निर्वाणप्रकरणं - सर्गः ७४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
यथा चित्तचमत्कृत्या राज्ञो गङ्गावतारणम् ।
भगीरथस्य संपन्नं तन्मे कथय भो प्रभो ॥१॥
श्रीवसिष्ठ उवाच ।
आसीद्भगीरथो नाम राजा परमधार्मिकः ।
भुवः समुद्रयुक्ताया मण्डलीतिलकोपमः ॥२॥
संकल्पानन्तरं प्राप्ता यथाभिमतमर्थिनः ।
चन्द्रप्रसन्नवदनादस्माच्चिन्तामणेरिव ॥३॥
साधूनां यो व्यवस्थार्थं धनान्यविरतं ददौ ।
तृणमात्रमुपादत्ते क्वचिच्चिन्तामणिर्यथा ॥४॥
वज्रसारमिव प्रोतमुज्वलन्नेमि योऽभिनत् ।
अधो मणिरयोयन्त्रं सर्वदुर्जनचेष्टितम् ॥५॥
अधूमवह्निदेहश्रीः श्रान्तोऽपि दैन्यमप्यलम् ।
तमोऽहरन्नृणां नैशं द्युमणिर्वेश्मनामिव ॥६॥
किरन्नग्निकणासारमभितः स्वप्रतापजम् ।
मध्याह्नसूर्यकान्ताग्निरिव ज्वलति योऽरिषु १७॥
मृदुशीतलसंस्पर्शो यः समाह्लादयन्मनः ।
सुज्ञानां द्रवति स्निग्धस्येन्दोरिन्दुमणिर्यथा ॥८॥
जगद्यज्ञोपवीतस्य स्वर्गपातालवाहिनः ।
गङ्गावाहस्य येनास्यां तृतीयः पूरितो गुणः ॥९॥
अगस्त्यशोषितोऽम्भोधिर्गङ्गापूरेण पूरितः ।
येन दुष्पूरभूतोऽपि महासार्थोऽर्थिनामिव ॥१०॥
गङ्गासोपानपद्धत्या येन पातालवासिनः ।
योजिता ब्रह्मणो लोके बान्धवा लोकबन्धुना ॥११॥
ब्रह्माणं शंकरं जह्नुं तपसाराधयंश्च यः ।
भूयोभूयो ययौ खेदमशून्याध्यवसायिनः ॥१२॥
यौवने वर्तमानस्य तस्य भूमिपतेरपि ।
प्रविचारयतो लोकयात्रां पर्याकुलामिमाम् ॥१३॥
सुविरागचमत्कारविचारकणिकोदभूत् ।
वयस्यपि च तारुण्ये दैवाद्वल्ली मराविव ॥१४॥
एकान्ते चिन्तयामास महीपतिरसाविति ।
जगद्यात्रामिमां नित्यमसमञ्जसमाकुलम् ॥१५॥
पुनर्दिनं पुनः श्यामा दानादानशतं पुनः ।
तदेव भुक्तविरसं लक्ष्यते कर्म कुर्वताम् ॥१६॥
येन प्राप्तेन लोकेऽस्मिन्न प्राप्यमवशिष्यते ।
तत्कृतं सुकृतं मन्ये शेषं कर्म विषूचिका ॥१७॥
पुनःपुनः पर्युषितं कर्म कुर्वन्न लज्जते ।
मूढ्बुद्धिरबुद्धिस्तु कः कुर्यात्किल बालवत् ॥१८॥
अथैकदोद्विग्नमनाः कदाचित्त्रितलं गुरुम् ।
एकान्तं संसृतेर्भीतः समपृच्छद्भगीरथः ॥१९॥
भगीरथ उवाच ।
अन्तःशून्यासु सुचिरं भ्रमत्संसारवृत्तिषु ।
अरण्यानीषु चैतासु भृशं खिन्ना वयं विभो ॥२०॥
जरामरणमोहादिरूपाणां भवकारिणाम् ।
भगवन्सर्वदुःखानां कथमन्तः प्रजायते ॥२१॥
त्रितल उवाच ।
चिरसाम्यात्मनोत्थेन निर्विभागविलासिना ।
राजन् ज्ञेयावबोधेन पूर्णेन भरितात्मना ॥२२॥
क्षीयन्ते सर्वदुःखानि त्रुट्यन्ति ग्रन्थयोऽभितः ।
संशयाः समतां यान्ति सर्वकर्माणि चानघ ॥२३॥
ज्ञेयं विदुरथात्मानं संशुद्धं ज्ञप्तिरूपिणम् ।
स च सर्वगतो नित्यं नास्तमेति न चोदयम् ॥२४॥
भगीरथ उवाच ।
चिन्मात्रं निर्गुणं शान्तमस्ति निर्मलमच्युतम् ।
देहादि नेतरत्किंचिदिति वेद्मि मुनीश्वर ॥२५॥
किं तत्र प्रतिपत्तिर्मे स्फुटतामेति नेतरा ।
एतावन्मात्रसंवित्तिः स्यामहं भगवन्कथम् ॥२६॥
त्रितल उवाच ।
ज्ञानेन ज्ञेयनिष्ठत्वमेति चेतो हृदम्बरे ।
ततः सर्ववपुर्भूत्वा भूयो जीवो न जायते ॥२७॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥२८॥
आत्मनोऽनन्ययोगेन तद्भावनमनारतम् ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥२९॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं तदतोऽन्यथा ॥३०॥
रागद्वेषक्षयाकारं संसारव्याधिभेषजम् ।
अहंभावोपशान्तौ तु राजन् ज्ञानमवाप्यते ॥३१॥
भगीरथ उवाच ।
शरीरेऽस्मिंश्चिरारूढो गिरौ तरुरिव स्वके ।
अहंभावो महाभाग वद मे त्यज्यते कथम् ॥३२॥
त्रितल उवाच ।
पौरुषेण प्रयत्नेन त्यक्त्वा भोगौघभावनाम् ।
गत्वा विकसितां सत्तामहंकारो विलीयते ॥३३॥
यन्त्रणापञ्जरं यावद्भग्नं लज्जादिनाखिलम् ।
अकिंचनत्वशेषेण स्फुटा तावदहंकृतिः ॥३४॥
सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः ।
तदहंकारविलये त्वमेव परमं पदम् ॥३५॥
शान्ताशेषविशेषणो विगतभीः संत्यक्तसर्वैषणो
गत्वानूनमकिंचनत्वमरिषु त्यक्त्वा समग्रां श्रियम् ।
शान्ताहंकृतिरस्तदेहकलनस्तेष्वेव भिक्षामट
न्मामप्युज्झितवानलं यदिभवस्युच्चैस्त्वमुच्चैरसि ॥३६॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भगीरथोपदेशो नाम चतुःसप्ततितमः सर्गः ॥७४॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP