संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः २८

निर्वाणप्रकरणं - सर्गः २८

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
एवं भुशुण्डवृत्तान्तः कथितस्ते मयानघ ।
अनया प्रज्ञया तीर्णो भुशुण्डो मोहसंकटात् ॥१॥
एतां दृष्टिमवष्टभ्य स्वप्राणाभ्यासपूर्विकाम् ।
भुशुण्डवन्महाबाहो भव तीर्णमहार्णवः ॥२॥
यथा ज्ञानेन योगेन संतताभ्यासजन्मना ।
भुशुण्डः प्राप्तवान्प्राप्यं तथासादय तत्पदम् ॥३॥
असक्तबुद्धयः सर्वे भुशुण्डवदवस्थितिम् ।
प्राप्नुवन्ति परे तत्त्वे प्राणापानावलोकिनः ॥४॥
एता विचित्रा भवता श्रुता विज्ञानदृष्टयः ।
इदानीं धियमालम्ब्य यथेच्छसि तथा कुरु ॥५॥
श्रीराम उवाच ।
भगवन्भवता भूमिभास्वता ज्ञानरश्मिभिः ।
हार्दमुद्दामदौरात्म्यं प्रमृष्टमखिलं तमः ॥६॥
प्रबुद्धाः स्मः प्रहृष्टाः स्मः प्रविष्टाः स्मः स्वमास्पदम् ।
स्थिताः स्मो ज्ञातविज्ञेया भवन्तो ह्यपरा इव ॥७॥
अहो भुशुण्डचरितं परं विस्मयकारकम् ।
भगवन्भवता प्रोक्तमुत्तमार्थावबोधनम् ॥८॥
भुशुण्डचरिते ब्रह्मन्नेतस्मिन्कथिते त्वया ।
यच्छरीरगृहं प्रोक्तं मांसचर्मास्थिनिर्मितम् ॥९॥
तत्केन नाम रचितं कुतो वा तत्समुत्थितम् ।
कथं वा स्थितिमायातं को वा तत्रावतिष्ठते ॥१०॥
श्रीवसिष्ठ उवाच ।
परमार्थावबोधाय दोषापाकरणाय च ।
श्रृणु राघव तत्त्वेन वक्ष्यमाणमिदं मया ॥११॥
अस्थिस्थूणं नवद्वारं रक्तमांसावलेपनम् ।
शरीरसदनं राम न केनचिदिदं कृतम् ॥१२॥
आभासमात्रमेवेदमित्थमेवावभासते ।
द्विचन्द्रविभ्रमाकारं सदसच्च व्यवस्थितम् ॥१३॥
द्विचन्द्रदर्शनविधौ चन्द्रद्वित्वं सदैव हि ।
वस्तुतश्चैक एवेन्दुः स्थितो देहस्तथैव हि ॥१४॥
देहप्रत्ययकाले हि देहोऽयं समवस्थितः ।
असन्नेव च सत्तस्मात्प्रोक्तः सदसदात्मकः ॥१५॥
स्वप्ने स्वप्नावबोधः संस्त्वन्यदा स मुधैव हि ।
बुद्बुदो बुद्बुदविधौ सत्यो मिथ्यैव चान्यदा ॥१६॥
देहो देहविधौ सत्यो ह्यसत्य इतरद्विधौ ।
प्रतिभासविधौ तावज्जलं सदसदन्यदा ॥१७॥
प्रतिभासविधौ देहः सन्नसंश्चान्यदा स्मृतः ।
आभासमात्रमेवेदमित्थं संप्रति भासते ॥१८॥
अयं नामाहमित्यन्तर्गृहीतमननं स्थितम् ।
मांसास्थिमयनिर्माणदेहोऽहमिति विभ्रमम् ॥१९॥
त्यज संकल्पनिर्माणदेहाः सन्ति सहस्रशः ।
सुखतल्पगतो येन स्वप्नदेहेन दिक्तटान् ॥२०॥
परिभ्रमसि हे राम स देहस्ते क्व संस्थितः ।
जागरायां मनोराज्ये येन स्वर्गपुरान्तरम् ॥२१॥
परिभ्रमसि मेरुं वा स देहस्ते क्व संस्थितः ।
स्वप्नेष्वपि च यः स्वप्नस्तत्र येन महीतटान् ॥२२॥
परिभ्रमसि हे राम स देहस्ते क्व संस्थितः ।
मनोराज्यं मनोराज्ये महद्विभवभूमिषु ॥२३॥
परिभ्रमसि येनेह स देहस्ते क्व संस्थितः ।
गतैर्देहैर्मनोराज्ये या विचित्रा जगत्क्रियाः ॥२४॥
प्रकरोषि महाबाहो ते देहास्ते क्व संस्थिताः ।
विलासिन्यानुरागिण्या येन संकल्पकान्तया ॥२५॥
निर्वृतिं यासि देहेन स देहस्ते क्व संस्थितः ।
एते राम यथा देहा मनसः सदसन्मयाः ॥२६॥
तथैव तादृशाचारो देहोऽयं मनसः स्मृतः ।
इदं धनमयं देहो देशोऽयमिति विभ्रमः ॥२७॥
तत्सर्वं चित्तवीर्यस्य संकल्पस्य विजृम्भितम् ।
दीर्घस्वप्नमिमं विद्धि दीर्घं वा चित्तविभ्रमम् ॥२८॥
दीर्घं वापि मनोराज्यं संसारं रघुनन्दन ।
प्रबोधमेष्यसि यदा परमात्मेच्छया स्वया ॥२९॥
द्रक्ष्यसि त्वं तदा सम्यगिदमर्कोदये यथा ।
स्वप्नसंकल्पजालेन यथान्यैव जगत्स्थितिः ॥३०॥
तथैवेयं हि संकल्पकलना काचिदेव हि ।
यथा पूर्वं मयोत्पत्तिः प्रोक्ता कमलजन्मनः ॥३१॥
मनसः स्वयमेवान्तःसंकल्पकलनोद्भवा ।
विचित्ररचनोपेतं मनस्तत्रात्तविभ्रमम् ॥३२॥
संकल्पकलनामात्रं तथेदमवभासनम् ।
यथा कल्पित आभासो मनसोऽब्जजतां गतः ॥३३॥
देहाद्विचिन्तितो देहः स्थितोऽन्यस्तद्वदेव हि ।
प्राक्प्रवाहचिराभ्यस्तो वासनातिशयेन यः ॥३४॥
तथैव दृश्यते देहस्तथाऽऽकृत्युदयेन सः ।
पौरुषेण प्रयत्नेन संकल्पो ह्ययमेव चित् ॥३५॥
अन्यथा भाव्यते राम भूयते तदिहान्यथा ।
अयं सोऽयं ममायं च संसार इति भाविते ॥३६॥
सत्यो यो भाव्यते राम भावनादार्ढ्यसंभवः ।
भावितं तीव्रवेगेन यदेवाशु तदेव हि ॥३७॥
सर्वत्र दृश्यते राम कान्तेवात्यन्तवल्लभा ।
अहर्व्यावृत्तिरभ्यस्ता यथा स्वप्नेषु दृश्यते ॥३८॥
तथायं भावनाभ्यस्तः संसारोऽप्यवलोक्यते ।
यथा स्वप्नावनौ क्षिप्रमहर्यदवभासते ॥३९॥
तथेदमल्पकालस्थमपि संलक्ष्यते स्थिरम् ।
व्योमन्येव यथा तापतप्ते संदृश्यते सरित् ॥४०॥
धराप्यविद्यमानापि संकल्पाद्दृश्यते तथा ।
दृश्यते दृष्टिवैरूप्याद्यथा व्योमनि पिच्छिका ॥४१॥
तथैवेयं जगल्लक्ष्मीर्दुर्ज्ञानादवभासते ।
दृश्यते समया दृष्ट्या न यथा व्योम्नि पिच्छिका  ॥४२॥
सम्यग्दृष्ट्या जगल्लक्ष्मीस्तथेयं नावभासते ।
भीरुरभ्येति न यथा स्वसंकल्पेषु संभ्रमम् ॥४३॥
स्वसंकल्पे हि संसारे न तथैति भयं सुधीः ।
स्व एव हि स्वभावोऽयमित्थं संप्रति भासते ॥४४॥
संसारसरणिस्थित्यां कस्मात्कोऽत्र विभेति किम् ।
स एव किंचित्संशोध्यः शुद्ध्या विमलतां गते ॥४५॥
तस्मिन्न दृश्यते राम मोहोऽयं जगतः स्थितः ।
सम्यगालोकमात्रेण स्वभावः शुद्धिमृच्छति ॥४६॥
न गृह्णाति मलं भूयस्ताम्रतामिव काञ्चनम् ।
आभासमात्रमेवेदं न सन्नासज्जगत्त्रयम् ॥४७॥
इत्यन्यकलनात्यागः सम्यगालोकनं विदुः ।
मरणं जीवितं स्वर्गो ज्ञानमज्ञानमेव च ॥४८॥
चिदाभासादृते नास्तीत्येकता सम्यगीक्षणम् ।
त्वमहंतादिसंसार इति मे न दिशो दश ॥४९॥
सर्वं स्वाभासमेवेति सम्यगालोकनं विदुः ।
सदसन्मयसंसारे यथा भूतार्थदर्शनात् ॥५०॥
नास्तमेति न चोदेति सम्यगालोकनान्मनः ।
निर्णीय सर्वभावानामसत्त्वं सत्त्वमेव च ॥५१॥
निष्कामं शान्तिमभ्येति सम्यगालोकनान्मनः ।
न निन्दति न च स्तौति न हृष्यति न शोचति ५२॥
शीतलां सत्यतामेति सम्यगालोकनान्मनः ।
अवश्यमेव मर्तव्यं सर्वैरेव हि बन्धुभिः ॥५३॥
इति बन्धुवियोगेषु किं वृथा परितप्यसे ।
अवश्यमेव च मया मर्तव्यमिति निश्चयः ॥५४॥
इत्यात्ममरणप्राप्तौ किं मुधा परितप्यसे ।
अवश्यमेव जातेन किंचित्सुविभवादिकम् ॥५५॥
प्राप्तव्यं पुरुषेणेति हर्षस्यावसरो हि कः ।
सर्वस्यैव हि संसारे नरस्य व्यवहारिणः ॥५६॥
अर्थायाता भवत्यापच्छोकस्यावसरो हि कः ।
बृंहत्युदेति स्फुरति बुद्बुदौघ इवार्णवे ॥५७॥
इदं हि जगतां जालं किमत्र परिदेवना ।
सत्सदेव सदैवैतदसदेवासदेव हि ॥५८॥
क्रियावैचित्र्यमात्रे तु किमन्यत्परिदेव्यते ।
नाहमस्मि न चाभूवं भविष्यामि न सोऽधुना ॥५९॥
देहोऽयं चित्रदोषोत्थः किमन्यत्परिदेव्यते ।
देहाच्चेदन्य एवाहं चिदाभासस्तदङ्ग हे ॥६०॥
कौ तौ मे सदसद्भावौ यन्निष्ठं परितप्यते ।
इति निश्चयवत्स्वान्तं सम्यग्ज्ञानात्मनो मुनेः ॥६१॥
नास्तमेति न चोदेति न शान्तं परितप्यते ।
परतामेव नाशान्तामनुत्तमपदे स्थितः ॥६२॥
आदत्ते तित्तिरी मृद्वीं तृणकोटिमिवामलाम् ।
एतदर्थमसत्येऽस्मिन्नास्था कार्या मनागपि ॥६३॥
सुरज्ज्वेव बलीवर्दो बध्यते जन्तुरास्थया ।
अतस्त्वया दृढमिदमिति निर्णीय बुद्धितः ॥६४॥
आस्थारहितया बुद्ध्या विहर्तव्यमिहानघ ।
कर्तव्यमेव कर्तव्यमकर्तव्यमुपेक्ष्यते ॥६५॥
आस्थानास्थे परित्यज्य लीलयैव महाधिया ।
आभासमात्रमेवेदं यस्य च प्रतिभासते ॥६६॥
सोऽन्तः शीतलतामेति दिनान्ते भुवनं यथा ।
प्रतिभासं परित्यज्य पदार्थपटलव्रजे ॥६७॥
आभासमात्रसामान्यमिदमालोकयानघ ।
आभासमात्रकं राम चित्तामर्शकलङ्कितम् ॥६८॥
ततस्तदपि संत्यज्य निराभासो भवोत्तम ।
चिदाकाशमयो नित्यं सर्वगः सर्ववर्जितः ॥६९॥
आभासस्य परित्यागे भवस्येकान्तनिर्मलः ।
नाहमस्मि न मे भोगाः सत्या इत्यभिभाविते ॥७०॥
नेदमाडम्बरं व्यर्थमनर्थायावभासते ।
अहमेव हि वा सर्वं चिदित्येवं विभाविते ॥७१॥
नेदमाडम्बरं व्यर्थमनर्थायावभासते ।
दर्शनद्वयमप्येतत्सत्यमत्यन्तसिद्धिदम् ॥७२॥
यदेकमेतयोवेत्सि रम्यं तद्राम संश्रय ।
द्वाभ्यामेवाथ वै ताभ्यां दर्शनाभ्यामिहानघ ॥७३॥
विहरन्कुरु कल्याण रागद्वेषपरिक्षयम् ।
यत्किंचिदुदितं लोके यन्नभस्यथ वा दिवि ॥७४॥
तत्सर्वं प्राप्यते राम रागद्वेषपरिक्षयात् ।
रागादिहतया बुद्ध्या यादृग्राम विचेष्टितम् ॥७५॥
तत्तदेव प्रयात्याशु मूढानां विपरीतताम् ।
द्वेषदोषोर्मिरुद्धासु न गुणाश्चित्तवृत्तिषु ॥७६॥
पदं कुर्वन्ति दग्धासु स्थलीषु हरिणा इव ।
रागो द्वेषश्च सर्पौ द्वौ न विलीनौ मनोविले ॥७७॥
यस्य कल्पतरोस्तस्मात्किं नामाङ्ग न लभ्यते ।
ये हि प्राज्ञाः स्वनियता विदग्धाः शास्त्रशालिनः ॥७८॥
रागद्वेषमयास्ते वै जम्बुकास्ते धिगस्तु तान् ।
मद्धनं भुक्तमन्येन धनं त्यक्तं मयाऽन्यतः ॥७९॥
इति संव्यवहारेहाः के रागद्वेषयोः क्रमाः ।
धनानि बन्धवो मित्रं पुनरायान्ति यान्ति च ॥८०॥
किमेतेषु नरः प्राज्ञो रज्यते वा विरज्यते ।
भावाभावभवाभोगा मायेयं पारमेश्वरी ॥८१॥
संसाररचना सर्वा संसक्तं पातयत्यलम् ।
न धनं न जनो नात्मा सत्यं राघव वस्तुतः ॥८२॥
मिथ्यैव मिथ्यावसितमितीदं परिलक्ष्यते ।
आद्यन्तयोः सर्वमसन्मध्येऽप्यस्थिरमाधिमत् ॥८३॥
क्व बघ्नाति रतिं प्राज्ञो ह्यन्यकल्पितखद्रुमे ।
एकेन कल्पिता खे स्त्री भुङ्क्ते तां दूरगोऽपरः ॥८४॥
इतीयमङ्ग संसाररचना तेन मा भ्रम ।
भूताजवं जवीभावमिममाततमाकुलम् ॥८५॥
गन्धर्वपुरनिर्माणविलासेन समं विदुः ।
स्वप्नसंकल्पपुरवदसदेवेदमुत्थितम् ॥८६॥
सर्वत्र संस्थमेवेदं सुषुप्तमिव विच्युतम् ।
परिपश्यसि संसारदीर्घस्वप्नपुरद्रुमम् ॥८७॥
अज्ञाननिद्रालुठनस्वभावात्मकमच्युतम् ।
संसारस्वप्नसंभ्रान्तो भवानयमिह स्थितः ॥८८॥
तदेनां विततां निद्रां घनाज्ञानमयात्मिकाम् ।
त्यजालक्ष्मीमिवावाप्तनिधानः पुरुषोत्तमः ॥८९॥
प्रबोधमेहि पश्य स्वमात्मानमुदितं सदा ।
निर्विकल्पं चिदाभासं प्रातःपद्मं रविं यथा ॥९०॥
प्रबुध्यस्व प्रबुध्यस्व पुनःपुनरयं मया ।
प्रबोध्यसे महाबाहो पश्यात्मार्कमनामयम् ॥९१॥
मयैतेनाभिवृष्टेन शीतेन ज्ञानवारिणा ।
सुशब्दशालिना राम ह्यनेनैवासि बोधितः ॥९२॥
बोधमासादय परं प्रबोधोऽद्यैव राघव ।
सत्यमालोकयालीकं त्यक्त्वेमं जागतं भ्रमम् ॥९३॥
न ते जन्म न ते दुःखं न दोषास्ते न ते भ्रमाः ।
सर्वं संकल्पमुत्सृज्य तिष्ठात्मनि सुसंस्थितः ॥९४॥
परिगलितविकल्पदोषजाल-
स्त्वमसि सुसारसुषुप्तसौम्यदृष्टिः ।
अतिविततमिदं सुशुद्धये त्वं
समुपशमात्मनि तिष्ठ हे महात्मन् ॥९५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमार्थयोगोपदेशो नामाष्टाविंशः सर्गः ॥२८॥

N/A

References : N/A
Last Updated : September 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP