नौत्पातपरित्यक्तः कदाचिदपि चन्द्रजो व्रजत्युदयम् । जलदहनपवनभयकृद् धान्यार्घक्षयविवृद्धौ वा ॥१॥
विचरन् श्रवणधनिष्ठाप्रजापत्येन्दुवैश्वदेवानि ( विश्वदैवानि) । मृद्नन् हिमकरतनयः करोत्यवृष्टिं सरोगभयाम् ॥२॥
रौद्रादीनि मघान्तानि उपाश्रिते चन्द्रजे प्रजापीडा । शस्त्रनिपातक्षुद्भयरोगानावृष्टिसन्तापैः ॥३॥
हस्तादीनि चरन् ( विचरन्) षडृक्षाणि उपपीडयन् गवामशुभः । स्नेहरसार्घविवृद्धिं करोति चौर्वीं प्रभूतान्नाम् ॥४॥
आर्यम्णं हौतभुजं भद्रपदामुत्त्ररां यमेशं च । चन्द्रस्य सुतो निघ्नन् प्राणभृतां धातुसंक्षयकृत् ॥५॥
आश्विनवारुणमूलानि उपमृद्नन् रेवतीं च चन्द्रसुतः । पण्यभिषग्नौजीविकसलिलजतुरगौपघातकरः ॥६॥
पूर्वाद्य्वृक्षत्रितयादेकमपीन्दोः सुतोऽभिमृद्नीयात् । क्षुत्शस्त्रतस्करामयभयप्रदायी चरन् जगतः ॥७॥
प्राकृतविमिश्रसंक्षिप्ततीक्ष्णयोगान्तघोरपापाख्याः । सप्त पराशरतन्त्रे नक्षत्रैः कीर्तिता गतयः ॥८॥
प्राकृतसंज्ञा वायव्ययाम्यपैतामहानि बहुलाश्च । मिश्रा गतिः प्रदिष्टा शशिशिवपितृभुजगदेवानि ( दैवानि) ।
संक्षिप्तायां पुष्यः पुनर्वसुः फल्गुनीद्वयं चेति । तीक्ष्णायां भद्रपदाद्वयं सशाक्राश्वयुक् पौष्णम् ॥९॥
योगान्तिकेति मूलं द्वे चाषाढे गतिः सुतस्येन्दोः ॥॥ घोरा श्रवणः त्वाष्टृअं वसुदैवं ( देवं) वारुणं चैव ॥१०॥
पापाख्या सावित्रं मैत्रं शक्राग्निदैवतं चेति । उदयप्रवासदिवसैः स एव गतिलक्षणं प्राह ॥११॥
चत्वारिंशत् ( ४०) त्रिंशद् ( ३०) द्विसमेता विंशति ( २२) द्विनवकं च । नव मासार्धं दश चैकसंयुताः प्राकृताद्यानाम् ॥१२॥
प्राकृतगत्यामारोग्यवृष्टिसस्यप्रवृद्धयः क्षेमम् । संक्षिप्तमिश्रयोः मिश्रमेतदन्यासु विपरीतम् ॥१३॥
ऋज्वीअतिवक्रावक्रा विकला च मतेन देवलस्यैताः । पंचचतुर्द्व्येकाहा ऋज्व्यादीनां षडभ्यस्ताः ॥१४॥
ऋज्वी हिता प्रजानामतिवक्राऽर्घं गतिः विनाशयति । शस्त्रभयदा च वक्रा विकला भयरोगसंजननी ॥१५॥
पौषाषाढश्रावणवैशाखेष्विन्दुजः समाघेषु । वृष्तो भयाय जगतः शुभफलकृत् प्रोषितः तेषु ॥१६॥
कार्तिके ( कार्त्तिके) ऽश्वयुजि वा यदि मासे दृश्यते तनुभवः शिशिरांशोः । शस्त्रचौरहुतभुग्गदतोयक्षुद्भयानि च तदा विदधाति
रुद्धानि सौम्येऽस्त्रगते ( अस्तमिते) पुराणि यानि उद्गते तानि उपयान्ति मोक्षम् । अन्ये तु पश्चादुदिते वदन्ति लाभः पुराणां भवति तज्ञाः ॥१७॥
हेमकान्तिः अथवा शुकवर्णः सस्यकेन मणिना सदृशो वा । स्निग्धमूर्तिः अलघुश्च हिताय व्यत्यये न शुभकृत्शशिपुत्रः ॥१८॥