संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|उत्पत्तिप्रकरणम्|
सर्गः २८

उत्पत्तिप्रकरणम् - सर्गः २८

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
वज्राङ्गसाराद्ब्रह्माण्डकुड्यान्निबिडमण्डलात् ।
कोटियोजनसंपुष्टात्कथं ते निर्गतेऽबले ॥१॥
श्रीवसिष्ठ उवाच ।
क्व ब्रह्माण्डं क्व तद्भित्तिः क्वात्रासौ वज्रसारता ।
किलावश्यं स्थिते देव्यावन्तःपुरवराम्बरे ॥२॥
तस्मिन्नेव गिरिग्रामे तस्मिन्नेवालयाम्बरे ।
ब्राह्मणः स वसिष्ठाख्य आस्वादयति राजताम् ॥३॥
तमेव मण्डपाकाशकोणकं शून्यमात्रकम् ।
चतुःसमुद्रपर्यन्तं भूतलं सोऽनुभूतवान् ॥४॥
आकाशात्मनि भूपीठं तस्मिंस्तद्राजपत्तनम् ।
राजसद्मानुभवति स च सा चाप्यरुन्धती ॥५॥
लीलाभिधाना सा जाता तया च ज्ञप्तिरर्चिता ।
ज्ञप्त्या सह समुल्लङ्घ्य खमाश्चर्यमनोहरम् ॥६॥
प्रादेशमात्रे नभसि सा तत्रैवगृहोदरे।
ब्रह्माण्डान्तरमासाद्य गिरिग्रामकमन्दिरे ॥७॥
ब्रह्माण्डात्परिनिर्गत्य स्वगृहे स्थितिमाययौ ।
स्वप्नात्स्वप्नान्तरं प्राप्य यथा तल्पगतः पुमान् ॥८॥
प्रतिभामात्रमेवैतत्सर्वमाकाशमात्रकम् ।
न ब्रह्माण्डं न संसारो न कुड्यादि न दूरता ॥९॥
स्वचित्तमेव कचति तयोस्तादृङ्मनोहरम् ।
वासनामात्रसोल्लेखं क्व ब्रह्माण्डं क्व संसृतिः ॥१०॥
निरावरणमेवेदं ज्ञप्त्याकाशमनन्तकम् ।
किंचित्स्वचित्तेनोन्नीतं स्पन्दयुक्त्येव मारुतः ॥११॥
चिदाकाशमजं शान्तं सर्वत्रैव हि सर्वदा ।
चित्त्वाज्जगदिवाभाति स्वयमेवात्मनात्मनि॥
येन बुद्धं तु तस्यैतदाकाशादप शून्यकम् ।
न बुद्धं येन तस्यैतद्वज्रसाराचलोपमम् ॥१३॥
गृह एव यथा स्वप्ने नगरं भाति भासुरम् ।
तथैतदसदेवान्तश्चिद्धातौ भाति भास्वरम् ॥१४॥
यथा मरौ जलं बुद्धं कटकत्वं च हेमनि ।
असत्सदिव भातीदं तथा दृश्यत्वमात्मनि ॥१५॥
एवमाकथयन्त्यौ ते ललने ललिताकृती ।
गृहान्निर्ययतुर्बाह्यं चारुचक्रमणक्रमैः ॥१६॥
आदृश्ये ग्रामलोकेन प्रेक्षमाणे पुरोगिरिम् ।
चुम्बिताकाशकुहरं संस्पृष्टादित्यमण्डलम् ॥१७॥
नानावर्णाखिलोत्फुल्लविचित्रवननिर्मलम् ।
नानानिर्झरनिर्ह्रादकूजद्वनविहंगमम् ॥१८॥
विचित्रमञ्जरीपुञ्जपिञ्जराम्बुदमण्डलम् ।
स्वभ्रमच्छगुलुच्छाग्रविश्रान्तखगसारसम् ॥१९॥
सारवञ्जुलविस्तारगुप्ताखिलसरित्तटम् ।
असमाप्तशिलाश्वभ्रलतावर्तनमारुतम् ॥२०॥
पुष्पाग्रपिहिताकाशकोशकुड्यकवारिदम् ।
पतद्दीर्घसरित्स्रोतः स्फुरन्मुक्ताकलापकम् ॥२१॥
चलद्वृक्षवनव्यूहवातवेल्लिसरित्तटम् ।
नानावनाकुलोपान्तच्छायासततशीतलम् ॥२२॥
अथ ते ललने तत्र तदा ददृशतुः स्वयम् ।
तं गिरिग्रामकं व्योम्नः स्वर्गखण्डमिव च्युतम् ॥२३॥
रटत्प्रणालीपटलं पूर्णपुष्करिणीगणम् ।
द्विजैः कुचकुचैः कूजत्स्वलीलाश्वभ्रकच्छकम् ॥२४॥
गच्छद्गोवृन्दहुंकारकरालाखिलकुञ्जकम् ।
कुञ्जगुल्मकखण्डाढ्यं सच्छायघनशाद्वलम् ॥२०॥५
दुष्प्रवेशार्ककिरणं दृशन्नीहारधूसरम् ।
उदग्रमञ्जरीपुञ्जजटालं विशिखान्तरम् ॥२६॥
शिलाकुहरवाःस्फालप्रोच्चलन्मुक्तनिर्झरैः ।
स्मारिताचलनिर्धूत्क्षीरोदकजलश्रियम् ॥२७॥
फलमाल्यमहाभारभासुरैरजिरद्रुमैः ।
आनीय पुष्पसंभारं तिष्ठद्भिरिव संकुलम् ॥२८॥
तरत्तरङ्गझांकारकारिमारुतकम्पितैः ।
कीर्णपुष्पसमावृष्टं द्रुमैरपि रसाकुलैः ॥२९॥
अशङ्कितशिलाकूटस्रवदब्बिन्दुटंकृतैः ।
किंचित्कृतरवं गुप्तैरशङ्कैः शङ्कितैः खगैः ॥३०॥
उत्फाललहरीश्रान्तसीकरास्वादनाकुलैः ।
नद्यामुडुपरावर्तवृत्तिभिर्विहगैर्वृतम् ॥३१॥
उत्तालतालविश्रान्तकाकालोकनशङ्कितैः ।
बालैः प्रगोपितामिक्षाखण्डं जीर्णस्वभुक्तकैः ॥३२॥
पुष्पशेखरसंभारवसनग्रामबालकम् ।
खर्जूरनिम्बजम्बीरगहनोपान्तशीतलम् ॥३३॥
क्षौमाग्रहस्ताम्बरया मञ्जरीपूर्णकर्णया ।
क्षुत्क्षीणयाक्रान्तरथ्यं ग्रामकीटककान्तया ॥३४॥
सरित्तरङ्गसंघट्टसंरावाश्रुतसंकथम् ।
कर्मजाड्यघनत्रासवाञ्छितैकान्तसंस्थितम् ॥३५॥
दधिलिप्तास्यहस्तांसैः स्निग्धपुष्पलताधरैः ।
नग्नैर्गोमयपङ्काङ्कैर्बालैराकुलचत्वरम् ॥३६॥
तीरशाद्वलवल्लीनां दोलान्दोलनकारिभिः ।
तरङ्गैर्वाह्यमानस्य लेखिकाङ्कितसैकतम् ॥३७॥
दधिक्षीरघनामोदमत्तमन्थरमक्षिकम् ।
कामभुक्तार्थतोद्वाष्पजर्जराबलबालकम् ॥३८॥
गोमयासिक्तवलयकरनारीकृतक्रुधम् ।
धम्मिल्लवलनाव्यग्रत्रस्तस्त्रीविहसज्जनम् ॥३९॥
दान्तपुष्पच्छदोत्सन्नपतत्ककुदवायसम्।
गृहरथ्यागणद्वारकीर्णक्रूरकुरण्टकम् ॥४०॥
गृहपार्श्वस्थितश्वभ्रकुञ्जैः कुसुमितप्रभैः ।
प्रत्यहं प्रातरागुल्फमाकीर्णकुसुमाजिरम् ॥४१॥
चरच्चमरसारङ्गजालजङ्गलखण्डकम् ।
गुञ्जानिकुञ्जसंजातशष्पसुप्तमृगार्भकम् ॥४२॥
एकान्तसुप्तवत्सैककर्णस्पन्दास्तमक्षिकम् ।
गोपोच्छिष्टीकृतदधिखसृक्किस्पन्दिमक्षिकम् ॥४३॥
समस्तसद्मसंक्षीणमक्षिकाक्षिप्तमाक्षिकम् ।
फुल्लाशोकद्रुमोद्यानकृतलाक्षिकमन्दिरम् ॥४४॥
सीकरासारमरुता नित्यार्द्रविकचद्रुमम् ।
कदम्बमुकुलप्रोतसमस्तच्छादनतृणम् ॥४५॥
प्रतिकृत्तलताफुल्लकेतकोत्करपाण्डुरम्।
वहत्प्राणालपटलीरणद्गुरुगुरारवम् ॥४६॥
वातायनगुहानिर्यत्सोधविश्रान्तवारिदम् ।
पूर्णपुष्करिणीपङ्क्तिपूर्णराजपृथूत्तरम् ॥४७॥
नीरन्ध्रविटपिच्छायाशीतलामलशाद्वलम् ।
सर्वशष्पाग्रवार्बिन्दुप्रतिबिम्बिततारकम् ॥४८॥
अनारतपतत्फुल्लहिमवर्षसितालयम् ।
विचित्रमञ्जरीपुष्पपत्रसत्फलपादपम् ॥४९॥
गृहकक्षान्तरालीनमेघसुप्तचिरण्टिकम् ।
सौधस्थमेघविद्युद्भिरनादेयप्रदीपकम् ॥५०॥
कन्दरानिलभांकारघनघुंघुममण्डपम् ।
चरच्चकोरहारीतहरिणीहारिमन्दिरम् ॥५१॥
उन्निद्रकन्दलोद्वान्तमांसलामोदमन्थरैः ।
मरुद्भिर्मन्दमायातुमारब्धैर्लोलपल्लवम् ॥५२॥
लावकालापलीलायामालीनललनागणम् ।
कोककोकिलकाकोलकोलाहलसमाकुलम् ॥५३॥
शालतालतमालाब्जनीलतत्फलमालिनम् ।
वल्लीवलयविन्यासविलासवलितद्रुमम् ॥५४॥
आलोलपल्लवलतावलितायनाना-
मुत्फुल्लकन्दलशिलीन्ध्रसुगन्धितानाम् ।
तालीतमालदलताण्डवमण्डपाना-
मारामफुल्लकुसुमद्रुमशीतलानाम् ॥५५॥
साराववारिचलनाकुलगोकुलाना-
मानीलसस्यकुसुमस्थलशोभितानाम् ।
तीरद्रुमप्रकरगुप्तसरिद्रयाणां
नीरन्ध्रपुष्पितलताग्रवितानकानाम् ॥५६॥
उद्यानकुन्दमकरन्दसुगन्धितानां
गन्धान्धषट्पदकुलान्तरिताम्बुजानाम् ।
सौन्दर्यतर्जितपुरन्दरमन्दिराणां
राजीवराजिरजसारुणिताम्बराणाम् ॥५७॥
रंहोवहद्गिरिनदीरवघर्घराणां
कुन्दावदातजलदद्युतिभासुराणाम् ।
सौधस्थितोल्लसितफुल्ललतालयानां
लीलावलोलकलकण्ठविहङ्गमानाम् ॥५८॥
उल्लासिकौसुमदलास्तरणस्थयूना-
मापादमावलितमाल्यविलासिनीनाम् ।
सर्वत्र सुन्दरनवाङ्कुरदन्तुराणां
शोभोल्लसद्वरलताकुलमार्गणानाम् ॥५९॥
संजातकोमललतोत्पलसंकुलानां ।
तिष्ठत्पयोदपटसंवलितालयानाम् ।
नीहारहारहरितस्थलविश्रुतानां
सौधस्थमेघतडिदाकुलिताङ्गनानाम् ॥६०॥
नीलोत्पलोल्लसितसौरभसुन्दराणां
हुंकारहारिहीरतोन्मुखगोकुलानाम् ।
विश्रब्धमुग्धमृगसारगृहाजिराणा-
मुन्नृत्यबर्हिघनसीकरनिर्झराणाम् ॥६१॥
सौगन्ध्यमत्तपवनाहतविक्लवानां
वप्रौषधिज्वलनविस्मृतदीपकानाम् ।
कोलाहलाकुलकुलायकुलाकुलानां
कुल्याकुलाकलकलाश्रुतसंकथानाम् ॥६२॥
मुक्ताफलप्रकरसुन्दरबिन्दुपात-
शीताखिलद्रुमलतातृणपल्लवानाम् ।
लक्ष्मीमनस्तमितपुष्पविकासभाजां
शक्नोति कः कलयितुं गिरिमन्दिराणाम् ॥६३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने गिरिग्रामवर्णनं नामाष्टाविंशः सर्गः ॥२८॥

N/A

References : N/A
Last Updated : September 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP