निर्वाणप्रकरणं - सर्गः ९९
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
शिखिध्वज उवाच ।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्महामुने ।
स्थितोऽस्मि गतसंदेहो विश्रान्तमतिरात्मवान् ॥१॥
ज्ञातज्ञेयो महामौनी तीर्णमायामहार्णवः ।
शान्तोऽहमनहंरूपो ज्ञः स्थितोऽस्मि निरामयः ॥२॥
अहो नु सुचिरं कालं प्रभ्रान्तोऽहं भवाम्बुधौ ।
स्थानमक्षयमक्षुब्धमधुना प्राप्तवानहम् ॥३॥
एवं स्थिते मुने नास्ति साहंतादिजगत्त्रयम् ।
मूर्खबुद्धमिदं भाति यत्तद्ब्रह्मेति वेद्म्यहम् ॥४॥
कुम्भ उवाच ।
जगदेव न यत्रास्ते तत्राहंत्वंविभासनम् ।
इत्थमम्बरसंसारः क्व कुतः कीदृशः कथम् ॥५॥
यथास्थितव्यवहृतिर्मौनी शान्तमना मुनिः ।
सौम्यार्णवोदरावर्तपरिस्पन्दवदास्व भो ॥६॥
ब्रह्मरूपमिदं शान्तमित्थमस्ति यथास्थितम् ।
अहं जगदिदं चेति शब्दार्थात्म नभोमयम् ॥७॥
इदमाद्यन्तरहितं सर्वं संसारनामकम् ।
चिच्चमत्कृतिनामात्म नभः कचकचायते ॥८॥
संनिवेशदृशः शान्तौ तदस्ति कनकं यथा ।
जगदाद्यर्थसंशान्तौ ब्रह्मेदं विद्यते तथा ॥९॥
यथा स्वयंभूः संकल्पः स्वयं नाम तथैव हि ।
एतौ स्ववेदनायत्तौ बन्धमोक्षौ व्यवस्थितौ ॥१०॥
अहमित्येव संकल्पो बन्धायातिविनाशिने ।
नाहमित्येव संकल्पो मोक्षाय विमलात्मने ॥११॥
यद्बन्धमोक्षसंकल्पशब्दार्थानां सदा सताम् ।
स्वरूपवेदनं तत्सत्केवलत्वं च कथ्यते ॥१२॥
अनहंवेदनं सिद्धिरहंवेदनमापदः ।
सोऽहमेवानहमिति शुद्धबोधो भवात्मवान् ॥१३॥
असंकल्पनमात्रेण सम्यग्ज्ञानोदयात्मना ।
संकल्पः क्षीयते सिद्ध्यै स्वयमेवासदात्मकः ॥१४॥
अप्रतर्क्ये स्वरूपे हि नास्ति कारणता शिवे ।
कारणाभावतः कार्यपदार्थोऽपि न विद्यते ॥१५॥
पदार्थाभावसंसिद्धौ वेदनं नोपपद्यते ।
कारणाभावतो नित्यमहंभावस्य नोदयः ॥१६॥
अहंभावानुदयतः संसारः कस्य कीदृशः ।
संसाराभावतः सर्वं परमेवावशिष्यते ॥१७॥
यदिदं भासते तत्सत्परमेवात्मनि स्थितम् ।
परं परे परापूर्णं सममेव विजृम्भते ॥१८॥
तेन निस्तिमितं सर्वं शिलाकीर्णमिवाचलम् ।
विद्धि रश्मिमयाकारमिव ब्रह्म जगत्स्थितम् ॥१९॥
पुरः संकल्पके नष्टे संकल्पनगरस्य यत् ।
रूपं तद्विद्धि जगतः खादच्छं सदसन्मयम् ॥२०॥
छायापुरुषवत्स्पन्दि शान्तं निर्मननं जगत् ।
जगच्छब्दार्थरहितं यः पश्यति स पश्यति ॥२१॥
रूपालोकमनस्कारा नीरसागमभावना ।
सम्यग्ज्ञानावबोधस्य निर्वाणं वै विदुर्बुधाः ॥२२॥
यथास्ति वातो निःस्पन्दो यथास्ति खगतोपि वा ।
यथा हेमासंनिवेशमस्ति ब्रह्म जगत्तथा ॥२३॥
नीरसा असदाभासा जगत्प्रत्ययकारिणः ।
रूपालोकमनस्काराः सन्तीमे ब्रह्मरूपिणः ॥२४॥
ऊर्मिशब्दार्थरहितं यादृगम्बु बहून्यपि ।
सर्गशब्दार्थरहितं तादृग्ब्रह्म निसर्गवत् ॥२५॥
सर्ग एव परं ब्रह्म परं ब्रह्मैव सर्गदृक् ।
सर्गशब्दार्थरहितो वाक्यार्थस्त्वेष शाश्वतः ॥२६॥
ब्रह्मशब्दार्थसंपत्तौ सर्गशब्दार्थधीः कृता ।
सर्गशब्दार्थसंसिद्धौ ब्रह्मशब्दार्थधीः कृता ॥२७॥
समस्तशब्दशब्दार्थभावनाभावनोदयम् ।
शुद्धं तिष्ठति चिद्व्योम ब्रह्मशब्देन कथ्यते ॥२८॥
सम्यग्दर्शनसंसिद्धावुभयोरप्यवेदने ।
यच्छिष्टमजरं शान्तं ततो वाग्विनिवर्तते ॥२९॥
संशान्तसर्वात्मकवेदनौघ-
मस्तीदमेकात्मकस्वस्वरूपम् ।
यथास्थितं सर्वजगत्स्वरूपं
पाषाणरूपं च परं ज्ञरूपम् ॥३०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० शिखिध्वजावबोधनं नामैकोनशततमः सर्गः ॥९९॥
N/A
References : N/A
Last Updated : September 25, 2021
TOP