निर्वाणप्रकरणं - सर्गः ८९
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
चूडालोवाच ।
अथेममपरं रम्यं वृत्तान्तं शृणु भूमिप ।
परं प्रबोधनं बुद्धेः साधो सदृशमात्मनः ॥१॥
अस्ति विन्ध्यवने हस्ती महायूथपयूथपः ।
आगस्त्या शुद्धया बुद्ध्या विन्ध्येनेवोदितः स्वतः ॥२॥
वज्रार्चिर्विषमौ दीर्घौ तस्यास्तां दशनौ सितौ ।
कल्पानलशिखातुल्यौ सुमेरून्मूलनक्षमौ ॥३॥
स बद्धो लोहजालेन हस्तिपेन किलाभितः ।
मुनीन्द्रेणेव विन्ध्याद्रिरुपेन्द्रेणेव वा बलिः ॥४॥
निबद्धो यन्त्रणामाप शस्त्रकुम्भर्दितो गजः ।
तां जगाम व्यथां धीरो नवाग्नौ पुरमेति याम् ॥५॥
रिपौ हस्तिपके दूरादपश्यति स वारणः ।
अयःसमुद्गके यस्मिन्निनाय दिवसत्रयम् ॥६॥
खेदान्निगडनिर्भेदे यत्नवान्स मतंगजः ।
चकार किकिणीक्वाणं मुखोद्धातैरथान्यदा ॥७॥
दन्ताभ्यां यत्नतस्ताभ्यां मुहूर्तद्वितयेन सः ।
बभञ्ज शृङ्खलाजालं स्वर्गार्गलमिवासुरः ॥८॥
तं तस्य निगडच्छेदमपश्यद्दूरतो रिपुः ।
बलेः स्वर्गावदलनं हरिर्मेरुतलादिव ॥९॥
तस्य विच्छिन्नपाशस्य मूर्ध्नि तालतरो रिपुः ।
पपात क्रमतः स्वर्गं हरिर्मेरोर्बलेरिव ॥१०॥
स पतन्पादपद्माभ्यामप्राप्य करिणः शिरः ।
पपातोर्व्यां फलं पक्वं वाताहतमिवाकुलः ॥११॥
तं पुरः पतितं दृष्ट्वा महेभः करुणां ययौ ।
स्फुरत्स्फारगुणाः सन्तः सन्ति तिर्यग्गतावपि ॥१२॥
पतितं दलयामीति किं नाम मम पौरुषम् ।
वारणोऽपीति कलयन्न जघान स तं रिपुम् ॥१३॥
केवलं निगडव्यूहं विदार्याभिजगाम ह ।
विततं सेतुमुत्सार्य विपुलौघ इवाम्भसः ॥१४॥
दयामाश्रित्य मातङ्गो भङ्क्त्वा जालं जगाम ह ।
विदार्य मेघसंघातं नभसीव दिवाकरः ॥१५॥
गते गजे समुत्तस्थौ हस्तिपः स्वस्थदेहधीः ।
गजेनैव समं तस्य व्यथा दूरतरं गता ॥१६॥
प्रोच्चलत्तालशिखरात्स तथा पतितोऽपि सन् ।
न भेदमाप दुर्भेदा मन्ये देहा दुरात्मनाम् ॥१७॥
वर्धते प्रावृषीवाभ्रं कुकार्येष्वसतां बलम् ।
आसीदधिकमुत्साही स च चंक्रमणे तदा ॥१८॥
वारणारिरसिद्धाङ्गो गतेभो दुःखमाययौ ।
आगत्योपगतेऽन्तर्धिं निधान इव वर्धनः ॥१९॥
सोऽन्वियेष गजं यत्नाद्गुल्मकान्तरितं वने ।
पयोदपिण्डितं भोक्तुं राहुरिन्दुमिवाम्बरे ॥२०॥
चिरेणालभतेभेन्द्रं कस्मिंश्चित्कानने स्थितम् ।
विश्रान्तं तं तरुतले समरादिव निर्गतम् ॥२१॥
अथ यत्र स्थितो नागस्तत्र तद्बन्धनक्षमम् ।
परया राजसामग्र्या गजलम्पटभूमया ॥२२॥
स खातवलयं चक्रे हस्तिपः काननेऽभितः ।
सर्वदिक्कं विधिर्भूमौ समुद्रवलयं यथा ॥२३॥
उपर्यस्थगयद्वाललतौघेन स तं शठः ।
शून्यतातन्तुजालेन शरत्काल इवाम्बरम् ॥२४॥
दिनैः कतिपयैरेव वारणो विहरन्वने ।
तस्मिन्निपतितः खाते शुष्काब्धाविव पर्वतः ॥२५॥
व्रजन्पर्याकृतौ कूपे पातालतलभीषणे ।
खातशुष्काब्ध्यधोभागे गजरत्नसमुद्गके ॥२६॥
इति भूयो दृढं बद्धस्तेन हस्तिपकेन सः ।
तिष्ठत्यद्यापि दुःखेन भूसद्मनि यथा बलिः ॥२७॥
अहनिष्यत्पुरैवासौ यद्यग्रे पतितं रिपुम् ।
तन्नालप्स्यत्ततो दुःख गजः खातनिबन्धनम् ॥२८॥
मौर्ख्यादागामिन कालं वर्तमानक्रियाक्रमैः ।
अशोधयन्नरो दुःखं याति विन्ध्यगजो यथा ॥२९॥
मुक्तोऽस्मि शस्त्रनिगडादिति तुष्टो हि वारणः ।
दूरस्थोऽपि पुनर्बद्धो मौर्ख्यं क्व च न बाधते ॥३०॥
मौर्ख्यं हि बन्धनमवेहि परं महात्म-
न्बद्धो न बद्ध इति चेतसि तद्विमुक्त्यै ।
आत्मोदयं त्रिजगदात्ममयं समस्तं
मौर्ख्ये स्थितस्य सहसा ननु सर्वभूमिः ॥३१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० हस्तिकोपाख्यानं नामैकोननवतितमः सर्गः ॥८९॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP