निर्वाणप्रकरणं - सर्गः ३०
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
ईश्वर उवाच ।
एवं सर्वमिदं विश्वं परमात्मैव केवलम् ।
ब्रह्मैव परमाकाशमेष देवः परः स्मृतः ॥१॥
तदेतत्पूजनं श्रेयस्तस्मात्सर्वमवाप्यते ।
तदेव सर्गभूः सर्वमिदं तस्मिन्व्यवस्थितम् ॥२॥
अकृत्रिममनाद्यन्तमद्वितीयमखण्डितम् ।
अवहिःसाधनासाध्यं सुखं तस्मादवाप्यते ॥३॥
प्रबुद्धस्त्वं मुनिश्रेष्ठ तेनेदं तव कथ्यते ।
नातिदेवार्चने योग्यः पुष्पधूपचयो महान् ॥४॥
अव्युत्पन्नधियो ये हि बालपेलवचेतसः ।
कृत्रिमार्चामयं तेषां देवार्चनमुदाहृतम् ॥५॥
शमबोधाद्यभावे हि पुष्पाद्यैर्वार्चयन्ति हि ।
मिथ्यैव कल्पितैरेवमाकारे कल्पितात्मके ॥६॥
स्वसंकल्पकृतैः कृत्वा क्रमैरर्चनमादृताः ।
बालाः संतोषमायान्ति पुष्पधूपलवार्चनैः ॥७॥
स्वसंकल्पकृतैरर्थैः कृत्वा देवार्चनं मुधा ।
यतः कुतश्चिन्मिथ्यात्म फलमात्रं नयन्ति ते ॥८॥
पुष्पधूपार्चनं ब्रह्मन्कल्पितं बालबुद्धिषु ।
यत्स्याद्भवादृशां योग्यमर्चनं तद्वदाम्यहम् ॥९॥
अस्मदादिस्त्वसौ कश्चिद्देवो मतिमतां वर ।
देवस्त्रिभुवनाधारः परमात्मैव नेतरत् ॥१०॥
शिवः सर्वपदातीतः सर्वसंकल्पनातिगः ।
सर्वसंकल्पवलितो न सर्वो न च सर्वकः ॥११॥
दिक्कालाद्यनवच्छिन्नः सर्वारम्भप्रकाशकृत् ।
चिन्मात्रमूर्तिरमलो देव इत्युच्यते मुने ॥१२॥
संवित्सर्वकलातीता सर्वभावान्तरस्थिता ।
सर्वसत्ताप्रदा देवी सर्वसत्तापहारिणी ॥१३॥
ब्रह्म ब्रह्मन्सदसतोर्मध्यं तद्देव उच्यते ।
परमात्मपराभिख्यं तत्सदोमित्युदाहृतम् ॥१४॥
महासत्तास्वभावेन सर्वत्र समतां गतम् ।
महाचिदिति संप्रोक्तं परमार्थ इति श्रुतम् ॥१५॥
स्थितं सर्वत्र सर्वं तु लतास्वन्तर्यथा रसः ।
सत्तासामान्यरूपेण महासत्तात्मनापि च ॥१६॥
यच्चित्तत्त्वमरुन्धत्या यच्चित्तत्त्वं तवानघ ।
यच्चित्तत्त्वं च पार्वत्या यच्चित्तत्त्वं गणेषु च ॥१७॥
चित्तत्त्वं यन्ममेदं च चित्तत्त्वं यज्जगत्रये ।
तद्देव इति तत्त्वज्ञा विदुरुत्तमबुद्धयः ॥१८॥
पादपाण्यादिमानन्यो यो वा देवः प्रकल्प्यते ।
संविन्मात्रादृते ब्रह्मन्किंसारः किल कथ्यताम् ॥१९॥
चिन्मात्रमेव संसारसारः सकलसारताम् ।
गतः स देवः सर्वोऽहं तस्मात्सर्वमवाप्यते ॥२०॥
न स दूरे स्थितो ब्रह्मन्न दुष्प्रापः स कस्यचित् ।
संस्थितः स सदा देहे सर्वत्रैव च खे तथा ॥२१॥
स करोति स चाश्नाति स बिभर्ति प्रयाति च ।
सनिःश्वसिति संवेत्तासोऽङ्गान्यङ्गानि वेत्ति च ॥२२॥
सोऽस्यां विचित्रचेष्टायां प्रकाशिन्यां च तद्वशात् ।
तत्स्वरूपनिबद्धायां पुर्यामास्ते मुनीश्वर ॥२३॥
शरीरावसथायां च चलायां तत्प्रसादतः ।
सोऽस्यां गहनकोशायां ह्रद्गुहायां गुहेश्वरः ॥२४॥
मनःषष्ठेन्द्रियाचारसत्तातीतामलात्मनः ।
तस्य संव्यवहारार्थं संज्ञा चिदिति कल्पिता ॥२५॥
स एष चिन्मयः सूक्ष्मः सर्वव्यापी निरञ्जनः ।
इमं भास्वरमाभासं करोति न करोति च ॥२६॥
सा चिदत्यन्तविमला जगदर्थं जगत्क्रियाम् ।
इमां रञ्जयति प्राज्ञ रसेनेव मधुर्लताम् ॥२७॥
चारवो ये चमत्काराश्चितश्चिति यथास्थितम् ।
चमत्कुर्वन्ति किल ते तेन केचिन्नभोभिधाः ॥२८॥
केचिज्जीवाभिधानाश्च केचिच्चित्ताभिधानकाः ।
केचित्कलाभिधानाश्च केचिद्देशाभिधानकाः ॥२९॥
केचित्क्रियाभिधानाश्च केचिद्रव्याभिधानकाः ।
केचिद्भावविकारादिजात्यौचित्याभिधानकाः ॥३०॥
प्रकाशाभिधानाः केचित्केचिच्छैलतमोभिधाः ।
अर्केन्द्राद्यभिधाः केचित्केचिद्यक्षाभिधानकाः ॥३१॥
निरिच्छस्वस्वभावेन वसन्तेन यथाङ्कुरः ।
तन्यते तद्वदेवेयं जगल्लक्ष्मीश्चिदात्मना ॥३२॥
चिदेवासु समग्रासु सर्वदैवैकिकैव हि ।
त्रैलोक्याम्भोधिसंस्थासु शरीरजलजालिका ॥३३॥
शरीरपङ्कजभ्रान्तमनोभ्रमरसंभृताम् ।
आस्वादयति संकल्पमधुसत्तां चिदीश्वरी ॥३४॥
ससुरासुरगन्धर्वं सशैलार्णवकं जगत् ।
चिति स्थितं प्रवहति जलावर्ते जलं यथा ॥३५॥
बन्धचित्तमयाचारचारुचञ्चुरचक्रिकम् ।
संसारचक्रं चिच्चक्रे भ्राम्यति भ्रमभाजनम् ॥३६॥
चिच्चतुर्भुजरूपेण जघानासुरमण्डलम् ।
कालो जलदखण्डेन सायुधेन यथाऽऽतपम् ॥३७॥
चित्र्त्रिनेत्रतया ब्रह्मन्वृषशीतांशुचिह्नया ।
गौरीकमलिनीवक्रपद्मषट्पदतां गता ॥३८॥
विष्णोः पद्मालितामेत्य चिद्ध्यानाधीनमानसा ।
त्रयी नलिन्याः सरसीं धत्ते पैतामहीं स्थितिम् ॥३९॥
चितो ब्रह्मन्विचित्राणि शरीराणीह भूरिशः ।
पत्राणीव तरोर्हेम्नि केयूरादिक्रियेव च ॥४०॥
चित्समस्तसुरानीकपरिवन्दितपादया ।
त्रैलोक्यचूडामणितां धत्ते वासवलीलया ॥४१॥
चित्सुभास्वरतामेत्य त्रैलोक्योदरडम्बरे ।
पतत्युदेति संयाति स्वात्मन्येवाब्धिवारिवत् ॥४२॥
चिच्चन्द्रिका चतुर्दिक्षु अवभासं वितन्वती ।
विकासयति निःशेषभूतसत्ताकुमुद्वतीम् ॥४३॥
चिद्दर्पणमहालक्ष्मीस्त्रिजगत्प्रतिबिम्बितम् ।
गृह्णात्यनुग्रहेणान्तः स्वगर्भमिव गर्भिणी ॥४४॥
चिच्चतुर्दशभूतानां मण्डलानि महान्ति च ।
भूतीकरोति वारिश्रीः समुद्रस्वमिवाम्बुधिः ॥४५॥
विचित्रालोककुसुमा घनसंकल्पपल्लवा ।
व्योमकेदारिकारूढा सत्तौघफलशालिनी ॥४६॥
जीवजालरजःपुञ्जवासनारसरञ्जिता ।
संवेदनत्वग्वलिता चित्तेहाकलिकाकुला ॥४७॥
अतीतासंख्यत्रिजगत्केसरोज्ज्वलरूपिणी ।
अनारतस्पन्दमहाविलासोल्लासहासिनी ॥४८॥
सर्वर्तुपर्वपरुषा जडशैलादिगुल्मका ।
विग्रहग्रन्थिवलिता मूलाग्रपरिवर्तिता ॥४९॥
चिल्लतेयं विकसिता पेलवं सदसद्वपुः ।
विचित्रं दृश्यकुसुमं परामर्शासहं बहु ॥५०॥
अनयेह हि सर्वत्र च्छायाच्छमिव जन्यते ।
मन्यते तन्यते वस्तु गीयते क्रियतेऽपि च ॥५१॥
महाचितानया नित्यं भासन्ते भास्करादयः ।
देहाः स्वदन्ते च मिथस्तत्सच्चिज्जडविभ्रमैः ॥५२॥
चिता चावर्तवर्तिन्या सिद्धान्येव प्रनृत्यति ।
जगज्जालरजोलेखा तत्सत्ता दृश्यदेहिनी ॥५३॥
चित्सर्वं जगदारम्भमिमं प्रकटयत्यलम् ।
त्रैलोक्यदीपकशिखादीपो वर्णाश्रयं यथा ॥५४॥
चिच्चन्द्रबिम्बे विमले शशवत्प्राप्य संगमम् ।
सर्वत्र लक्ष्यतामेति पदार्थश्रीर्जगद्गता ॥५५॥
चिद्रसायनसेकेन पदार्थपटलावली ।
रूपमेति फलं चैव प्रावृट्सिक्तेव सल्लता ॥५६॥
चिच्छाययैव सर्वस्य जाड्यं सम्यगुदेति च ।
सर्वस्यास्य शरीरस्य गृहस्येव तमस्त्विह ॥५७॥
चिच्चमत्कृतयो देहे न भवेयुरिमा यदि ।
त्रैलोक्यदेहास्त्यक्त्वैते न स्पृशेयुः किलाकृतिम् ॥५८॥
चिदाकाशप्रकाशेऽस्मिन्संकल्पशिशुधारिणी ।
क्रियाकुलवधूर्देहगृहे स्फुरति चञ्चला ॥५९॥
चिदालोकं विना कस्य रसनाग्रे स्फुरन्नपि ।
कथं कदा प्रकटतामेति दृष्टः क्व वा रसः ॥६०॥
श्रृण्वङ्ग स्वाङ्गशाखोऽपि कुन्तलालिलतोऽप्यलम् ।
चिन्मज्जनं विना देहवृक्षः क इव राजते ॥६१॥
वर्धते विलुठत्यत्ति चिच्चराचरकारिणी ।
चिदेवास्तीतरन्नास्ति चिन्मात्रमिदमुत्थितम् ॥६२॥
श्रीवसिष्ठ उवाच ।
इत्युक्तवांस्तदा त्र्यक्षः सुधांशुस्वच्छया गिरा ।
पुनः पृष्टो मया राम सुधांशुस्वच्छया गिरा ॥६३॥
यदि सर्वगता देव चिदस्त्येका तदात्मकः ।
तदयं चावनिस्फारमयान्धेव न चेतति ॥६४॥
अयं चित्वान्पुरा भूत्वा चिद्धीनः संप्रति स्थितः ।
इतीयं कल्पना लोके प्रत्यक्षानुभवा कथम् ॥६५॥
ईश्वर उवाच ।
श्रृण्वेतदखिलं ब्रह्मन्यदा पृष्टं वदामि ते ।
महानयं त्वया प्रश्नः कृतो ब्रह्मविदां वर ॥६६॥
चिदस्ति हि शरीरेह सर्वभूतमयात्मिका ।
चलोन्मुखात्मिकैका तु निर्विकल्पा परा स्मृता ॥६७॥
संकल्पबुद्धा सैवान्तः स्वयमन्येव संस्थिता ।
संकल्पितेतरवरा दौःशील्यं स्त्री यथा गता ॥६८॥
स एव हि पुमान्कोपाद्यथेहान्य इव क्षणात् ।
भवत्येवं विकल्पाङ्का चित्स्वरूपान्यतां गता ॥६९॥
विकल्पकल्पिता ब्रह्मंश्चित्स्वरूपपरिच्युता ।
जाड्यं क्रमाद्भावयन्ती प्रयाति कलनापदम् ॥७०॥
चित्स्वयं चेत्यतामेति साकाशपरमाणुताम् ।
शब्दबीजात्मिकां पश्चाद्वाततन्मात्रगामिनी ॥७१॥
देशकालविभागान्ता तन्मात्रवलिता क्रमात् ।
जीवो भूत्वा भवत्याशु बुद्धिः पश्चादहं मनः ॥७२॥
मनस्त्वं समुपायाता संसारमवलम्बते ।
चण्डालोऽस्मीति मननाच्चण्डालत्वमिव द्विजः ॥७३॥
संकल्पिताऽप्रबोधेन जाड्याऽविश्वप्रबोधिनी ।
शबलं रूपमासाद्य संकल्पाद्यात्यनारतम् ॥७४॥
अनन्तसंकल्पमयी जाड्यसंकल्पपीवरा ।
चिज्जाड्यान्मोदमायाति पयः पाषाणतामिव ॥७५॥
ततश्चित्तं मनोमोहो मायेति विहिताभिधा ।
जाड्यं निपुणमाश्रित्य संसारे जायते मुने ॥७६॥
मोहमान्द्यमुपायाता तृष्णानिगडपीडिता ।
कामक्रोधभयोपेता भावाभावातिपातिनी ॥७७॥
त्यक्तानन्तनिजाभोगा व्यवच्छेदविकारिणी ।
दुःखदावानलातप्ता शोकाशिवकृशाशया ॥७८॥
इयमस्मीति भावेन शून्येन विकलीकृता ।
देहमात्रगृहीतास्था परं दैन्यमुपागता ॥७९॥
मग्ना मोहमहापङ्के जीर्णेव वनदन्तिनी ।
भावाभावलतादोला परिलोलशरीरका ॥८०॥
असारापारसंसारविकारव्यवहारिणी ।
तापोपतप्तहृदया रागतेजोनुरञ्जिता ॥८१॥
निजयूथपरिभ्रष्टा मृगीवावशतां गता ।
आविर्भावोदिताकारा तिरोभावेऽस्तमागता ॥८२॥
स्वसंकल्पोपयातासु भीता संभ्रमदृष्टिषु ।
पलायते वाष्वन्यासु वेतालेष्विव बालिका ॥८३॥
उष्ट्रीव मधुरं विन्दुं वाञ्छते भावितं सुखम् ।
अवान्तरपरिभ्रष्टा दोषाद्दोषं पतत्यधः ॥८४॥
परं वैषम्यमायाति संकटात्संकटं गता ।
दुःखाद्दुःखं निपतिता विपदो विपदि स्थिता ॥८५॥
नानानर्थगणोपेता चेष्टापरवशाशया ।
कष्टात्कष्टमनुप्राप्ता परितापानुतापिनी ॥८६॥
क्रमादाबद्धवैदग्ध्याद्वैदग्ध्याङ्गमुपागता ।
विचित्रबन्धनिर्माणपराक्रमपदं गता ॥८७॥
सर्वतः शङ्कते भीता प्राणात्ययमुपागता ।
क्षीणतोयेव शफरी विवर्तनपरायणा ॥८८॥
बाल्ये विवशसर्वार्था यौवने चिन्तयाऽऽवृता ।
वार्धकेऽप्यतिदुःखार्ता मृता कर्मवशीकृता ॥८९॥
जायते स्वर्गनगरे नागी पातालकोटरे ।
आसुरी दैत्यविवरे नरस्त्री वसुधातले ॥९०॥
राक्षसी राक्षसाधारे वानरी वनकोटरे ।
सिंही गिरीन्द्रशिखरे किन्नरी कुलपर्वते ॥९१॥
विद्याधरी देवगिरौ व्याली च वनगर्तके ।
लता तरौ खगी नीडे वीरुत्सानौ वने मृगी ॥९२॥
शेते नारायणोऽम्भोधौ ध्यानी ब्रह्मपुरेऽब्जजः ।
कान्तागतो हरः शैले स्वर्गे सुरवरो हरिः ॥९३॥
दिनं करोति तीक्ष्णांशुर्वर्षत्यम्बुधरो जलम् ।
करोति श्वसनं संवित्सपर्वतमहोदधिम् ॥९४॥
ऋतुचक्रं प्रवहति सहसा कालमण्डलम् ।
दिनरात्रितयोपैति तेजस्तिमिरतां क्रमात् ॥९५॥
क्वचिद्बीजरसोल्लासात्क्वचित्पाषाणमौनिनी ।
क्वचिन्नदी रसवती क्वचित्कुमुदविस्तृतिः ॥९६॥
क्वचित्फलावलीपाकैः क्वचित्काष्ठानलादिभिः ।
क्वचिच्छैत्यहिमद्वारि क्वचित्खादि न किंचन ॥९७॥
क्वचिदुज्ज्वलिताकारा क्वचित्कष्टा शिला क्वचित् ।
क्वचिन्नीलाथ हरिता क्वचिदग्निः क्वचिन्मही ॥९८॥
सर्वात्मत्वात्सर्वगत्वात्सर्वशक्तित्वयोगतः ।
सर्वत्वादेवंरूपैव खादप्यच्छैव सा परा ॥९९॥
चिच्चिनोति यथात्मानं येन यत्र यदा यदा ।
तत्तथानुभवत्यम्बु स्पन्दाद्वीच्यादितां यथा ॥१००॥
हंसी क्रौञ्ची बकी काकी सारसी तुरगी वृकी ।
बकी बलाका हरिणी वानरी किन्नरी शुनी ॥१०१॥
वटीका पिङ्गली शाली मक्षिका भ्रमरी शुकी ।
धीः श्रीर्ह्रीः प्रीती रतिश्च शंबरी शर्वरी शशी ॥१०२॥
एतास्वन्यासु चान्यासु परिभ्रमति योनिषु ।
विवर्तमानसंसारे जलावर्ते तृणं यथा ॥१०३॥
बिभेत्यथ स्वसंकल्पात्स्वशब्दादिव गर्दभी ।
नानया सदृगन्यास्ति मुग्धा बाला चलाऽबला ॥१०४॥
एषा सा कथिता तुभ्यं जीवशक्तिर्महामुने ।
प्राकृताचारविवशा वराकी पशुधर्मिणी ॥१०५॥
कर्मात्मेत्यभिधां प्राप्ता शोच्यास्य परमात्मनः ।
अनन्तं दुःखबहुलं स्वयं विभ्रममाश्रिता ॥१०६॥
असदेवानयाक्रान्तं विनाशि सहजं मलम् ।
तण्डुलेनेव कञ्चूकमनन्ययाऽव्यवस्थितम् ॥१०७॥
अनन्तविभवभ्रष्टा दौर्भाग्यपरितापिनी ।
शोचन्ती प्राप्य जीवत्वं भर्तृहीनेव नायिका ॥१०८॥
जडगतेरवलोकय शक्ततां
निजपदस्मरणेन विनेह चित् ।
व्रजति कष्टमधः पतनाय या
यदरघट्टघटीघनपीठवत् ॥१०९॥
इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे०मो० निर्वाणप्रकरणे पू० शिवपूजोपाख्याने चेत्योन्मुखचिद्विचारो नाम त्रिंशः सर्गः ॥३०॥
N/A
References : N/A
Last Updated : September 23, 2021
TOP