निर्वाणप्रकरणं - सर्गः ६४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
जीवटब्राह्मणादीनां हंसादीनां मुनीश्वर ।
भिक्षुस्वप्नशरीराणां संपन्नं किमतः परम् ॥१॥
श्रीवसिष्ठ उवाच ।
रुद्रेण सह संभूय प्रबुद्धाः सर्व एव ते ।
मिथश्च दृष्टसंसारा रुद्रांशाः सुखिनः स्थिताः ॥२॥
तेन रुद्रेण तां मायामवलोक्य यथोदिताम् ।
स्वांशास्तामेव संसारस्थितिं ते प्रेषिताः पुनः ॥३॥
श्रीरुद्र उवाच ।
गच्छताशु निजं स्थानं तत्र भुक्त्वा कलत्रकैः ।
कंचित्कालं समं भोगान्मत्सकाशमुपैष्यथ ॥४॥
भविष्यथ मदंशा ये गणा मत्पुरभूषणाः ।
ततो महाप्रलयतो यास्यामस्तत्परं पदम् ॥५॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा भगवान् रुद्रस्तेषां सोऽन्तरधीयत ।
अन्त्यसंसारसंख्यानं रुद्राणां मध्यमाययौ ॥६॥
प्रययुः स्वास्पदं तेऽपि जीवटब्राह्मणादयः ।
स्वकलत्रैः समं देहं क्षपयित्वाथ कालतः १७॥
रुद्रलोकं समासाद्य भविष्यन्ति गणोत्तमाः ।
कदाचिद्व्योम्नि दृश्यन्ते तारकाकारकारिणः ॥८॥
श्रीराम उवाच ।
भिक्षुसंकल्परूपास्ते जीवटब्राह्मणादयः ।
कथं सत्यत्वमायाताः संकल्पार्थे क्व सत्यता ॥९॥
श्रीवसिष्ठ उवाच ।
संकल्पसत्यता त्वंशे त्यज संकल्पसत्यताम् ।
तत्र यन्नास्ति तन्नास्ति यतः सर्वात्म तत्पदम् ॥१०॥
यत्स्वप्ने दृश्यते यच्च संकल्पैरवलोक्यते ।
तत्तथा विद्यते तत्र सर्वकालं तदात्मकम् ॥११॥
तद्देशकालात्मतया गत्वा देशान्तरं यथा ।
देशाद्देशान्तरं यद्वन्न गत्यात्मादिकं विना ॥१२॥
न लभ्यते तथा स्वप्नो विना तत्र न लभ्यते ।
सर्वमस्ति चितः कोशे यद्यथालोकयत्यसौ ॥१३॥
चित्तथा तदवाप्नोति सर्वात्मत्वादविक्षतम् ।
संकल्पः स्वप्नकस्त्वङ्ग यया च दशयाप्यते ॥१४॥
परमभ्यासयोगाभ्यां विना त्वेतन्न लभ्यते ।
येषां तु योगविज्ञानदृष्टयः फलिताः स्थिताः ॥१५॥
सर्वं सर्वत्र पश्यन्ति ते यतः शंकरादयः ।
इदमग्रगतं वस्तु तथा संकल्पितं मया ॥१६॥
नाप्यं यतोभयभ्रशं स प्राप्नोत्युभयाश्रयात् ।
सर्वं ह्यभिमतं कार्यमेकनिष्ठस्य सिद्ध्यति ॥१७॥
दक्षिणां ककुभं गच्छन्कः प्राप्नोत्युत्तरां दिशम् ।
संकल्पार्थपरैरेव संकल्पार्थोऽवगम्यते ॥१८॥
अग्रस्थार्थपरैरग्रे संस्थितोर्थोऽवगम्यते ।
अग्रस्थे बुद्धिसंस्थे यः संकल्पं प्राप्तुमिच्छति ॥१९॥
तदासावेकनिष्ठत्वाभावात्तन्नाशयेद्द्वयम् ।
तस्मादेकार्थनिष्ठत्वाद्भिक्षुजीवेन रुद्रताम् ॥२०॥
प्राप्य सर्वात्मना लब्धं तथा सर्वं तथास्थितेः ।
भिक्षुसंकल्पजीवास्ते प्रत्येकं तज्जगत्पृथक् ॥२१॥
पश्यन्ति चैते नान्योन्यं रुद्रज्ञानादृते ततः ।
अप्रबुद्धाः प्रजायन्ते जीवा जीवान्तबोधिनः ॥२२॥
तदिच्छयाशु तद्रूपा बहुरूपाश्च ते इह ।
इह विद्याधरोऽहं स्यामहं स्यामिह पण्डितः ॥२३॥
इत्येकध्यानसाफल्यं दृष्टान्तोऽस्यां क्रियास्थितौ ।
एकत्वं च बहुत्वं च मौर्ख्यं पाण्डित्यमेव वा ॥२४॥
देवत्वं मानुषत्वं च देशकालक्रियाक्रमैः ।
तुल्यकालमलं कर्तुं धारणाध्यानयत्नतः ॥२५॥
सर्वशक्त्यः स्वरूपत्वाज्जीवस्यास्त्येकशक्तिता ।
अनन्तश्चान्तपृक्तश्च स्वभावोऽस्य स्वभावतः ॥२६॥
सविकासः ससंकोचोऽहिंस्रस्तेन चिदात्मनः ।
यदिच्छति तदस्याङ्ग जन्तुः संपद्यते स्वयम् ॥२७॥
स्वयं संपादितैरेभिर्देशकालक्रियाक्रमैः ।
योगिन्यो योगिनश्चेह तिष्ठन्त्यन्यत्र यत्र च ॥२८॥
इह वामुत्र भोगेन दृष्टमेतदनेकशः ।
कार्तवीर्यो गृहे तिष्ठन्सर्वेषां भयदोऽभवत् ॥२९॥
विष्णुः क्षीरोदधौ तिष्ठन्जायते पुरुषो भुवि ।
पश्वर्थं यान्ति तिष्ठन्त्यो योगिन्यो योगिनीगणे ॥३०॥
शक्रः स्वर्गासने तिष्ठन्याति यज्ञार्थमुर्विकाम् ।
सहस्रमेकं भवति तथा चास्मिञ्जनार्दनः ॥३१॥
नृणां शतानि भक्तानां मानुष्यं याति तन्नतैः ।
एकः सहस्रं भवति तथा चैष जनार्दनः ॥३२॥
अंशावतारलीलाभिः कुरुते जागतीं स्थितिम् ।
एकः कान्तासहस्राणि तुल्यकालं निमेषवत् ॥३३॥
एवं ते भिक्षुसंकल्पा जीवटब्राह्मणादयः ।
रुद्रविज्ञानवशतः स्वसंकल्पपुरीं गताः ॥३४॥
तत्र भुक्त्वा चिरं भोगान्प्राप्य रुद्रपुरं ततः ।
गणतामावसन्तस्ते स्थास्यन्ति सपरिच्छदाः ॥३५॥
नित्यं प्रफुल्लनवकल्पलतालयेषु
रुद्रेण साकमुरुरत्नगुलुच्छकेषु ।
नानाजगत्सु च तदा शिवपत्तनेषु
विद्याधरीष्वमरमौलिधराश्च रेजुः ॥३६॥
इत्यार्षे श्रीवासिष्ठमहारामा० वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० गणत्वप्राप्तिर्नाम चतुःषष्टितमः सर्गः ॥६४॥
स्वप्नशतरुद्रीयं समाप्तम् ।
N/A
References : N/A
Last Updated : September 24, 2021
TOP