निर्वाणप्रकरणं - सर्गः १२८
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवाल्मीकिरुवाच ।
शान्तो दान्तश्चोपरतो निषिद्धात्काम्यकर्मणः ।
विषयेन्द्रियसंश्लेषसुखाच्च श्रद्धयान्वितः ॥१॥
मृद्वासने समासीनो जितचित्तेन्द्रियक्रियः ।
ओमित्युच्चारयेत्तावन्मनो यावत्प्रसीदति ॥२॥
प्राणायामं ततः कुर्यादन्तःकरणशुद्धये ।
इन्द्रियाण्याहरेत्पश्चाद्विषयेभ्यः शनैःशनैः ॥३॥
देहेन्द्रियमनोबुद्धिक्षेत्रज्ञानां च संभवः ।
यस्माद्भवति तज्ज्ञात्वा तेषु पश्चाद्विलापयेत् ॥४॥
विराजि प्रथमं स्थित्वा तत्रात्मनि ततः परम् ।
अव्याकृते स्थितः पश्चात्स्थितः परमकारणे ॥५॥
मांसादिपार्थिवं भागं पृथिव्यां प्रविलापयेत् ।
आप्यं रक्तादिकं चाप्सु तैजसं तेजसि क्षिपेत् ॥६॥
वायव्यं च महावायौ नाभसं नभसि क्षिपेत् ।
पृथिव्यादिषु विन्यस्य चेन्द्रियाण्यात्मयोनिषु ॥७॥
श्रोत्रादिलक्षणोपेतां कर्तुर्भोगप्रसिद्धये ।
दिक्षु न्यस्यात्मनः श्रोत्रं त्वचं विद्युति निक्षिपेत् ॥८॥
चक्षुरादित्यबिम्बे च जिह्वामप्सु विनिक्षिपेत् ।
प्राणं वायौ वाचमग्नौ पाणिमिन्द्रे विनिक्षिपेत् ॥९॥
विष्णौ तथात्मनः पादौ पायुं मित्रे तथैव च ।
उपस्थं कश्यपे न्यस्य मनश्चन्द्रे निवेशयेत् ॥१०॥
बुद्धिं ब्रह्मणि संयच्छेदेताः करणदेवताः ।
इन्द्रियव्यपदेशेन व्यादिश्यन्ते च देवताः ॥११॥
श्रुतिवाक्यमनुस्मृत्य न स्वतः प्रकटीकृताः ।
एवं न्यस्यात्मनो देहं विराडस्मीति चिन्तयेत् ॥१२॥
ब्रह्माण्डान्तः स्थितो योऽसावर्धनारीश्वरः प्रभुः ।
आधारः सर्वभूतानां कारणं तदुदाहृतम् ॥१३॥
स यज्ञसृष्टिरूपोऽसौ जगद्वृत्तौ व्यवस्थितः ।
द्विगुणाण्डाद्वहिः पृथ्वी पृथिव्या द्विगुणं जलम् ॥१४॥
सलिलाद्द्विगुणं तेजस्तेजसो द्विगुणोऽनिलः ।
वायोर्द्विगुणमाकाशमूर्ध्वमेकैकशः क्रमात् ॥१५॥
व्यस्तेन च समस्तेन व्यापिना ग्रथितं जगत् ।
क्षितिं चाप्सु समावेश्य सलिलं चानले क्षिपेत् ॥१६॥
अग्निं वायौ समावेश्य वायुं च नभसि क्षिपेत् ।
नभश्च महदाकाशे समस्तोत्पत्तिकारणे ॥१७॥
स्थित्वा तस्मिन्क्षणं योगी लिङ्गमात्रशरीरधृक् ।
वासना भूतसूक्ष्माश्च कर्माविद्ये तथैव च ॥१८॥
दशेन्द्रियमनोबुद्धिरेतल्लिङ्गं विदुर्बुधाः ।
ततोऽर्धोण्डाद्बहिर्यातस्तत्रात्मास्मीति चिन्तयेत् ॥१९॥
चतुर्मुखोऽग्रके चायं भूतसूक्ष्मव्यवस्थितः ।
लिङ्गमव्याकृते सूक्ष्मे न्यस्याव्यक्ते च बुद्धिमान् ॥२०॥
नामरूपविनिर्मुक्तं यस्मिन्संतिष्ठते जगत् ।
तमाहुः प्रकृतिं केचिन्मायामेके परे त्वणून् ॥२१॥
अविद्यामपरे प्राहुस्तर्कविभ्रान्तचेतसः ।
तत्र सर्वे लयं गत्वा तिष्ठन्त्यव्यक्तरूपिणः ॥२२॥
निःसंबन्धा निरास्वादाः संभवन्ति ततः पुनः ।
तत्स्वरूपा हि तिष्ठन्ति यावत्सृष्टिः प्रवर्तते ॥२३॥
आनुलोम्यात्स्मृता सृष्टिः प्रातिलोम्येन संहृतिः ।
अतः स्थानत्रयं त्यक्त्वा तुरीयं पदमव्ययम् ॥२४॥
ध्यायेत्तत्प्राप्तये लिङ्गं प्रविलाप्य परं विशेत् ।
भूतेन्द्रियमनोबुद्धिवासनाकर्मवायवः ॥२५॥
अज्ञानं च प्रतिष्ठाः स्युर्लिङ्गमव्याकृते सति ।
भरद्वाज उवाच ।
इदानीं लिङ्गनिगडान्मुक्तोऽहं सर्वथा यतः ॥२६॥
चिदंशत्वात्प्रविष्टोऽहं चैतन्यानन्दसागरे ।
अभेदात्परमात्मास्मि सर्वोपाधिविवर्जितः ॥२७॥
कूटस्थः केवलो व्यापी चिदचिच्छक्तिमानहम् ।
घटाभावे घटाकाशकलशाकाशयोर्यथा ॥२८॥
तमाहुः श्रुतयो बह्व्य एवमेवैक्यमादरात् ।
यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् ॥२९॥
तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ।
यथा तृणादिकं क्षिप्तं रुमायां लवणं भवेत् ॥३०॥
अचेतनं जगन्न्यस्तं चैतन्ये चेतनी भवेत् ।
यथा वै लवणग्रन्थिः समुद्रे सैन्धवो यथा ॥३१॥
नामरूपाद्विनिर्मुक्तः प्रविश्यैति समुद्रताम् ।
यथा जले जलं न्यस्तं क्षीरे क्षीरं घृते घृतम् ॥३२॥
अविनष्टा भवन्त्येते गृह्यन्ते न विशेषतः ।
तथाहं सर्वभावेन प्रविष्टश्चेतने सति ॥३३॥
नित्यानन्दे समस्तज्ञे परे परमकारणे ।
नित्यं सर्वगतं शान्तं निरवद्यं निरञ्जनम् ॥३४॥
निष्कलं निष्क्रियं शुद्धं तद्ब्रह्मास्मि परं परम् ।
हेयोपादेयनिर्मुक्तं सत्यरूपं निरिन्द्रियम् ॥३५॥
केवलं सत्यसंकल्पं शुद्धं ब्रह्मास्म्यहं परम् ।
पुण्यपापविनिर्मुक्तं कारणं जगतः परम् ॥३६॥
अद्वितीयं परं ज्योतिर्ब्रह्मास्म्यानन्दमव्ययम् ।
एवमादिगुणैर्युक्तं सत्त्वादिगुणवर्जितम् ॥३७॥
प्रविष्टं सकलं ब्रह्म सदा ध्यायेत्स्वकर्मकृत् ।
एवमभ्यसतः पुंसो मनोऽस्तं याति तत्र वै ॥३८॥
मनस्यस्तं गते तस्य स्वयमात्मा प्रकाशते ।
प्रकाशे सर्वदुःखानां हानिः स्यात्सुखमात्मनि ॥३९॥
स्वयमेवात्मनात्मानमानन्दं प्रतिपद्यते ।
न मत्तोऽस्त्यपरः कश्चिच्चिदानन्दमयः प्रभुः ॥४०॥
अहमेकः परं ब्रह्म इत्यात्मान्तः प्रकाशते ।
श्रीवाल्मीकिरुवाच ।
सखे संन्यस्य कर्माणि ब्रह्मणः प्रणयी भव ॥४१॥
नेष्यसे यदि संसारचक्रावर्तभ्रमः शमम् ।
भरद्वाज उवाच ।
त्वयोक्तं सर्वमेवेदं ज्ञानं बुद्धं मया गुरो ॥४२॥
बुद्धिश्च निर्मला जाता संसारो न विलम्बते ।
इदानीं ज्ञातुमिच्छामि ज्ञानिनः कर्म कीदृशम् ॥४३॥
प्रवृत्तं वा निवृत्तं वा कर्तव्यं च न वा प्रभो॥
श्रीवाल्मीकिरुवाच ।
तस्माद्यन्न कृते दोषस्तत्कर्तव्यं मुमुक्षुभिः ॥४४॥
काम्यं कर्म निषिद्धं च न कर्तव्यं विशेषतः ।
यदा ब्रह्मगुणैर्जीवो युक्तस्त्यक्त्वा मनोगुणान् ॥४५॥
संशान्तकरणग्रामस्तदा स्यात्सर्वगः प्रभुः ।
देहेन्द्रियमनोबुद्धेः परस्तस्माच्च यः परः ॥४६॥
सोऽहमस्मि यदा ध्यायेत्तदा जीवो विमुच्यते ।
कर्तृभोक्त्त्रादिनिर्मुक्तः सर्वोपाधिविवर्जितः ॥४७॥
सुखदुःखविनिर्मुक्तस्तदानीं विप्रमुच्यते ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥४८॥
यदा पश्यत्यभेदेन तदा जीवो विमुच्यते ।
जाग्रत्स्वप्नसुषुप्ताख्यं हित्वा स्थानत्रयं यदा ॥४९॥
विशेत्तुरीयमानन्दं तदा जीवो विमुच्यते ।
जीवस्य च तुरीयाख्या स्थितिर्या परमात्मनि ॥५०॥
अवस्थाबीजनिद्रादिनिर्मुक्ता चित्सुखात्मिका ।
योगस्य सेयं वा निष्ठा सुखं संवेदनं महत् ॥५१॥
मनस्यस्तं गते पुंसां तदन्यन्नोपलभ्यते ।
प्रशान्तामृतकल्लोले केवलामृतवारिधौ ॥५२॥
मज्ज मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषु ।
भज संभरिताभोगं परमेशं जगद्गुरुम् ॥५३॥
इति ते वर्णितं सर्वं वसिष्ठस्योपदेशनम् ।
अनेन ज्ञानमार्गेण योगमार्गेण पुत्रक ॥५४॥
भरद्वाज महाप्राज्ञ सर्वं ज्ञास्यसि निश्चितम् ।
परामर्शेन शास्त्रस्य गुरुवाक्यार्थबोधनात् ॥५५॥
अभ्यासात्सर्वसिद्धिः स्यादिति वेदानुशासनम् ।
तस्मात्त्वं सर्वमुत्सृज्य कुर्वभ्यासे स्थिरं मनः ॥५६॥
भरद्वाज उवाच ।
रामः प्राप्तः परं योगं स्वात्मनात्मनि हे मुने ।
कथं वसिष्ठदेवेन व्यवहारपरः कृतः ॥५७॥
इति ज्ञात्वाहमप्येवमभ्यासार्थं यते यथा ।
तथैव व्यवहारोऽपि व्युत्थाने मे भविष्यति ॥५८॥
श्रीवाल्मीकिरुवाच ।
यदा परिणतः साधुः स्वस्वरूपे महामनाः ।
विश्वामित्रस्तदोवाच वसिष्ठमृषिसत्तमम् ॥५९॥
विश्वामित्र उवाच ।
हे वसिष्ठ महाभाग ब्रह्मपुत्र महानसि ।
गुरुत्वं शक्तिपातेन तत्क्षणादेव दर्शितम् ॥६०॥
दर्शनात्स्पर्शनाच्छब्दात्कृपया शिष्यदेहके ।
जनयेद्यः समावेशं शांभवं स हि देशिकः ॥६१॥
रामोऽप्ययं विशुद्धात्मा विरक्तः स्वात्मनैव हि ।
विभ्रान्तिमात्राकाङ्क्षी च संवादात्प्राप्तवान्पदम् ॥६२॥
शिष्यप्रज्ञैव बोधस्य कारणं गुरुवाक्यतः ।
मलत्रयमपक्वं चेत्कथं बुद्ध्यति पक्ववत् ॥६३॥
ज्ञानं प्रत्यक्षमेवेदं गुरुशिष्यप्रयोजनम् ।
उभावपि यतो योग्यौ सर्वेषामीदृशामपि ॥६४॥
इदानीं कृपया रामव्युत्थानं कर्तुमर्हसि ।
पदे परिणतस्त्वं हि कार्याविष्टा वयं यतः ॥६५॥
स्मरन्कार्यं मम विभो यदुद्दिश्याहमागतः ।
प्रार्थितश्चातिकष्टेन राजा दशरथः स्वयम् ॥६६॥
तद्वृथा मा कृथाः सर्वं शुद्धेन मनसा मुने ।
देवकार्यं चरामान्यदवतारप्रयोजनम् ॥६७॥
सिद्धाश्रमं मया नीतो रामो राक्षसमर्दनम् ।
करिष्यति ततोऽहल्यामुक्तिं च जनकात्मजाम् ॥६८॥
परिणेष्यति कोदण्डभङ्गेन कृतनिश्चयः ।
रामस्य जामदग्न्यस्य कर्ता नष्टां गतिं ध्रुवम् ॥६९॥
पितृपैतामहं राज्यं विगतोऽभयनिस्पृहः ।
वनवासच्छलेनेह दण्डकारण्यवासिनः ॥७०॥
उद्धरिष्यति तीर्थानि प्राणिनो विविधानि हि ।
सीताहरणदौर्गत्यच्छलेन भुवि शोच्यताम् ॥७१॥
दर्शयिष्यति सर्वेषां रावणादिवधादपि ।
स्त्रीसङ्गिनामथास्वास्थ्यं वानरादेः परावृतिम् ॥७२॥
सीताविशुद्धिमन्विच्छँल्लोकानुमतिमात्मनः ।
जीवन्मुक्तो निस्पृहोपि क्रियाकाण्डपरायणः ॥७३॥
भविष्यति गतिं द्रष्टुं ज्ञानकर्मसमुच्चयौ ।
यैर्दृष्टो यैः स्मृतो वापि यैः श्रुतो बोधितस्तु यैः ॥७४॥
सर्वावस्थागतानां तु जीवन्मुक्तिं प्रदास्यति ।
इति कार्यमशेषेण त्रैलोक्यस्य ममापि हि ॥७५॥
अनेन रामचन्द्रेण पुरुषेण महात्मना ।
नमोऽस्मै जितमेवैते कोऽप्येवं चिरमेधताम् ॥७६॥
श्रीवाल्मीकिरुवाच ।
इति श्रुत्वा च ते सर्वे विश्वामित्रेण भाषितम् ।
सिद्धाश्च वरयोगीन्द्रा वसिष्ठप्रमुखाः पुनः ॥७७॥
रामाङ्गिपद्मरजसामादरस्मरणास्थिताः ।
दूरश्रुतोत्तरकथाः कथया मैथिलीपतेः ॥७८॥
न संतुतोष भगवान्वसिष्ठोऽन्ये महर्षयः ।
गुणान्गुणनिधेस्तस्य ब्रुवन्नाकर्णयञ्छ्रुतम् ॥७९॥
विश्वामित्रमुनिं प्राह वसिष्ठो भगवानृषिः ।
श्रीवसिष्ठ उवाच ।
ब्रूहि विश्वामित्र मुने रामो राजीवलोचनः ।
कोऽयमभूद्बुधः किं वा मनुष्यो वाथ राघवः ॥८०॥
विश्वामित्र उवाच ।
अत्रैव कुरु विश्वासमयं स पुरुषः परः ।
विश्वार्थमथिताम्भोधिर्गम्भीरागमगोचरः ॥८१॥
परिपूर्णपरानन्दः समः श्रीवत्सलाञ्छनः ।
सर्वेषां प्राणिनां रामः प्रदाता सुप्रसादितः ॥८२॥
अयं निहन्ति कुपितः सृजत्ययमसत्सकान् ।
विश्वादिर्विश्वजनको धाता भर्ता महासखः ॥८३॥
अयं व्युत्क्रान्तनिःसारमृदुसंसारधूर्तकैः ।
आनन्दसिन्धुर्विततो वीतरागैर्विगाह्यते ॥८४॥
क्वचिन्मुक्त इवात्मस्थः क्वचित्तुर्यपदाभिधः ।
क्वचित्प्रणीतप्रकृतिः क्वचित्तत्स्थः पुमानयम् ॥८५॥
अयं त्रयीमयो देवस्त्रैगुण्यगहनातिगः ।
जयत्यङ्गैरयं षड्भिर्वेदात्मा पुरुषोऽद्भुतः ॥८६॥
अयं चतुर्बाहुरयं विश्वस्रष्टा चतुर्मुखः ।
अयमेव महादेवः संहर्ता च त्रिलोचनः ॥८७॥
अजोऽयं जायते योगाज्जागरूकः सदा महान् ।
बिभर्ति भगवानेतद्विरूपो विश्वरूपवान् ॥८८॥
विजयो विक्रमेणेव प्रकाश इव तेजसा ।
प्रज्ञोत्कर्षः श्रुतेनेव सुपर्णेनायमुह्यते ॥८९॥
अयं दशरथो धन्यः सुतो यस्य परः पुमान् ।
धन्यः स दशकण्ठोऽपि चिन्त्यश्चित्तेन योऽमुना ॥९०॥
हा स्वर्गममुना शून्यं हा पातालादिहागतः ।
तस्यागमादयं लोको मध्यमः श्रेष्ठतां गतः ॥९१॥
राम इत्यवतीर्णोऽयमर्णवान्तःशयः पुमान् ।
चिदानन्दघनो रामः परमात्मायमव्ययः ॥९२॥
निगृहीतेन्द्रियग्रामा रामं जानन्ति योगिनः ।
वयं त्ववरमेवास्य रूपं रूपयितुं क्षमाः ॥९३॥
रघोरघोच्छेदकरो भगवानिति शुश्रुम ।
वसिष्ठ कृपया त्वं हि व्यवहारपरं कुरु ॥९४॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वावस्थितस्तूष्णीं विश्वामित्रो महामुनिः ।
वसिष्ठस्तु महातेजा रामचन्द्रमभाषत ॥९५॥
श्रीवसिष्ठ उवाच ।
राम राम महाबाहो महापुरुष चिन्मय ।
नायं विश्रान्तिकालो हि लोकानन्दकरो भव ॥९६॥
यावल्लोकपरामर्शो निरूढो नास्ति योगिनः ।
तावद्रूढसमाधित्वं न भवत्येव निर्मलम् ॥९७॥
तस्माद्राज्यादिविषयान्पर्यालोक्य विनश्वरान् ।
देवकार्यादिभारांश्च भज पुत्र सुखी भव ॥९८॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तोऽपि यदा रामः किंचिन्नोचे लयं गतः ।
तदा सुषुम्नया सोऽपि विवेश हृदयं शनैः ॥९९॥
शक्तिप्राणमनःप्रसक्तिकरणो जीवः प्रकाशात्मको
नाडीरन्ध्रसुपुष्टसर्वकरणः प्रोन्मील्य नेत्रे शनैः ।
दृष्ट्वोत्कृष्टवसिष्ठमुख्यविदुषो निर्मुक्तसर्वैषणः
कृत्याकृत्यविचारणादिरहितः सर्वान्प्रतीक्ष्य स्थितः ॥१००॥
श्रुत्वा वसिष्ठवचनं गुरुवाक्यमिति स्वयम् ।
श्रुत्वा प्रोवाच भगवान्रामचन्द्रः समाहितः ॥१०१॥
श्रीराम उवाच ।
न विधेर्न निषेधस्य त्वत्प्रसादादयं प्रभुः ।
तथापि तव वाक्यं तु करणीयं हि सर्वदा ॥१०२॥
वेदागमपुराणेषु स्मृतिष्वपि महामुने ।
गुरुवाक्यं विधिः प्रोक्तो निषेधस्तद्विपर्ययः ॥१०३॥
इत्युक्त्वा चरणौ तस्य वसिष्ठस्य महात्मनः ।
शिरसा धार्य सर्वात्मा सर्वान्प्राह घृणानिधिः॥१०४॥
श्रीराम उवाच ।
सर्वे श्रृणुत भद्रं वो निश्चयेन सुनिश्चितम् ।
आत्मज्ञानात्परं नास्ति गुरोरपि च तद्विदः ॥१०५॥
सिद्धादय ऊचुः ।
रामैवमेव सर्वेषां मनसि स्थितिमागतम् ।
त्वत्प्रसादाच्च सकलं संवादेन दृढीकृतम् ॥१०६॥
सुखी भव महाराज रामचन्द्र नमोऽस्तु ते ।
वसिष्ठेनाप्यनुज्ञाता गच्छामोऽद्य यथागतम् ॥१०७॥
श्रीवाल्मीकिरुवाच ।
एवमुक्त्वा गताः सर्वे रामसंस्तवने रताः ।
रामचन्द्रस्य शिरसि पौष्पी वृष्टिः पपात ह ॥१०८॥
एतत्ते सर्वमाख्यातं रामचन्द्रकथानकम् ।
अनेन क्रमयोगेन भरद्वाज सुखी भव ॥१०९॥
इति रघुपतिसिद्धिः प्रोदिता या मया ते
वरमुनिवचनालीरत्नमालाविचित्रा ।
निखिलकविकुलानां योगिनां सेव्यरूपा
परमगुरुकटाक्षान्मुक्तिमार्गं ददाति ॥११०॥
य इमं श्रृणुयान्नित्यं विधिं रामवसिष्ठयोः ।
सर्वावस्थोऽपि श्रवणान्मुच्यते ब्रह्म गच्छति ॥१११
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साहस्त्र्यां संहितायां बालकाण्डे मोक्षोपायेषु निर्वाणप्रकरणे पूर्वार्धे ब्रह्मदर्शने रामव्युत्थानं नामाष्टाविंशत्युत्तरशततमः सर्गः ॥१२८॥
N/A
References : N/A
Last Updated : September 25, 2021
TOP