उत्पत्तिप्रकरणं - सर्गः ५०
योगवासिष्ठः
श्रीवसिष्ठ उवाच ।
तस्मिंस्तदा वर्तमाने घोरे समरविभ्रमे ।
सर्वारिसैन्यनाशार्थमेकं स्वबलशान्तये ॥१॥
सस्मार स्मृतिमानन्तो महोदाराधिधैर्यभृत् ।
अस्त्रमस्त्रेश्वरं श्रीमद्वैष्णवं शंकरोपमम् ॥२॥
अथ योऽसौ शरस्तेन वैष्णवास्त्राभिमन्त्रितः ।
मुक्तस्तस्य फलप्रान्तादुल्मुका दिवि निर्ययौ ॥३॥
पङ्क्तयः स्फारचक्राणां शतार्कीकृतदिक्तटाः ।
गदानामभियान्तीनां शतवंशीकृताम्बराः ॥४॥
वज्राणां शतधाराणां तृणराजीकृताम्बराः ।
पट्टिशानां सपद्मानां दीनवृक्षीकृताम्बराः ॥५॥
शराणां शितधाराणां पुष्पजालीकृताम्बराः ।
खङ्गानां श्यामलाङ्गानां पत्रराशीकृताम्बराः ॥६॥
अथ राजा द्वितीयोऽपि वैष्णवास्त्रस्य शान्तये ।
ददौ वैष्णवमेवास्त्रं शत्रुनिष्ठावपूरकम् ॥७॥
ततोऽपि निर्ययुर्नद्यो हेतीनां हतहेतयः ।
शरशक्तिगदाप्रासपट्टिशादिपयोमयाः ॥८॥
शस्त्रास्त्रसरितां तासां व्योम्नि युद्धमवर्तत ।
रोदोरन्ध्रक्षयकरं कुलशैलेन्द्रदारणम् ॥९॥
शरपातितशूलासिखड्गकुट्टितपट्टिशम् ।
मुसलप्रतनाप्रासशूलशातितशक्तिकम् ॥१०॥
शराम्बुराशिमथनमत्तमुद्गरमन्दरम् ।
गदावदनतो युक्तं दुर्वारास्त्रिनिभासिनि ॥११॥
रिष्टारिष्टप्रशमनभ्रमत्कुन्तेन्दुमण्डलम् ।
प्रासप्रसरसंरब्धप्रोद्यतान्तकृतान्तकम् ॥१२॥
चक्रावकुण्ठितोर्ध्वास्त्रं सर्वायुधक्षयंकरम् ।
शब्दस्फुटद्विरिञ्चाण्डं घातभग्नकुलाचलम् ॥१३॥
धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः ।
मदस्त्रवारणेनेव वज्राविजरपर्वतम् ॥१४॥
शङ्कुशङ्कितसूत्कारकाशिशूलशिलाशतम् ।
भुशुण्डीनिर्जितोद्दण्डभिन्दिपालोग्रमण्डलम् ॥१५॥
परशूलकराभैकपरशूलैकलम्पितम् ।
वहदुच्छिन्नचञ्चूरचारणं शत्रुवारणम् ॥१६॥
स्फुटच्चटचटास्फोटरुद्धत्त्रिपथगारयम् ।
हेत्यस्त्रीचूर्णसंभारमहाधूमवितानकम् ॥१७॥
अन्योन्यशस्त्रसंघट्टाद्भ्रमज्जालोल्लसत्तडित् ।
शब्दस्फुटद्विरिञ्चाण्डं धातमग्नकुलाचलम् ॥१८॥
धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः ।
मदस्त्रवारणेनैव कालोपायोऽचलात्मनः ॥१९॥
अयं कियद्बल इति सिन्धौ तिष्ठति हेलया ।
विदूरथोऽस्त्रमाग्नेयं तत्याजाशनिशब्दवत् ॥२०॥
ज्वालयामास स रथं सिन्धोः कक्षमिवारसम् ।
एतस्मिन्नन्तरे व्योम्नि हेतिनिर्विवरोदरे ॥२१॥
ससन्नाह इव प्रावृट्पयोदतटिनीव यः ।
अस्त्रे राज्ञोः क्षणं कृत्वा युद्धं परमदारुणम् ॥२२॥
अन्योन्यं शममायाते सवीर्ये सुभटाविव ।
एतस्मिन्नन्तरे सोऽग्नी रथं कृत्वा तु भस्मसात् ॥२३॥
प्राप दग्ध्वा वनं सिन्धुं मृगेन्द्रमिव कन्दरात् ।
सिन्धुरभ्यासतोऽग्न्यस्त्रं वारुणास्त्रेण शामयन् ॥२४॥
रथं त्यक्त्वावनिं प्राप्य खड्गास्फोटकवानभूत् ।
अक्ष्णोर्निमेषमात्रेण रथाश्वानां रिपोः खुरान् ॥२५॥
लुलाव करवालेन मृणालानीव लाघवात् ।
विदूरथोऽपि विरथो बभूवास्फोटकासिमान् ॥२६॥
समायुधौ समोत्साहौ चेरतुर्मण्डलानि तौ ।
खड्गौ क्रकचतां यातौ मिथः प्रहरतोस्तयोः ॥२७॥
दन्तमालेयमस्येव बले चर्वयतः प्रजाः ।
शक्तिमादाय चिक्षेप खङ्गं त्यक्त्वा विदूरथः ॥२८॥
सिन्ध्वम्बुघर्घरारावो महोत्पात इवाशनिः ।
अविच्छिन्ना समायाता पतिता सास्य वक्षसि ॥२९॥
अप्रियस्य यथा भर्तुरनिच्छन्ती स्वकामिनी ।
तेन शक्तिप्रहारेण नासौ मरणमाप्तवान् ॥३०॥
केवलं रुधिरव्रातं नागो जलमिवात्यजत् ।
तद्देशलीला तं दृष्ट्वा भग्नं तम इवेन्दुना ॥३१॥
सविकासघनानन्दा पूर्वलीलामुवाच ह ।
देवि पश्य नृसिंहेन हतो भर्त्रायमावयोः ॥३२॥
शक्तिकोटिनखैर्दैत्यः सिन्धुरुद्घुरकन्धरः ।
सरःस्थलस्थनागेन्द्रकरफूत्कृतवारिवत् ॥३३॥
पिष्टो रसोऽस्य निर्याति रक्तं चुलचुलारवैः ।
हा कष्टं रथमानीतं सिन्धुरारोढुमुद्यतः ॥३४॥
सौवर्णं मैरवं शृङ्गं पुष्करावर्तको यथा ।
पश्य देवि रथोऽस्यासौ मुद्गरेण विचूर्णितः ॥३५॥
भ्रमत्पार्थनिपातेन सौवर्णं नगरं यथा ।
प्रवृत्तो रथमारोढुमानीतं पतिरेष मे ॥३६॥
कष्टं वज्रमिवेन्द्रेण मुसलं सिन्धुनेक्षितम् ।
जवात्पतिः प्रयातो मे सैन्धवं मुसलायुधम् ॥३७॥
वञ्चयित्वा विलासेन रथमारुह्य लाघवात् ।
हा धिक्कष्टमसौ सिन्धुरार्यपुत्ररथं रयात् ॥३८॥
हरिश्वभ्रमिवारूढं प्लवेनोर्ध्वमिव द्रुमम् ।
क्रीडित्वा पीडयामास शरवर्षैर्विदूरथम् ॥३९॥
छिन्नध्वजं छिन्नरथं छिन्नाश्वं छिन्नसारथिम् ।
छिन्नकार्मुकवर्माणं भिन्नसर्वाङ्गमाकुलम् ॥४०॥
हृदि स्फोटशिलापट्टदृढे पीवरमूर्धनि ।
भित्त्वा वज्रसमैर्बाणैः पातयत्येव भूतले ॥४१॥
अथान्यं रथमानीतं कृच्छ्रेण प्राप्य चेतनाम् ।
खङ्गेनारोहतोऽस्यांसं छिन्नं भर्तुर्विलोकय ॥४२॥
पद्मरागगिरिद्योतमिवर्द्धासृग्विमुञ्चति ।
हा हा धिक्कष्टमेतेन सिन्धुना खड्गधारया ॥४३॥
जङ्घयोर्मे पतिश्छिन्नः क्रकचेनेव पादपः ।
हा हा हतास्मि दग्धास्मि मृतास्म्युपहतास्मि च ॥४४॥
मृणाले इव पत्युर्मे लूने द्वे अपि जानुनी ।
इत्युक्त्वा सा तदालोक्य भर्तुर्भावभयातुरा ॥४५॥
लता परशुकृत्तेव मूर्च्छिता भुवि सापतत् ।
विदूरथोऽपि निर्जानुः प्रहरन्नेव विद्विषि ॥४६॥
पपात स्यन्दनस्याधश्छिन्नमूल इव द्रुमः ।
पतन्नेवैष सूतेन रथेनैवापवाहितः ॥४७॥
यदा तदाहतिं तस्य कण्ठेऽदात्सिन्धुरुद्धतः ।
अर्धविच्छिन्नकण्ठोऽसावनुयातोऽथ सिन्धुना ॥४८॥
स्यन्दनेनाविशत्सद्म पद्मं रविकरो यथा ।
सरस्वत्याः प्रभावाढ्यं तत्प्रवेष्टुमसौ गृहम् ।
नाशकन्मशको मत्तो महाज्वालोदरं यथा ॥४९॥
खङ्गावकृत्तगलगर्तगलत्सवात-
रक्तच्छटाछुरितवस्त्रतनुत्रगात्रम् ।
तत्याज तं भगवतीमभितो गृहान्तः
सूतः प्रवेश्य मृतितल्पतले गतोऽरिः ॥५०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० विदूरथमरणवर्णनं नाम पञ्चाशः सर्गः ॥५०॥
N/A
References : N/A
Last Updated : September 11, 2021
TOP