निर्वाणप्रकरणं - सर्गः ११४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
परस्माद्ब्रह्मणः पूर्वं मनः प्रथममुत्थितम् ।
मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम् ॥१॥
पुष्पकोश इवामोदो महोर्मिरिव सागरे ।
रश्मिजालमिवादित्ये मनो ब्रह्मणि राघव ॥२॥
तस्यादृश्यात्मतत्त्वस्य विस्मृत्यैव गतं स्थितिम् ।
नान्यस्मादागतं राम जगद्रज्जुभुजङ्गवत् ॥३॥
आदित्यव्यतिरेकेण यो भावयति राघव ।
रश्मिजालमिदं ह्येतत्तस्यान्यदिव भास्वतः ॥४॥
कनकव्यतिरेकेण केयूरं येन भावितम् ।
केयूरमेव तत्तस्य न तस्य कनकं हि तत् ॥५॥
आदित्याव्यतिरेकेण रश्मयो येन भाविताः ।
आदित्य एव ते तस्य निर्विकल्पः स उच्यते ॥६॥
सलिलव्यतिरेकेण तरङ्गो येन भावितः ।
तरङ्गबुद्धिरेवैका स्थिता तस्य न वारिधीः ॥७॥
सलिलाव्यतिरेकेण तरङ्गो येन भाव्यते ।
अम्बुसामान्यताबुद्धिर्निर्विकल्पः स उच्यते ॥८॥
कनकाव्यतिरेकेण केयूरं येन भाव्यते ।
कनकैकमहाबुद्धिर्निर्विकल्पः स उच्यते ॥९॥
पावकव्यतिरेकेण ज्वालाली येन भाविता ।
तस्याग्निबुद्धिर्गलति ज्वालाधीरेव तिष्ठति ॥१०॥
ज्वालाजालाभ्रलेखेव रञ्जिता सा तथा स्थितिः ।
तामेवास्थां समादत्ते तद्गतान्याकुला मतिः ॥११॥
पावकाव्यतिरेकेण ज्वालाली येन भाव्यते ।
तस्याग्निबुद्धिरेकास्ति निर्विकल्पः स उच्यते ॥१२॥
यो निर्विकल्पः सुमहान्सोऽसंक्षीणमहामतिः ।
प्राप्तव्यं तेन संप्राप्तं नासौ वस्तुषु मज्जति ॥१३॥
नानातामखिलां त्यक्त्वा शुद्धचिन्मात्रकोटरे ।
संवेद्येन विनिर्मुक्ते संवित्तत्त्वे स्थितो भव ॥१४॥
स्वयमेवात्मनैवात्मा शक्तिं संकल्पनामिकाम् ।
यदा करोति स्फुरता स्पन्दशक्तिमिवानिलः ॥१५॥
तदा पृथगिवाभासं संकल्पकलनामयम् ।
मनो भवति विश्वात्मा भावयन्स्वाकृतिं स्वयम् ॥१६॥
तत्संकल्पात्मकं चेतो यथेदमखिलं जगत् ।
संकल्पयति संकल्पैस्तथैव भवति क्षणात् ॥१७॥
कीटत्वमब्जजत्वं च मेरुत्वं मरुतां तथा ।
मनो जीवमहंकारबुद्धिचित्तादिनामकम् ॥१८॥
संकल्पतो द्वितैकत्वमेत्य चेतो जगत्स्थितिम् ।
तनोति तस्यां तदनु नानातां गच्छति स्वयम् ॥१९॥
संकल्पमयमेवेदं जगदाभोगि दृश्यते ।
न सत्यं न च मिथ्यैव स्वप्नजालमिवोत्थितम् ॥२०॥
जन्तोर्यथा मनोराज्यं विविधारम्भभासुरम् ।
ब्राह्मं तथेदं विततं मनोराज्यं विराजते ॥२१॥
यथाभूतार्थभावित्वात्तदेतत्प्रविलीयते ।
परमार्थेन दृष्टं चेत्तदिदं नैव किंचन ॥२२॥
दृश्यं त्वपरमार्थेन प्रयाति शतशाखताम् ।
जलमूर्मितरङ्गादिकलनार्हं परिस्फुरन् ॥२३॥
यथाम्बुधिर्वपुर्धत्ते स्वभावेन तथा चितः ।
कुर्वन्कर्मसहस्राणि ह्यणुचित्स्पन्दनादृते ॥२४॥
नापूर्वं कुरुते किंचित्किंचिद्भेदमतस्त्यजन् ।
गच्छन्श्रृण्वन्स्पृशन्जिघ्रन्वदन्व्यवहरन्स्वपन् ॥२५॥
नापूर्वं विद्यते किंचित्सत्यमित्येव भावयन् ।
यद्यत्करोषि तद्विद्धि चिन्मात्रममलं ततम् ॥२६॥
ब्रह्म प्रबृंहिताकारं तस्मादन्यन्न विद्यते ।
पदार्थजाते सर्वस्मिन्संवित्सारमये स्थिते ॥२७॥
संविदेवेदमखिलं जगन्नान्यास्ति कल्पना ।
संवित्स्फुरणमात्रेऽस्मिञ्जगज्जालकनामनि ॥२८॥
इदमन्यदिदं चान्यदिति मिथ्याग्रहः कुतः ।
संभवादखिलाकारेष्वेकस्या एव संविदः ।
संवेद्यमपि नास्त्येव बन्धमोक्षावतः कथम् ॥२९॥
मोक्षोऽयमेष खलु बन्ध इति प्रसह्य
चिन्तां निरस्य सकलां विफलाभिमानाम् ।
मौनी वशी विगतमानमदो महात्मा
कुर्वन्स्वकार्यमनहंकृतिरेव तिष्ठ ॥३०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमार्थोपदेशो नाम चतुर्दशाधिकशततमः सर्गः ॥११४॥
N/A
References : N/A
Last Updated : September 25, 2021
TOP