निर्वाणप्रकरणं - सर्गः २३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
अथासौ वायसश्रेष्ठो जिज्ञासार्थमिदं मया ।
भूयः पृष्टो महाबाहो कल्पवृक्षलताग्रके ॥१॥
चरतां जगतः कोशे व्यवहारवतामपि ।
कथं विहगराजेन्द्र देहं मृत्युर्न बाधते ॥२॥
भुशुण्ड उवाच ।
जानन्नपि हि सर्वज्ञ ब्रह्मञ्जिज्ञासयेव माम् ।
पृच्छसि प्रभवो नित्यं भृत्यं वाचालयन्ति हि ॥३॥
तथापि यत्पृच्छसि मां तत्ते प्रकथयाम्यहम् ।
आज्ञाचरणमेवाहुर्मुख्यमाराधनं सताम् ॥४॥
दोषमुक्ताफलप्रोता वासनातन्तुसंततिः ।
हृदि न ग्रथिता यस्य मृत्युस्तं न जिघांसति ॥५॥
निःश्वासवृक्षक्रकचाः सर्वदेहलताघुणाः ।
आधयो यं न भिन्दन्ति मृत्युस्तं न जिघांसति ॥६॥
शरीरतरुसर्पौघाश्चिन्तार्पितशिरःफणाः ।
आशा यं न दहन्त्यन्तर्मृत्युस्तं न जिघांसति ॥७॥
रागद्वेषविषापूरः स्वमनोबिलमन्दिरः ।
लोभव्यालो न भुङ्क्ते यं मृत्युस्तं न जिघांसति ॥८॥
पीताशेषविवेकाम्बुः शरीराम्भोधिवाडवः ।
न निर्दहति यं कोपस्तं मृत्युर्न जिघांसति ॥९॥
यन्त्रं तिलानां कठिनं राशिमुग्रमिवाकुलम् ।
यं पीडयति नानङ्गस्तं मृत्युर्न जिघांसति ॥१०॥
एकस्मिन्निर्मले येन पदे परमपावने ।
संश्रिता चित्तविश्रान्तिस्तं मृत्युर्न जिघांसति ॥११॥
वपुःखण्डाभिपतितं शाखामृगमिवोदितम् ।
न चञ्चलं मनो यस्य तं मृत्युर्न जिघांसति ॥१२॥
एते ब्रह्मन्महादोषाः संसारव्याधिहेतवः ।
मनागपि न लुम्पन्ति चित्तमेकं समाहितम् ॥१३॥
आधिव्याधिसमुत्थानि चलितानि महाभ्रमेः ।
न विलुम्पन्ति दुःखानि चित्तमेकं समाहितम् ॥१४॥
नास्तमेति न चोदेति न संस्मृतिर्न विस्मृतिः ।
न सुप्तं न च जाग्रत्स्याच्चित्तं यस्य समाहितम् ॥१५॥
अन्धीकृतहृदाकाशाः कामकोपविकारजाः ।
चिन्ता न परिहिंसन्ति चित्तं यस्य समाहितम् ॥१६॥
न ददाति न चादत्ते न जहाति न याचते ।
कुर्वदेव च कार्याणि चित्तं यस्य समाहितम् ॥१७॥
ये दुरर्था दुरारम्भा दुर्गुणा दुरुदाहृताः ।
दुष्क्रमास्ते न कृन्तन्ति चित्तं यस्य समाहितम् ॥१८॥
आभान्ति विपुलार्थानि महान्ति गुणवन्ति च ।
सर्वाण्येवानुधावन्ति चित्तं यस्य समाहितम् ॥१९॥
यदुदर्कहितं सत्यमनपायि गतभ्रमम् ।
दुरीहितदृशोन्मुक्तं तत्परं कारयेन्मनः ॥२०॥
यददृष्टमशुद्धेन चित्तवैधुर्यदायिना ।
अनेकत्वपिशाचेन तत्परं कारयेन्मनः ॥२१॥
आदौ मध्ये तथान्ते च चिराय परमोचितम् ।
यच्चारु मधुरं पथ्यं तत्परं कारयेन्मनः ॥२२॥
यदनन्तं मनःपथ्यं तथ्यमाद्यन्तमध्यगम् ।
समस्तसाधुभिर्जुष्टं तत्परं कारयेन्मनः ॥२३॥
यद्बुद्धेः परमालोकमाद्यं यदमृतं परम् ।
यदनुत्तमसौभाग्यं तत्परं कारयेन्मनः ॥२४॥
सामरासुरगन्धर्वे सविद्याधरकिन्नरे ।
ससुरस्त्रीगणे स्वर्गे न किंचित्सुस्थिरं शुभम् ॥२५॥
सतरौ सनराधीशे सपर्वतपुरव्रजे ।
साम्बुधौ भूतले तात न किंचिच्छोभनं स्थिरम् ॥२६॥
सनागे सासुरव्यूहे सासुरस्त्रीगणे तथा ।
समस्त एव पाताले न किंचिच्छोभनं स्थिरम् ॥२७॥
सस्वर्गे ससुरालोके सपाताले सदिक्तटे ।
जगत्यस्मिंस्तु सर्वस्मिन्न किंचिच्छोभनं स्थिरम् ॥२८॥
आधिव्याधिविलोलासु दुःखौघवलितासु च ।
क्रियासुनित्यतुच्छासु न किंचित्सुस्थिरं शुभम् ॥२९॥
तरलीकृतचित्तासु हृदयानन्दिनीषु च ।
चिन्तासु धीविकारासु नकिंचित्सुस्थिरं शुभम् ॥३०॥
हृत्क्षीरोदकसंस्पन्दमन्दरेषु चलेष्वपि ।
स्वसंकल्पविकल्पेषु न किंचित्सुस्थिरं शुभम् ॥३१॥
अनारतागमापायपरास्वसिशिरास्वपि ।
चित्राकारासु चेष्टासु न किंचित्सुस्थिरं शुभम् ॥३२॥
न वरमेकमहीतलराजता
न च वरं विबुधामररूपता ।
न च वरं धरणीतलनागता
स्थितिमुपैति हि यत्र सतां मनः ॥३३॥
न वरमाकुलशास्त्रविचारणं
न च वरं परकार्यविवेचनम् ।
न वरमग्र्यकथाक्रमवर्णनं
स्थितिमुपैति हि यत्र सतां मनः ॥३४॥
न वरमाधिमयं चिरजीवितं
न च वरं मरणं दृढमूढता ।
न च वरं नरको न च विष्टपं
स्थितिमुपैति हि न क्वचिदाशयः ॥३५॥
इति विविधजगत्क्रमाः समस्ताः
खलु मतिमूढतया नरस्य रम्याः ।
चलतरकलनाहिते पदार्थे
कथमुपयान्ति चिरस्थितिं महान्तः ॥३६॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० निर्वाण० पू० भुशुंडो० समाधानसंकल्पनिराकरणं नाम त्रयोविंशः सर्गः ॥२३॥
N/A
References : N/A
Last Updated : September 23, 2021
TOP