निर्वाणप्रकरणं - सर्गः ४१
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
शिवः किमुच्यते देव परंब्रह्म किमुच्यते ।
आत्मा किमुच्यते नाथ परमात्मा किमुच्यते ॥१॥
तत्सत्किंचिन्न किंचिच्च शून्यं विज्ञानमेव च ।
इत्यादिभेदो भगवंस्त्रिलोकेश किमुच्यते ॥२॥
ईश्वर उवाच ।
अनाद्यन्तमनाभासं सत्किंचिदिह विद्यते ।
इन्द्रियाणामगम्यत्वाद्यन्न किंचिदिव स्थितम् ॥३॥
श्रीवसिष्ठ उवाच ।
यदिन्द्रियाणां बुद्ध्यादियुक्तानामप्यदृश्यताम् ।
गतं तत्कथमीशान त्वशङ्केनोपगम्यते ॥४॥
ईश्वर उवाच ।
यो मुमुक्षुरविद्यांशः केवलो नाम सात्त्विकः ।
सात्त्विकैरेव सोऽविद्याभागैः शास्त्रादिनामभिः ॥५॥
अविद्यां श्रेष्ठया श्रेष्ठां क्षालयन्निह तिष्ठति ।
मलं मलेनापहरन्युक्तिज्ञो रजको यथा ॥६॥
काकतालीयवत्पश्चादविद्याक्षय आगते ।
प्रपश्यत्यात्मनैवात्मा स्वभावस्यैव निश्चयः ॥७॥
यथाकथंचिदङ्गारे निघृष्य क्षालयञ्छिशुः ।
करनैर्मल्यमाप्नोति कार्ष्ण्याङ्गारक्षये यथा ॥८॥
यथाकथंचिच्छास्त्राद्यैर्भागैर्भागं विचारयेत् ।
सात्त्विकस्तामसो भागो द्वयोरात्मोदयस्तथा ॥९॥
पश्यत्यात्मानमात्मैव विचारयति चात्मना ।
आत्मैवेहास्ति नाविद्या इत्यविद्याक्षयं विदुः ॥१०॥
यावत्किंचिदिदं वस्तु नाना नात्मावगम्यताम् ।
क्रमा गुरूपदेशाद्या नात्मज्ञानस्य कारणम् ॥११॥
गुरुर्हीन्द्रियवृत्तात्मा ब्रह्म सर्वेन्द्रियक्षयात् ।
यद्वस्तु यत्क्षये प्राप्यं तत्तस्मिन्सति नाप्यते ॥१२॥
अकारणान्यपि प्राप्ता भृशं कारणतां द्विज ।
क्रमा गुरूपदेशाद्या आत्मज्ञानस्य सिद्धये ॥१३॥
क्रमे गुरूपदेशानां प्रवृत्ते शिष्यबोधतः ।
अनिर्देश्योऽप्यदृश्योऽपि स्वयमात्मा प्रसीदति ॥१४॥
शास्त्रार्थैर्बुध्यते नात्मा गुरोर्वचनतो न च ।
बुध्यते स्वयमेवैष स्वबोधवशतस्ततः ॥१५॥
गुरूपदेशशास्त्रार्थैर्विना चात्मा न बुध्यते ।
एतत्संयोगसत्तैव स्वात्मज्ञानप्रकाशिनी ॥१६॥
गुरुशास्त्रार्थशिष्याणां चिरसंयोगसत्तया ।
अहनीव जनाचार आत्मज्ञानं प्रवर्तते ॥१७॥
कर्मबुद्धीन्द्रियाद्यन्तसुखदुःखादिसंक्षये ।
शिव आत्मेति कथितस्तत्सदित्यादिनामभिः ॥१८॥
यत्रेदमखिलं नास्ति तद्रूपेणैव चास्ति वा ।
तदाकाशादच्छतरमनन्तं सदिवास्ति हि ॥१९॥
अविश्रान्ततया यत्र तनुविद्यैर्मुमुक्षुभिः ।
विचित्रशुद्धमननकलङ्ककलितात्मभिः ॥२०॥
अदूर एव तिष्ठद्भिर्जीवन्मुक्तस्य दृक्पथे ।
मोक्षोपासकबोधाय शास्त्रार्थरचनाय च ॥२१॥
ब्रह्मेन्द्ररुद्रप्रमुखैर्लोकपालैः सुपण्डितैः ।
पुराणवेदसिद्धान्तसिद्धये भावितात्मभिः ॥२२॥
चिद्ब्रह्म शिव आत्मेशपरमात्मेश्वरादिका ।
एतस्मिन्कल्पिता संज्ञा निःसंज्ञे पृथगीश्वरे ॥२३॥
एवमेतज्जगत्तत्त्वं स्वं तत्त्वं शिवनामकम् ।
सर्वथा सर्वदा सर्वसर्वं यत्सुखमास्व भो ॥२४॥
शिव आत्मा परं ब्रह्मेत्यादिशब्दैस्तु भिन्नता ।
पुरातनैर्विरचिता तस्य भेदो न वस्तुतः ॥२५॥
एवं देवार्चनं नित्यं ज्ञः कुर्वन्मुनिनायक ।
यत्रास्मदादयो भृत्यास्तत्प्रयान्ति परं पदम् ॥२६॥
श्रीवसिष्ठ उवाच ।
अविद्यमानमेवेदं विद्यमानमिव स्थितम् ।
यथा तन्मे समासेन भगवन्वक्तुमर्हसि ॥२७॥
ईश्वर उवाच ।
योऽसौ ब्रह्मादिशब्दार्थः संविदं विद्धि केवलम् ।
स्वच्छमाकाशमप्यस्य स्थूलं मेरुरणोरिव ॥२८॥
सा वेद्यमिह गच्छन्ती याति चिन्नामयोग्यताम् ।
अप्यवेद्यवती नूनमुन्मन्यन्तपदस्थिता ॥२९॥
क्षणाद्भावितवेद्यत्त्वादहन्तामनुगच्छति ।
पुरुषत्वात्पुमान्स्वप्ने वनवारणतामिव ॥३०॥
अस्याहन्तादिरूपाया देशतां कालतां गताः ।
संपद्यन्ते ततः शून्यरूपिण्यः सख्य एव ताः ॥३१॥
ताभिः संवलिता सैव सत्ता जीवाभिधानिका ।
भवति स्पन्दविज्ञाना पवनस्येव लेखिका ॥३२॥
जीवशक्तिस्तथाभूता निश्चयैकविलासिनी ।
बुद्धितामनुयाता सा भवत्यज्ञपदे स्थिता ॥३३॥
शब्दशक्त्या क्रियाशक्त्या ज्ञानशक्त्यानुगम्यते ।
प्रत्येकं प्रस्फुरत्यन्तरप्रदर्शितरूपया ॥३४॥
मिलित्वैष गणः क्षिप्रं स्मृतिं समनुकूलयन् ।
मनो भवति भूतात्मबीजं संकल्पशाखिनः ॥३५॥
आतिवाहिकदेहोक्तिभाजनं तद्विदुर्बुधाः ।
अन्तस्थया ब्रह्मशक्त्या ज्ञरूपं स्वात्मनात्मदृक् ॥३६॥
संपद्यमाना एवास्मिंश्चेतसीमा हि शक्तयः ।
पश्चादिह बहिष्ठास्ता उद्यन्त्यनुदिता अपि ॥३७॥
वातसत्ता स्पन्दसत्ता स्पर्शसत्ता तथैव च ।
त्वक्सत्ता तेजसां सत्ता तथा सत्ताप्रकाशिनी ॥३८॥
रूपसत्ता जलसत्ता स्वादुसत्ता तथैव च ।
तथैव रससत्ता च गन्धसत्ता तथैव च ॥३९॥
भूसत्ता हेमसत्ता च पिण्डसत्ता च पीवरी ।
देशसत्ता कालसत्ता सर्वाढ्याकारवर्जिता ॥४०॥
सर्वसत्तागणं चैतत्क्रोडीकृत्य स्वरूपवत् ।
स्फुरत्याश्रित्य पत्रादि बीजं बीजादितां गतम् ॥४१॥
एतत्पुर्यष्टकं विद्धि देहोऽयं चातिवाहिकः ।
अपारबोधमेतत्तु स्फुरत्यङ्ग विभागवत् ॥४२॥
एवमाद्यङ्गसंपन्नं संपन्नं न च किंचन ।
न ज्ञानं न च तद्रूपं न विदाचितचेतनम् ॥४३॥
परं परे प्रस्फुरितं केवलं केवलात्म सत् ।
जलपीठस्य जठरे जलद्रवविलासवत् ॥४४॥
संवित्संवेदनैकात्म पृथगेतदचेतनम् ।
संपद्यते परिज्ञातं संकल्पनगरोपमम् ॥४५॥
संवेदनात्परिज्ञानाच्छिवतामेव गच्छति ।
अज्ञातमेव वा यत्तत्कथं गच्छति वस्तुताम् ॥४६॥
अथैतद्विन्दते स्वान्तःसंकल्पादंशता स्वतः ।
तन्मात्रसत्ता तस्याणोरेतां पश्यति देहके ॥४७॥
सर्वं स्थूलत्वमापन्नं तदेवाशु प्रपश्यति ।
तस्य तन्मात्ररन्ध्राणि यथादेशं प्रपश्यति ॥४८॥
ततः पुरुषरूपैकभावनात्पुरुषाकृतिम् ।
काकतालीयवद्दृष्ट्वा तुष्टं पुष्टं भवत्यलम् ॥४९॥
जीवदेतदवस्थाकं स्थितं पश्यति देहकम् ।
असन्तमेव गन्धर्वपुरं स्वप्रनरं यथा ॥५०॥
श्रीवसिष्ठ उवाच ।
गन्धर्वनगराकारमपि स्वप्ननरोपमम् ।
जगद्दुःखाय दुःखस्य कात्र युक्तिः परिक्षये ॥५१॥
ईश्वर उवाच ।
वासनावशतो दुःखं विद्यमाने च सा भवेत् ।
अविद्यमानं च जगन्मृगतृष्णाम्बुभङ्गवत् ॥५२॥
अतः किं वास्यते केन कस्य वा वासना कुतः ।
कथं स्वप्ननरेणाङ्ग मृगतृष्णाम्बु पीयते ॥५३॥
सद्रष्टरि तु साहन्ते समनोमननादिके ।
अविद्यमाने जगति यत्सत्तत्परिदृश्यते ॥५४॥
यत्र नो वासना नैव वासको नैव वास्यता ।
केवलं केवलीभावः संशान्तकलनभ्रमः ॥५५॥
यस्य सत्योऽप्यसत्यो वा शून्य एव हि यक्षकः ।
विलीनस्तस्य कैवल्यात्किमन्यदवशिष्यते ॥५६॥
शून्य एव हि वेताल इवेत्थं चित्तवासना ।
उदितेयं जगन्नाम्नी तच्छान्तौ शान्तिरक्षता ॥५७॥
अहन्तायां जगति च मृगतृष्णाजले च यः ।
सास्थस्तं थिग्घतनरं नोपदेश्यस्त्वसाविति ॥५८॥
जीवं विवेकिनमिहोपदिशन्ति तज्ज्ञा
नो बालमुद्भ्रममसन्मयमार्यमुक्तम् ।
अज्ञं प्रशास्ति किल यः कनकावदातां
स स्वप्नदृष्टपुरुषाय सुतां ददाति ॥५९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० जगन्मिथ्यात्वप्रतिपादनं नामैकचत्वारिंशः सर्गः ॥४१॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP