संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ५४

निर्वाणप्रकरणं - सर्गः ५४

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीभगवानुवाच ।
भूय एव महाबाहो श्रृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥
मात्रास्पर्शा हि कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनो नित्यास्तांस्तितिक्षस्व भारत ॥२॥
ते तु नैकात्मनश्चान्ये क्वाऽतो दुःखं क्व वा सुखम् ।
अनाद्यन्तेऽनवयवे कुतः पूरणखण्डने ॥३॥
संस्थिता स्पर्शमात्राख्या मात्रास्पर्शभ्रमात्मकः ।
समदुःखसुखो धीरः सोऽमृतत्वाय कल्पते ॥४॥
सर्वत्वादात्मनश्चैते सुभेदाः संस्थिता इव ।
असद्रूपास्त्वसद्रूपं कथं सोढुं न शक्यते ॥५॥
मनागपि न विद्यन्ते सुखदुःखे तु सर्वशः ।
सर्वत्वादात्मतत्त्वस्य सत्ता कथमनात्मनः ॥६॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
नास्त्येव सुखदुःखादि परमात्मास्ति सर्वगः ॥७॥
सत्त्वासत्त्वमती त्यक्त्वा चैतयोर्जगदात्मनोः ।
त्यक्त्वा न किंचिन्मध्ये च शेषे बद्धपदो भव ॥८॥
न हृष्यति सुखैरात्मा दुःखैर्ग्लायति नोऽर्जुन ।
दृश्यदृक्वेतनात्मापि शरीरान्तर्गतोऽपि सन् ॥९॥
जडं चित्तादि दुःखस्य भाजनं देहतां गतम् ।
न चैतस्मिन्क्षते क्षीणे किंचिदेवात्मनः क्षतम् ॥१०॥
जडं देहादि दुःखादेर्यदिदं भोक्तृसंस्थितम् ।
तन्मायाभ्रममेवाङ्ग विद्ध्यबोधवशोत्थितम् ॥११॥
न किंचिदेव देहादि न च दुःखादि विद्यते ।
आत्मनो यत्पृथग्भूतं किं केनातोऽनुभूयते ॥१२॥
यदिदं कथयाम्यत्र तेनैवातो विनश्यति ।
भ्रान्तिर्दुःखमबोधोत्था सम्यग्बोधेन भारत ॥१३॥
यथा रज्ज्वामहिभयं बोधान्नश्यत्यबोधजम् ।
तथा देहादिदुःखादि बोधान्नश्यत्यबोधजम् ॥१४॥
विष्वग्विश्वमजं ब्रह्म न नश्यति न जायते ।
इति सत्यं परं विद्धि बोधः परम एष सः ॥१५॥
ब्रह्माम्बुधौ तरङ्गत्वं किंचिद्भूत्वा विलीयते ।
ब्रह्मावर्ते स्फुरस्यद्य ब्रह्मैवासि निरामयम् ॥१६॥
यावत्कालक्रियादेशास्त्वमहंसैनिका इव ।
ब्रह्मणीव परिस्पन्दा नात्र स्तः सदसद्भ्रमौ ॥१७॥
जहि मानं मदं शोकं भयमीहां सुखासुखे ।
द्वैतमेतदसद्रूपमेकः सद्रूपवान्भव ॥१८॥
पुरुषाक्षौहिणीनां च क्षयेणानुभवात्मना ।
ब्रह्मणा बृहितं शुद्धं ब्रह्म ब्रह्ममयं कुरु ॥१९॥
असंविदन्सुखं दुःखं लाभालाभौ जयाजयौ ।
शुद्धं ब्रह्मैकतां गच्छ ब्रह्माब्धिस्त्वं हि भारत ॥२०॥
लाभालाभसमो भूत्वा भूत्वा नूनं न किंचन ।
खण्डवात इवास्पन्दी प्रकृतं कार्यमाचर ॥२१॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्करिष्यसि कौन्तेय तदात्मेति स्थिरो भव ॥२२॥
यन्मयो यो भवत्यन्तः स तदाप्नोत्यसंशयम् ।
ब्रह्मसत्यमवाप्तुं त्वं ब्रह्मसत्यमयो भव ॥२३॥
अनपेक्षफलं ब्रह्म भूत्वा ब्रह्मेति भावितम् ।
क्रियते केवलं कर्म ब्रह्मज्ञेन यथागतम् ॥२४॥
कर्मण्यकर्म यः पश्यत्यकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स चोक्तः कृत्स्नकर्मकृत् ॥२५॥
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ॥२६॥
कर्मासक्तिमनाश्रित्य तथा नाश्रित्य मूढताम् ।
नैष्कर्म्यमप्यनाश्रित्य समस्तिष्ठ यथास्थितम् ॥२७॥
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥२८॥
आसक्तिमाहुः कर्तृत्वमकर्तुरपि तद्भवेत् ।
मौर्ख्ये स्थिते हि मनसि तस्मान्मौर्ख्यं परित्यजेत् ॥२९॥
परं तत्त्वज्ञमाश्रित्य निरासक्तेर्महात्मनः ।
सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित् ॥३०॥
अकर्तृत्वादभोक्तृत्वमभोक्तृत्वात्समैकता ।
समैकत्वादनन्तत्वं ततो ब्रह्मत्वमाततम् ॥३१॥
नानातामलमुत्सृज्य परमात्मैकतां गतः ।
कुर्वन्कार्यमकार्यं च नैव कर्ता त्वमर्जुन ॥३२॥
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥३३॥
समः सौम्यः स्थिरः स्वस्थः शान्तः सवार्थनिस्पृहः ।
यस्तिष्ठति स सव्यग्रोऽप्यलमव्यग्रतां गतः ॥३४॥
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।
यथाप्राप्तानुवर्ती त्वं भव भूषितभूतलः ॥३५॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥३६॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥३७॥
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥३८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने आत्मज्ञानोपदेशो नाम चतुष्पञ्चाशः सर्गः ॥५४॥

N/A

References : N/A
Last Updated : September 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP