संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ५१

निर्वाणप्रकरणं - सर्गः ५१

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
न पुनर्भवतः पूर्वं संपन्नाश्चक्षुरादयः ।
यथा कमलजस्यैतत्सर्वमेव त्वया श्रुतम् ॥१॥
ब्रह्मपुर्यष्टकस्यादावर्थसंविद्यथोदिता ।
पुर्यष्टकस्य सर्वस्य तथैवोदेति सर्वदा ॥२॥
विद्धि पुर्यष्टकं जीवो यो गर्भस्थेन्द्रियोदयः ।
यद्यथा भावयत्याशु तत्तथा परिपश्यति ॥३॥
इन्द्रियाणीन्द्रियार्थाख्यं विद्धि संवेदनं स्वकम् ।
संपन्नं च यथा तत्ते प्रोक्तमाद्यमनःस्थितौ ॥४॥
शुद्धा संवित्संभवन्ती संवेदनमनिन्दितम् ।
ततोऽहंवेदनानन्तजीवपुर्यष्टकान्विता ॥५॥
न त्वेकत्वादनन्तत्वादवेद्यत्वादनामये ।
अभावत्वादनेकत्वादशून्यत्वात्परा स्थिता ॥६॥
चेत्यादिबुद्ध्या तत्किंचिन्न मनस्तां च गच्छति ।
न च जीवत्वमायाति न च पुर्यष्टकात्मिका ॥७॥
न विद्यादिविलासोऽस्ति सोस्ति नास्तीव यः सदा ।
परमात्मेति कथितो मनःषष्ठेन्द्रियातिगः ॥८॥
तस्मात्संपद्यते जीवश्चिन्मूर्तिर्मननात्मकः ।
भ्रमः केवलमित्याद्य उपदेशाय गीयते ॥९॥
यतः कुतश्चित्संपन्ने त्वविद्यामय आमये ।
उपदेश्योपदेशेन प्रविलीने विचारणात् ॥१०॥
प्रशान्तसकलाकारं ज्ञानं तत्रावशिष्यते ।
यत्राकाशमपि स्थूलमणाविव महाचलः ॥११॥
यत्रोद्यदाचारमपि सदप्यसदिव स्थितम् ।
जगज्जान्विषयांस्त्यक्त्वा काये त्वं तिष्ठ निर्मले ॥१२॥
असन्मयमविद्याया रूपमेव तदेव हि ।
यद्वीक्षिता सती नूनं नश्यत्येव न दृश्यते ॥१३॥
आलोकितं नाम कथमवस्तु किल लभ्यते ।
प्रयत्नेनापि संप्राप्तं मृगतृष्णाम्बुकैरिव ॥१४॥
असदेव सदेवासदज्ञानादस्य सत्यता ।
ज्ञानाद्यथास्थितं वस्तु दृश्यते नश्यति भ्रमः ॥१५॥
अविद्याया विचारोऽयं जीवपुर्यष्टकादिका ।
अप्यत्यन्तमसत्यायाः कल्पना कल्पितात्मनः ॥१६॥
तस्यास्त उपदेशाय सेयं जीवादिकल्पना ।
कृता शास्त्रैः प्रबोधाय तां त्वमेकमनाः श्रृणु ॥१७॥
जीवत्वमिव संप्राप्ता पुर्यष्टकपदस्थिता ।
कला कलङ्ककलिता चितिराबोधनोन्मुखी ॥१८॥
यद्यथा भावयत्याशु तत्तथानुभवत्यलम् ।
सत्यो भवत्वसत्यो वा बालेन निशि यक्षकः ॥१९॥
पञ्चतन्मात्रकलनां संभावयति सत्तया ।
तत्रात्मनि तथा रन्ध्रान्प्रपश्यति तथोदितान् ॥२०॥
एभ्य एव समुत्पन्नं बहिःस्थं भूतपञ्चकम् ।
पश्यत्यनन्यदन्याभं शाखाशतमिवाङकुरः ॥२१॥
इदमन्तरिदं बाह्यमिति निश्चयवांस्ततः ।
जीवो भावं यथादत्ते तत्तथा द्रढयत्यथ ॥२२॥
रश्मिजालमिवेन्दोर्यदात्मनः प्रतिभासनम् ।
बाह्यस्पर्शतया तेन तदेवाशूररीकृतम् ॥२३॥
मरिचस्येव यत्तैक्ष्ण्यं शून्यत्वमिव खस्य यत् ।
आत्मनो वेदनं यच्च तदेवान्यदिव स्थितम् ॥२४॥
अत्रैव निश्चयं बद्ध्वा नियमः सुदृढीकृतः ।
अनेनेत्थमनेनेत्थं भाव्यमित्यवखण्डितम् ॥२५॥
स्वभावेतरनामासौ स्वसंकल्पमयात्मकः ।
कश्चित्कदाचिद्भवति स्वभावेनैव नान्यथा ॥२६॥
आत्मनैवेदमखिलं संपन्नं द्वैतमद्वयम् ।
खण्डो मधुरसेनेव मृदेव च महाघटः ॥२७॥
संनिवेशविकारादिदेशकालादिसंभवात् ।
संभवत्यत्र नत्वीशे देशकालाद्यसंभवात् ॥२८॥
इतः पुष्पमितः पत्रमहमित्युदितो यथा ।
खण्डे स्वात्मनि नः सत्तारसोऽद्वित्वे द्वितां वहन् ॥२९॥
इतः पट इतः कुड्यमहमित्यादितस्तथा ।
सर्वात्मनात्मनि ब्रह्म विद्धि त्वं द्वित्वमाहरत् ॥३०॥
अद्याङ्कुरोऽहमद्यार्करुगहं त्वद्य वारिदः ।
यथेति तिष्ठत्यम्भोदस्तथात्मा सदसद्वपुः ॥३१॥
इति भाव्यमनेनेदमित्थं सर्वेश्वरे ततम् ।
क्रमं खण्डयितुं लोके कस्य नामास्ति शक्तता ॥३२॥
आदर्शस्वच्छ आकाशे नैव स्वः प्रतिबिम्बति ।
व्यतिरेकासंभवतः कचत्येव हि केवलम् ॥३३॥
ब्रह्मणि त्वात्मनात्मैव स्थितः कचति बिम्बति ।
द्वैतीभवत्यदेहोऽपि चिन्मयत्वात्स्वभावतः ॥३४॥
यद्यथैवात्मकचनं वेत्ति तं भवतात्मना ।
असत्यमपि तन्नेह व्यभिचारी कदाचन ॥३५॥
हेमत्वकटकत्वे द्वे सत्यासत्यस्वरूपिणी ।
हेम्नि भाण्डगते यद्वच्चित्त्वाचित्त्वे तथात्मनि ॥३६॥
सर्वगत्वाच्चितेश्चित्त्वं नित्यं मनसि विद्यते ।
हेमत्वं कटकस्येव जडभावः स्थितोऽन्यदा ॥३७॥
चित्त्वजाड्यात्मकं चित्तं दृष्टं भावयति स्वयम् ।
यथा यदैव यद्भावं तथा भवति तत्तदा ॥३८॥
काले काले चिता जीवस्त्वन्योन्यो भवति स्वयम् ।
भाविताकारवानन्तर्वासनाकलिकोदयात् ॥३९॥
स्वप्ने दृष्टो यथा ग्रामो याति सत्तान्यतेक्षणात् ।
देहाद्देहं तथा याति देहोऽयं प्रतिभात्मकः ॥४०॥
प्रतिभासो यथा स्वप्ने नरः कुड्यं पटो भवेत् ।
भवत्यसत्यमेवेदं देहान्तरमिदं स्वतः ॥४१॥
असत्यमेव म्रियते त्वसत्यं जायते पुनः ।
जीवः स्वप्रतिभासेन स्वप्नवत्स्वान्यरूपवत् ॥४२॥
कालेनैतादृशं रूपमिदं नान्यत्वमेति वै ।
प्रकृतं निश्चयारूढं भ्रमन्त्येते भवः स्वतः ॥४३॥
वस्तु दृष्टमदृष्टं च स्वप्ने समनुभूयते ।
जीवस्वप्ने जगद्रूपं विद्धि वेद्यविदां वर ॥४४॥
अजाग्रत्दृष्टिदृष्टो यः स्वाभिधानादिनेरितः ।
न स्वप्नो विद्यते तस्मादच्छात्मा चितिमात्रकम् ॥४५॥
अद्यापूर्वाभिधं स्वप्ने यथा पश्यति नान्यथा ।
अग्रदृष्टं तथैवार्थं चेतनं चित्प्रपश्यति ॥४६॥
प्राक्तनी वासनाद्यापि पौरुषेणावजीयते ।
ह्यःकुकर्माद्य यत्नेन प्रयाति हि सुकर्मताम् ॥४७॥
मोक्षादृते न शाम्यन्ति जीवतां चक्षुरादयः ।
उन्मज्जन्ति निमज्जन्ति केवलं देशकालतः ॥४८॥
चितः स्वकलनात्तस्य देहोग्र इव तिष्ठति ।
पञ्चात्माभावितोऽसत्यो महायक्षः शिशोरिव ॥४९॥
मनोबुद्धिरहंकारस्तथा तन्मात्रपञ्चकम् ।
इति पुर्यष्टकं प्रोक्तं देहोऽसावातिवाहिकः ॥५०॥
अमूर्त एव चित्तात्मा खत्वमस्यातिपीनता ।
वाततास्य महागुल्मो देहतास्य सुमेरुता ॥५१॥
विरजस्त्वक्रमेणैव निरवस्थस्तु मुक्तिभाक् ।
सुषुप्ततैकावस्थास्य जडाः क्रोडीकृता यया ॥५२॥
स्वप्ननाम्नी तथावस्था देहप्रत्ययशालिनी ।
आमोक्षं भ्रमतीहायमिति स्थावरजंगमैः ॥५३॥
कदाचिद्धि सुषुप्तस्थः कदाचित्स्वप्नवत्स्थितः ।
आतिवाहिकदेहोऽयं सर्वस्यैवावतिष्ठते ॥५४॥
यदा सुषुप्तभावस्थो भाविदुःस्वप्नवेधितः ।
तदा कालानलसमस्तिष्ठत्यनुदिताकृतिः ॥५५॥
स्थावराद्यास्ववस्थासु कल्पवृक्षदशासु च ।
भवत्येव सुषुप्तस्थो घनमोहशिलाघनः ॥५६॥
सुषुप्ततास्य जडता स्वप्नोत्थेयं हि संसृतिः ।
यः प्रबोधोऽस्य सा मुक्तिस्तज्जाग्रद्या तु तुर्यता ॥५७॥
जीवप्रबोधान्मुक्तिर्हि प्रबोधात्परमात्मताम् ।
सोऽभ्येति क्षालितमलं ताम्रं कनकतामिव ॥५८॥
जीवप्रबोधान्मुक्तिर्या सा चेह द्विविधोच्यते ।
एका जीवन्मुक्ततेति द्वितीया देहमुक्तता ॥५९॥
जीवन्मुक्तिर्हि तुर्यत्वं तुर्यातीतं पदं ततः ।
बोधो जीवः प्रबोधोऽयं स च बुद्धिप्रयत्नतः ॥६०॥
ज्ञातप्रमाणो जीवोन्तर्यो जानातीह तन्मयः ।
पश्यतीमं भयं चैव सुदीर्घस्वप्नविभ्रमम् ॥६१॥
मिथ्योदितः स्वहृदये स्वस्थ एव शिलीकृते ।
जीवानामन्तरे त्वन्यन्न किंचिच्चित्कलां विना ॥६२॥
तामेवान्यतया पश्यन्मुधैव परिशोचति ।
जीवाणोरन्तरे त्वन्यन्न किंचित्परमादृते ॥६३॥
यत्र तत्र जगद्दृष्टमहो मायाविजृम्भितम् ।
स्थाल्यन्तः कथदम्बूनां यथा नाना भ्रमोदयः ॥६४॥
जीवाणूनां तथैवान्तर्मिथ्यासंसरणोदयः ।
बन्धोस्य वासनाबन्धो मोक्षः स्याद्वासनालयः ॥६५॥
वासनान्तोऽस्य सौषुप्ती स्वप्ने विस्फुरति स्थितिः ।
घनवासनमोहोऽयं जीवः स्थावरतादिभाक् ॥६६॥
मध्यस्थवासनस्तिर्यक्पुरुषस्तनुवासनः ।
यदान्तर्जीवितेनान्तो बहिर्जाता घटादयः ॥६७॥
जीवैक्यादुभयोः सत्ता ग्राह्यग्राहकयोस्तदा ।
आत्मानात्मसमालीढो बहिरन्तर्यदा चिता ॥६८॥
तदा ग्राह्यग्रहणधीर्मृगतृष्णेव सोदया ।
नेह संत्यज्यते किंचिन्नेह किंचिन्न गृह्यते ॥६९॥
बाह्यान्तरकलाकारश्चिदात्मैकः प्रकाशते ।
त्रिजगच्चिच्चमत्कारस्त्वलं भेदविकल्पनैः ।
शोभिताः स्मश्चिति चिरात्सबाह्यान्तर्न विद्यते ॥७०॥
अब्धिर्यथा जलमपास्तसमस्तभेदः
खादच्छमेव सकलं द्रवमेकशुद्धम् ।
सर्वं तथेदमपहस्तितभेदजात-
माद्यं परं पदमनामयमेव बुद्धम् ॥७१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू० इन्द्रियार्थोपलम्भविचारो नामैकपञ्चाशः सर्गः ॥५१॥

N/A

References : N/A
Last Updated : September 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP