निर्वाणप्रकरणं - सर्गः ३२
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
ईश्वर उवाच ।
मुने श्रृणु कथं कार्यकारिणी स्पन्दशालिनी ।
चरन्ती च तनुं पुंसामुपैति परमाभिधाम् ॥१॥
प्राक्तनैस्तैर्निहन्त्येव स्वमनोमननेहितैः ।
कर्मव्रातैर्विचित्रेहैः परिपीवरतां गतैः ॥२॥
मनस्तया गता शक्तिः सज्जडेवागता चितेः ।
सा स्फुरत्यनया ब्रह्मन्नुचिता शक्तिभूतया ॥३॥
अस्याः प्रसादादिह सा चित्कलङ्कवती मुने ।
जगद्गन्धर्वनगरं करोति न करोति च ॥४॥
चित्ताद्यसत्तया देहो मूकस्तिष्ठति कुड्यवत् ।
तत्सत्तया हि स्फुरति नभःसंप्रेरिताश्मवत् ॥५॥
यथा स्फुरत्यतिजडमयोऽयस्कान्तसंनिधौ ।
तथा स्फुरति जीवोऽयं सति सर्वगते परे ॥६॥
सर्वस्थयात्मशक्त्यैव जीव एष स्फुरत्यलम् ।
मुकुरो बिम्बमादत्ते द्रव्यात्मन्यस्थितादपि ॥७॥
प्रविस्मृतस्वभावत्वाज्जीवोऽयं जडतां गतः ।
मोहाद्विस्मृतभावत्वाच्छूद्रतामिव सद्द्विजः ॥८॥
प्रविस्मृतस्वभावा हि चिच्चित्तत्वमुपागता ।
मोहापहतचित्तत्वात्सुमहानिव दीनताम् ॥९॥
जडयाऽवशया देहो वातशक्तिसमानया ।
संचाल्यते तदनया वारीव वीचिमालया ॥१०॥
कर्मात्मना वराकेण जीवेन मनसामुना ।
चाल्यन्ते देहयन्त्राणि पाषाणा इव वायुना ॥११॥
शरीरशकटानां हि कर्षणे परमात्मना ।
मनःप्राणोदयौ ब्रह्मन्कृतौ कर्मकृतौ दृढौ ॥१२॥
चिज्जडं तूररीकृत्य रूपं जीवत्वमेत्य च ।
मनोरथमुपारुह्य वहत्प्राणतुरंगमम् ॥१३॥
क्वचिज्जातपदार्थत्वं क्वचिन्नष्टपदार्थताम् ।
क्वचिद्वहुपदार्थत्वं क्वचिदेकपदार्थताम् ॥१४॥
गतेव भिन्नेवास्त्येवमत्यजन्ती निजं पदम् ।
जलतेव तरङ्गत्वं सैवासदसदोदिता ॥१५॥
उपजीव्यात्मनो रूपं परं स्फुरति वृत्तिषु ।
आलोकमुपजीव्येमं रूपश्रीर्दृश्यगा यथा ॥१६॥
परमात्मनि चित्तत्त्वे स्थिते सति निरामये ।
जीवो जीवति सालोकं दीपे सति गृहं यथा ॥१७॥
आधयो व्याधयश्चैव प्रयान्त्यस्य प्रपीनताम् ।
अपामिव तरङ्गत्वं वीचित्वस्येव फेनता ॥१८॥
आधिव्याधिभिराकीर्णशरीराम्भोजषट्पदः ।
जीवो वैषम्यमायाति तरङ्गत्वे यथा पयः ॥१९॥
चिच्छक्तिः सर्वशक्तित्वान्नाहं चिदिति भावनात् ।
अत्र सैवैति वैवश्यं सूर्यो दीप्तैरिवाम्बुदैः ॥२०॥
वैवश्याच्चयवती मौढ्यान्न विन्दत्यात्मसंविदम् ।
घनजाड्यपराभूतः स्वाङ्गावदलनं यथा ॥२१॥
प्राप्य चाप्यनुसंधानमस्या मोहो विनश्यति ।
घनमोहरतो जन्तुः स्वकार्यस्मरणं यथा ॥२२॥
यदाङ्गसंविदां वातस्पन्दशक्तिः प्रमोषतः ।
न करोत्यनुसंधानं कुष्ठी स्पन्दैषणं यथा ॥२३॥
असंवित्स्पन्दतो देहे पद्मपत्रं हृदि स्थितम् ।
न स्फुरत्यपरामृष्टं दारुपात्रं यथा बहिः ॥२४॥
निःस्पन्दे पद्मपत्रेऽन्तः प्राणाः शान्तिं प्रयान्त्यमी ।
तालवृन्ते यथाऽस्पन्दे बहिः पवनशक्तयः ॥२५॥
प्राणे शान्तेतरस्पर्शे जीवो निष्पूर्णमूकताम् ।
याति शान्ते नभोवायौ न दृश्यत्वं यथा रजः ॥२६॥
विरजं विगताधारं मनो हि शिष्यते मुने ।
तिष्ठत्यात्मपदं लब्ध्वा जलादितरुबीजवत् ॥२७॥
इति वैकल्यमायातैः कारणौघैः समन्ततः ।
पुर्यष्टके शमं याते देहः पतति निश्चलः ॥२८॥
चिच्चेत्यचेतनान्मोहात्स्पन्दमायान्ति वासनाः ।
तदीरिता स्मरत्यन्तरन्यद्विस्मरति स्वयम् ॥२९॥
हृत्पद्मपत्रस्फुरणात्स्फुटं पुर्यष्टकं भवेत् ।
हृत्पद्मयन्त्रे वहनाद्रुद्धे पुर्यष्टकं क्षयि ॥३०॥
देहे पुर्यष्टकं यावदस्ति तावत्स जीवति ।
शान्ते पुर्यष्टके देहो मृत इत्युच्यते द्विज ॥३१॥
विरुद्धमलसंबोधाच्छेदभेददशावशात् ।
न प्रस्फुरति हृत्पद्मयन्त्रमभ्यन्तरे यदा ॥३२॥
तदा पुर्यष्टकं शान्तिमुपैति गगने शनैः ।
संरोधिते वातयन्त्रे यथा पवनसंततिः ॥३३॥
स्वसंवित्तिवशाज्जीवो वैवश्यमुपगच्छति ।
पद्मयन्त्रं शरीरस्थं प्रवाहं याति नित्यदा ॥३४॥
वासना विमला येषां हृदयान्नापसर्पति ।
स्थिरैकरूपजीवास्ते जीवन्मुक्ताश्चिरायुषः ॥३५॥
संरुद्धे पद्मयन्त्रे हि प्राणे शान्तिमुपागते ।
देहः पतत्यधैर्योऽयं काष्ठलोष्टसमः क्षितौ ॥३६॥
यथैव व्योम मरुति लीनं पुर्यष्टकं भवेत् ।
तथैव तत्रैव तदा लयमेति मनो मुने ॥३७॥
सुचिराभ्यस्तभावं तु वासनाखचितं मनः ।
यत्र तत्र भ्रमत्स्वर्गनरकादि प्रपश्यति ॥३८॥
शरीरं शवतामेति मनोमारुतवर्जितम् ।
गते गृहजने दूरं गृहं संशून्यतामिव ॥३९॥
सर्वगा चिच्चेतनतो जीवीभूय मनःस्थिता ।
पुर्यष्टकवपुर्भूत्वा साऽऽतिवाहिकदेहिनी ॥४०॥
तन्मात्रपञ्चकं चित्तं क्रोडीकृत्य व्यवस्थिता ।
स्वप्नभ्रमवदाकारं भावात्स्थूलं प्रपश्यति ॥४१॥
दृढभावनया पश्चात्तत्रैव रसशालिनी ।
आतिवाहिकदेहत्वं विस्मरत्यखिलं क्षणात् ॥४२॥
असत्येव शरीरेऽस्मिन्कृतकृत्रिमभावना ।
नयत्यसत्यं सत्यत्वं सत्यं चासत्यतामपि ॥४३॥
सर्वगा हि चिदंशेन जीवीभूयाभवन्मनः ।
मनः पुर्यष्टकरथमाक्रामति ततो जगत् ॥४४॥
पुर्यष्टकं वातमयं देहमुत्थापयत्यलम् ।
हृत्स्पन्दिवेताल इव जीवतीत्युच्यते तदा ॥४५॥
क्षीणे पुर्यष्टके चित्तं यदा व्योमनि लीयते ।
तदा स्फुरति देहोऽयं मृत इत्युच्यतेऽपि च ॥४६॥
स्वभाववशतो जीवो विस्मृत्या शक्तिमृच्छति ।
वैवश्यात्कालवशतः पर्णं जर्जरतामिव ॥४७॥
जीवशक्तया परामृष्टे निरुद्धे पद्मयन्त्रके ।
प्राणे संरोधमायाते म्रियते मानवो मुने ॥४८॥
यथा जातानि जातानि चान्यान्यन्यानि कालतः ।
वृक्षात्पर्णानि शीर्यन्ते शरीराणि तथा नृणाम् ॥४९॥
जायन्ते च म्रियन्ते च शरीराणि शरीरिणाम् ।
पादपानां च पर्णानि का तत्र परिदेवना ॥५०॥
चिदम्बुधौ स्फुरन्त्येता देहबुद्बुदपङ्कतयः ।
इतश्चान्या इतश्चान्या एतास्वास्था न धीमतः ॥५१॥
सर्वगापि चिदेतस्मिंश्चेतसि प्रतिबिम्बति ।
पदार्थमन्तरादत्ते नान्यो हि मुकुरादृते ॥५२॥
चिदमलनभसि प्रयत्नरूपाः
परिवितते तदतन्मयाः स्फुरन्ति ।
कलकलमुखराः स्फुटाभिरामा
विविधशरीरविमोहतापनाय ॥५३॥
इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० देहपातविचारो नाम द्वात्रिंशः सर्गः ॥३२॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP