निर्वाणप्रकरणं - सर्गः ५६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीभगवानुवाच ।
इति निर्वासनत्वेन जीवन्मुक्ततयार्जुन ।
अन्तः शीतलतामेत्य बन्धुदुःखमलं त्यज ॥१॥
जरामरणनिःशङ्क आकाशविशदाशयः ।
त्यक्तेष्टानिष्टसंकल्पो वीतरागो भवानघ ॥२॥
प्रवाहपतितं कार्यमिदं किंचिद्यथागतम् ।
कुरु कार्याणि कर्माणि न किंचिदिह नश्यति ॥३॥
प्रवाहपतितं कर्म स्वमेव क्रियते तु यत् ।
जीवन्मुक्तस्वभावोऽयं सा जीवन्मुक्तता तथा ॥४॥
इदं कर्म त्यजामीदमाश्रयामीति निर्णयः ।
मूढस्य मनसो रूपं ज्ञानिनस्तु समा स्थितिः ॥५॥
प्रवाहपतितं कर्म कुर्वन्तः शान्तचेतसः ।
जीवन्मुक्ताः सुषुप्तस्थाः स्फुरन्त्यत्र सुषुप्तवत् ॥६॥
स्थिरां संस्थितिमायान्ति कूर्माङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यो हृदि यस्य स्वभावतः ॥७॥
विश्वात्मनि तथा विश्वं कालत्रयमयोदितम् ।
अभित्ति त्रिजगच्चित्रं कुरुते चित्तचित्रकृत् ॥८॥
व्योम्नि व्योमात्मकमपि प्रस्फुटं वृत्तिवर्तिभिः ।
चित्तचित्रकरेणादौ चित्रं चित्रं वितानितम् ॥९॥
पश्चाद्भित्तिः कृता व्योमरूपा चासावहो भ्रमः ।
अपूर्वैवातिमायेयं तृणकुड्यमयी शुभा ॥१०॥
न मनागपि भेदोऽस्ति स्फुटमप्युपलब्धयोः ।
इमा या उपलक्ष्यन्ते भित्तयश्चित्तचित्रजाः ॥११॥
व्योम्नः शून्यतमा विद्धि तास्तामरसलोचन ।
क्षणेन चेतसि यथा भ्रान्तौ लोकक्षयोदयौ ॥१२॥
आत्मा जगत्तथैवेदं सबाह्याभ्यन्तरं नभः ।
चिरंतनमनोराज्यं यत्तस्मात्किल सत्यता ॥१३॥
किं त्वनालोकितेऽपि स्यात्सत्यं नास्त्येव विभ्रमे ।
क्रमेणालोकतः सत्यमालोकेन विलीयते ॥१४॥
दृश्यमानमपि क्षामं शरदीवाभ्रमण्डलम् ।
चित्तचित्रकृतश्चित्रे संस्थिताश्चित्रपुत्रिकाः ॥१५॥
भित्त्यभावादनाकारा बहिस्त्रिभुवनादिकाः ।
न ताः सन्ति न वासि त्वं किं केन परिरोध्यते ॥१६॥
रोध्यरोधकसंमोहं त्यक्त्वा खे विमलो भव ।
प्रवृत्तिरेव न व्योम्नः प्रवृत्तिश्चैव खात्मिका ॥१७॥
अतः कालक्रियाकुड्यकलादिविमलं नभः ।
चित्तसंस्थं यथा चित्रं सरूपमखिलात्मकम् ॥१८॥
व्योम्नः शून्यतमं विद्धि तथेदमखिलं जगत् ।
चित्तभित्तौ कृतं चित्रं यच्चिच्चित्रकरेण तत् ॥१९॥
सर्वशून्यतया व्योम्नो मनागपि न भिद्यते ।
यथा प्रकचतश्चित्ते जगन्निर्माणसंक्षयौ ॥२०॥
क्षणेनैव तथैवेमौ भुविस्थाविति विद्धि हे ।
अद्य क्षीणा मनोराज्ये नानानुभवनात्मनि ॥२१॥
क्षणभावितमोहेन कल्पना परिकल्पिता ।
असदेव मनोराज्यं कर्तुं शक्तं यथा मनः ॥२२॥
क्षणस्य कल्पीकरणे तथैव बलवन्मनः ।
क्षणं कल्पीकरोत्येतत्तच्चाल्पं कुरुते बहु ॥२३॥
असत्सत्कुरुते क्षिप्रमितीयं भ्रान्तिरुत्थिता ।
क्षणेनैव मनोराज्यं प्रतिभातं स्वभावतः ॥२४॥
यद्विचित्रात्म तदिदं जगज्जालमिति स्थितम् ।
सर्गे निर्वाणनिष्ठत्वान्निमेषमयमुत्थितम् ॥२५॥
प्रतिभामात्रतोऽत्रैव कल्पिता वज्रसारता ।
प्रतिभासविपर्यासमात्रं ह्यविदिताकृतेः ॥२६॥
प्रवृत्तौ वा निवृत्तौ वा कैव सा वज्रसारता ।
चित्तचित्रकृतश्चित्स्थं जगच्चित्रं कदा स्थितम् ॥२७॥
अकुड्यमप्यरङ्गाढ्यमिदं स्फारमिवाग्रतः ।
अहो नु चित्रं निर्भित्ति चित्रमुज्ज्वलमुत्थितम् ॥२८॥
सुरञ्जनं जगदिति स्फुटं दृष्टिविलोभनम् ।
नानातमोमषीलेखं नानातेजोंशुरञ्जनम् ॥२९॥
नानाकल्पाङ्गावयवं नानारागानुरञ्जितम् ।
नानादृष्टिविलासाढ्यं नानानुभवलोचनम् ॥३०॥
नानाग्रहोग्रकचनं नानाकाराग्रपश्चिमम् ।
व्योमनीलसरः फुल्लताराचन्द्रार्कपङ्कजम् ॥३१॥
विचित्ररचनोद्युक्तमेघालीपत्रमञ्जरि ।
प्रकोष्ठकामिलिखितसुरासुरनृपुत्रिकम् ।
परमालोकमङ्कोलयुवताकाशकुडयकम् ॥३२॥
आकाश एव रचिता प्रतिभैकरङ्गा
मुग्धा जगत्त्रयमनोहरपुत्रिकेयम् ।
चिन्मात्रचक्रपरिरञ्जितसर्वलोका
लीलाकुला चपलचित्तकचित्रकर्त्रा ॥३३॥
हेमाचलाङ्गलतिका घनकेशपाशा
चन्द्रार्कलोचनविचालनदृष्टलोका ।
धर्मार्थकामविनियन्त्रितशास्त्रवस्त्रा
पातालजालचरणोन्नतभूनितम्बा ॥३४॥
ब्रह्मेन्द्ररुद्रहरिबाहुचतुष्टयोग्रा
सत्त्वावृतोन्नतकुचस्फुरदङ्गयष्टिः ।
सुव्यालवेष्टितमहीतलपद्मपीठा
पत्रीकृताचलमहाभुवनोदरी च ॥३५॥
रात्र्यन्धकारचपलत्वहराक्षिचेष्टा
ताराकरालपुलका पविदन्तपङ्क्तिः ।
चञ्चच्चतुर्दशविधातुलभूतजात-
रोमाञ्चना प्रलयवादकदम्बपुष्पा ॥३६॥
जीवान्विता गगन एव कृता विचित्रा
व्योमात्मिका चिरविलक्षणचित्रकर्त्रा ।
चित्तेन चित्रपरिकर्मविदा त्रिलोकी
नानाविलासवलिता वरपुत्रिकेति ॥३७॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने चित्तवर्णनं नाम षट्पंचाशः सर्गः ॥५६॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP