप्नास्तथेतराः ॥२८॥
अज्ञानभूमिरिति सप्तपदा मयोक्ता
नानाविकारजगदन्तरभेदहीना ।
अस्याः समुत्तरसि चारुविचारणाभि-
र्दृष्टे प्रबोधविमले स्वयमात्मनोति ॥२९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूत्पत्तिप्रकरणे अज्ञानभूमिकावर्णनं नाम सप्तदशोत्तरशततमः सर्गः ॥११७॥
N/A
References : N/A
Last Updated : September 14, 2021
TOP